SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये पद्माकराञ्चितस्यास्य राजहंसस्य सन्ततम् । वहुधावननिन्नत्वमद्भुतं च न चाद्भुतम् ।। ४ ॥ इयं सुमधुराकारा लक्ष्मणा वरलक्षणा । राजहंसस्य पत्नीति परमाद्भुतमीक्ष्यते ।। ५ ।। अयं खलु लक्ष्माञ्चितोऽपि पद्माभिख्याविराजितोऽपि सुमित्रानन्दनो, विजयानन्दनोऽपि कुण्डलाञ्चितकर्णो, 'धृतराष्ट्रोऽपि धर्ममयो, गन्धर्वदत्ताधिकहर्पोपि देवदत्ताधिकहो, महिपीसंभवोऽपि वृषोत्पादी विरराज । लक्ष्मणाञ्चितगालोऽपि निर्मलः कुरुचन्द्रमाः । सदा कुवलयाह्नादी पद्मान दीति चामृतम् ॥ ६॥ प्वपि, भूमिभृत्सु पर्वतेपु, सुरसुन्दरीणां देवाङ्गनानाम्, मेरुभ्रमो हेमाद्रिसंदेहः, अभूत् । तद्गुणमूलकभ्रान्तिमानलङ्कारः॥३॥ पद्माकराञ्चितस्येति-पद्माकरेण कमलकासारेणाञ्चितस्य शोभितस्य, अस्य जीवन्धरस्य, राजहंसस्य मरालविशेषस्य, सन्ततं सर्वदा, बहुधानेकप्रकारेण, वनस्य जलस्य निन्नत्वमाधीनत्वं न भवतीत्यवननिन्नत्वम्, अद्भुतमाश्चर्यकरम्, आसीदिति शेषः, किञ्च, नाद्भुतं नाश्चर्यकरं यतो बहुधानेकप्रकारेण वननिघ्नन्वं काननाधीनत्वं मरालविशेषस्य निसर्ग एव, अथवा बहुधावनस्य भू रिभ्रमणस्य निन्नत्वमाधीनत्वं मरालस्य स्वभाव एव, पक्षिजातिरितस्ततः सदा धावत एव । परिहारपक्षे, पद्माया लचम्याः करण पाणिनाञ्चितस्य पूजितस्य, अस्य राजहंसस्य श्रेष्ठनृपतेर्जीवन्धरस्य, सन्ततं सर्वदा, बहुधानेकप्रकारेण, वननिन्नत्वं काननवासतत्परत्वम्, अद्भुतमाश्चर्यकरम्, आसीत्, किञ्च नाद्भुतं नाश्चर्यकरम् आसीत्, यतोऽनेकप्रकारेण अवननिन्नवं रक्षौकाधीनन्वं श्रेष्ठराजस्य निसर्ग एव । श्लेषः ॥४॥ इयं सुमधुराकारेति-सुमधुरोऽतिमनोहर आकारः संस्थानं यस्याः सा, वराणि श्रेष्ठानि लक्षणानि चिह्नानि यस्याः सा, इयमेषा लक्ष्मणा सारसस्य योषित्, राजहंसस्य मरालविशेषस्य पत्नी योपिद्, इत्येतत्, परमाद्भुतं परमाश्चर्यम्, ईच्यते दृश्यते । सारसस्य योषित् राजहंसस्य कथं भवेदित्याश्चर्यम्, पक्षे लक्ष्मणा लक्ष्मणानामधेया कन्या, राजहंसस्य जीवन्धराभिधानस्य श्रेष्ठराजस्य पत्नी बभूवेति । 'हंसस्य योपिद् वरटा सारसस्य तु लक्ष्मणा' इत्यमरः ॥५॥ अयं खल्विति-खलु निश्चयेन, अयं जीवन्धरः, लक्ष्मभिर्बलभद्रचिह्नरञ्चितोऽपि, पद्म इत्यभिख्या पद्माभिख्या रामनाम तया विराजितोऽपि समुद्भासितोऽपि, सुमित्राया नन्दन इति सुमित्रानन्दनो लक्ष्मण इति विरोधः पक्ष लक्ष्माञ्चितोऽपि पद्मानां कमलानामभिख्या शोभा तया विराजितोऽपि सुमित्राणि सुसुहृद आनन्दयतीति सुमित्रानन्दनः, विजयानन्दनोऽपि विजयेनानन्दयतीति विजयानन्दनोऽपि सन् कुण्डलाञ्चितश्वासौ कर्णश्चेति कुण्डलाञ्चितकर्णः कुण्डलाभिधानकर्णाभरणभूषितराधेय इति विरोधः, महाभारतसमरे कुण्डलाञ्चितकर्णस्य पराजयः प्रसिद्धो न तु विजय इति विरोधः पक्षे विजयायाः एतन्नाममातुनन्दनोऽपि पुत्रोऽपि कुण्डलाञ्चिते कर्णाभरणविशेषालङ्कृते कर्णे श्रवणे यस्य तथाभूतः। तराष्ट्रोऽपि धर्ममयो धर्मदेवमयः दुर्योधनादिजनको धृतराष्ट्रो धर्ममयो धर्मरूपो युधिष्ठिरपितृरूपः कथं भवेदिति विरोधः, पक्षे धृतं पालितं राष्ट्र जनपदो येन तथाभूतोऽपि सन् धर्ममयो धर्मात्मक इति । गन्धर्वेभ्यो दत्तोऽधिको हर्षों येन तथाभूतोऽपि सन् , देवेभ्यो निर्जरेभ्यो दत्तोऽधिको हो येन तथाभूत इति विरोधः पक्षे गन्धर्वदत्ताया एतन्नामपन्या अधिकहर्षोऽपि सन् देवेन सुदर्शनयक्षेण दत्तोऽर्पितोऽधिको हर्षो यस्य तथाभूत इति । महिषीसंभवोऽपि देहिकोत्पन्नोऽपि वृषोत्पादी बलीवोत्पादक इति विरोधः पक्षे सत्यन्धरमहाराजपट्टराज्ञीजनितोऽपि वृषोत्पादी धर्मोत्पादक इति, विरराज शुशुभे । श्लेषमूलकविरोधाभासालंकारः । लक्ष्मणाञ्चितेति-लक्ष्मणा कलङ्केनाञ्चितगात्रोऽपि शोभितशरीरोऽपि निर्मलः कलङ्कातीत इति विरोधः पक्षे लक्ष्मणा विविधसामुद्रिकशास्त्रप्रणीतचिनाञ्चितगात्रोऽपि अथवा लक्ष्मणानामकभार्यया शोभितशरीरोऽपि निर्मलो निर्दोषः, कुरुचन्द्रमा जीवन्धरेन्दुः, सदा शश्वत्, कुवलयालादी नीलोत्पलानन्दनः सन्नपि पद्मानन्दी कमलानन्दनो बभूवेति अद्भुतं विस्मयस्थानम् पक्षे कुवलयं महीमण्डलमालादयति १, पयस्सुमधुराकारा ब. । २. लक्ष्मणाञ्चितोपि च ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy