________________
२१२
जीवन्धरचम्पूकाव्ये वर्णवद्धाः संमिलिताः। कञ्चित्सज्जीकृतानि सुरभिशीतलप्रसन्नतीर्थपूर्णानि कनककलशकुलानि । कञ्चित्तत्र सम्भृतानि तदुपयुक्तोपकरणानि । किं कार्तान्तिका मङ्गलमुहूर्तकृतावधानाः। कच्चिन्नानादेशनरपालाः सजीकृतोपायनाः संनद्धाः । किं वा नगररथ्याः परिष्कृताः। इति प्रश्नं समाकर्ण्य सचिवाः सञ्चितादराः । सर्व सुघटितं देवस्याज्ञयेति बभाषिरे ।। १२६ ॥ क्षीराम्भोधिपयःप्रपूर्णकलशानाहृत्य यक्षेश्वरो ।
यक्षः स्वानुचरैस्तदा परिवृतः सूर्यप्रतीपच्छविः । संप्रापत्कुरुकुञ्जरं पितृपदे राज्येऽभिषेक्तु मुदा
तत्रत्यक्षितिपावलिः स्म भजते वैलक्ष्यवीक्षारसम् ॥ १३० ।। ततश्चाभिषेकमण्डपमध्यस्थापितरत्नपीठोपरि विराजमानं कौरवं क्षीरवाराकरवारिभिर्यक्षराजगोविन्दमहाराजप्रमुखाः सहर्षमभिषिषिञ्चुः । तदानीमनेकप्रहतपटहमृदङ्गशङ्खझल्लरीप्रभृतिवाद्यारावस्तर्जयन्निव घनाघनमण्डलमास्फोटयन्निवाखिलजनश्रुतिमान्दोलयन्निव लोकमाह्वयन्निवाभिषेकदिक्षुजनमाक्रमन्निव भवनोदरमुदपादि।
तदनु दिव्यदुकूलविभूषणाञ्चितशरीरकुरूद्वहमूर्धनि । मकुटमुज्ज्वलरत्नविभासुरं करतं निदधे स हि यक्षराट् ।। १३१ ॥
मण्डपे सर्वेषां वर्णानां वृद्धाः स्थविरजनाः, संमिलिता एकत्रिताः, सुरभि सुगन्धि शीतलं शिशिरं प्रसन्नं स्वच्छं च यत्तीर्थतोयं तीर्थोदकं तेन पूर्णानि सम्भृतानि, कनककलशकुलानि सुवर्णकुम्भसमूहान् , सज्जीकृतानि सुरचितानि, कच्चित् कामप्रवेदने, तत्र मण्डपे, तदुपयुक्तोपकरणानि राज्याभिषेकयोग्यसाधनानि, सम्भृतानि संश्तानि, कच्चित् कार्तान्तिका देवज्ञाः मङ्गलमुहूर्ते कल्याणकालनिर्धारणे कृतं विहितमवधानं चित्तैकाग्रयं यैस्तथाभूताः किं सन्ति, कच्चित्, नानादेशनरपाला नैकजनपदभूपाः सजीकृतोपायनाः सुरचितोपहाराः सन्ति, किं वा अथवा, नगररथ्याः पुरमार्गाः, परिष्कृताः परिशोभिताः ।।
इति प्रश्नमिति-इति पूर्वोक्तम्, प्रश्नमनुयोगम्, समाकर्ण्य श्रुत्वा, सञ्चितादराः प्राप्तसन्मानाः, सचिवा अमात्याः, देवस्य भवतः, आज्ञया समादेशेन, सर्वं कृत्स्नम्, सुघटितं सुरचितम्, इति बभाषिरे जगदुः ॥१२६॥
क्षीराम्भोधीति-तदा तस्मिन् काले, सूर्यप्रतीपा दिवाकरसदृशी छविर्दीप्तिर्यस्य सः, यक्षेश्वरः सुदर्शनः, स्वानुचरैर्निजसेवकैः, यतैर्देवविशेषैः परिवृतः परीतः सन् , क्षीराम्भोधेः पयःपारावारस्य पयसा जलेन प्रपूर्णाः सम्भृता ये कलशाः कुम्भास्तान्, आहृत्य आनाय्य, कुरुकुञ्जरं जीवन्धरम्, मुदा हर्षेण, पितृपदे जनकधामनि, राज्ये साम्राज्ये, अभिषेक्तुं समुक्षितुम्, संप्रापदाजगाम, तत्रभवास्तत्रत्यास्ते च ते क्षितिपाश्च राजानस्तेषामावलिः पङ्क्तिः , वैलच्यवीचारसं विस्मयावलोकनप्रीतिम्, भजते स्म भेजे । तदद्भुतं दृष्ट्वा सर्वे राजानो विस्मिता बभूवुरिति भावः ॥१३०॥
ततश्चाभिषेकेति-ततश्च तदनन्तरञ्च, अभिषेकाय मण्डपमभिषेकमण्डपमभिस्नानास्थानं तस्य मध्ये स्थापितं निवेशितं यद् रत्नपीठं मणिमयासनं तस्योपरि, विराजमानं शोभमानम्, अधितिष्ठन्तमिति यावत्, कौरवं जीवन्धरम्, क्षीरवाराकरस्य पयःपयोधेः, वारिभिर्जलः, यक्षराजः सुदर्शनः, गोविन्दमहाराजो विदेहाधीश्वरो जीवन्धरस्य मातुलः, तौ प्रमुखौ प्रधानौ ययोस्ते, सहर्ष सप्रमोदम्, अभिषिषिचुः स्नपयन्ति स्म । तदानी तस्मिन् काले, अनेकेषां भूयसां प्रहतानां ताडितानां पटहमृदङ्गशङ्खझल्लरीप्रभृतिवाद्यानाम् आनकमुरजकम्बुझल्लरीप्रमुखवादित्राणाम् आरवः शब्दः धनाधनमण्डलं मेघसमूहम्, तर्जयन्निव भर्सयन्निव, अखिलजनश्रुतिं निखिललोककर्णम्, आस्फोटयन्निव विदारयन्निव, लोकं भुवनम्, आन्दोलयन्निव संचलयन्निव, अभिषेकदिदृक्षुजनं स्नपनविलोकनाभिलाषि लोकम्, आह्वयन्निव आकारयन्निव, भवनोदरं जगन्मध्यम्, आक्रामन्निव समधिरुहन्निव, उपपादि समजनि ।
तदन्विति तदनु अभिषेकानन्तरम्, हि निश्चयेन, स पूर्वोक्तः, यक्षराट यक्षेश्वरः सुदर्शनः, दिव्यैः