SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ दशमो लम्भः २५३ आपृच्छय कुरुभूपालमारुह्य व्योमयानकम् । आदिश्य परिवारं स्वमयाद्यक्षोऽपि मन्दिरम् ॥१३२॥ ___ तदानीं निखिलनरपालकुलविलसितसल्लापं गोविन्दमहीवल्लभमग्रतो विधाय सप्रश्रयमवनतपूर्वकायेन पद्मास्येन दीयमानहस्तावलम्बः, सुरस्तम्वेरमसकाशं महान्तमौपवाह्यं गजराजमुदयधराधरमिव सरोजवन्धुरैरावणमिव गीर्वाणपतिरधिरूढः, प्रकृतिजनकुमुदपण्डचन्द्रमण्डलेन क्षीरोदधिडिण्डीरधवलेन स्थूलमुक्ताफलजालकावृतेनातपत्रेण परिष्क्रियमाणो भागः, पार्श्वयोद्धयमानाभ्यां राज्यलक्ष्मीकटाक्षतरङ्गाभ्यामिव पयःपारावारपरिलोलदूमिसंकाशकनकदण्डविलसितचामराभ्यां किञ्चिच्चञ्चलवसनाञ्चलः, सर्वतः सममपावृतकवाटपुटप्रकटवातायनतया कुरुपतिदर्शनकुतूहलसमुन्मीलितलोचनस्येव तत्पुरस्य हाग्रावलम्बिनीनां पौरनितम्बिनीनां कासाञ्चिदर्धपरिसमाप्तसाधनव्यापाराणां वामहस्तगतमणिदर्पणानां परिलसत्कोकारिपूर्णमण्डलानामिव राकारजनीनाम् , कासाञ्चन सरभसगमनविगलितमेखलाकलापाकुलितचरणपल्लवानां शृङ्खलाघटितचरणमारमदपट्टकरिणीनामिवापरासाम्, आद्र लाक्षारसारुगचरणसरोजानां कमलपरिपीतवालातपानामिव कमलि स्वर्गभवैकूलविभूषणैः क्षोमाम्बरालङ्कारैरञ्चितं शोभितं शरीरं गात्रं यस्य, स चासौ कुरूद्वहश्चेति तस्य मूर्धनि शिरसि, उज्ज्वलरत्नैर्देदीप्यमानमणिभिर्विभासुरं शोभमानम्, करकृतं स्वहस्तस्थापितम्, मकुटं मौलिम्, निदधे निचिक्षेप । द्रुतविलम्बितवृत्तम् ॥१३॥ आपृच्छयेति-यक्षोऽपि कृतज्ञचरोऽपि, कुरुभूपालं सात्यन्धरिमहाराजम्, आपृच्छय आमन्त्र्य, व्योमयानकं विमानम्, आरुह्य समधिष्टाय, परिवारं परिजनम्, आदिश्य नियोगं दत्वा, स्वं स्वकीयम्, मन्दिरं भवनम्, अयात् अगच्छत् ॥१३२॥ तदानीमिति तदानीं तस्मिन् काले, निखिल नरपालकुलेन समग्रराजसमृहेन विलसितः कृतः सल्लापः सम्भाषणं येन तम्, गोविन्दमहीवल्लभं विदेहावीश्वरम्, अग्रतः पुरस्तात्, विधाय कृत्वा, सप्रश्रयं सविनयम, अवनतो विनम्रः पूर्वकायः शरीरस्य पूर्वभागो यस्य तेन, पद्मास्येन तन्नामप्रमुखमित्रेण, दीयमानोऽर्यमाणो हस्तावलम्बो हस्ताश्रयो यस्य सः, सुरस्तम्बेरमेण देवगजेन सकाशः सदृशस्तम्, महान्तं समुत्तङ्गम्, औपवाह्यं वाहनयोग्यम्, गजराजं करीन्द्रम्, उदयधराधरं पूर्वाचलम्, सरोजबन्धुरिव सूर्य इव, ऐरावणं ऐरावतम्, गीर्वाणपतिरिव पुरन्दर इव, अधिरूढोऽधिष्टितः, प्रकृतिजनाः प्रजाजना एव कुमुदषण्डः कुमुदसमूहस्तस्य चन्द्रमण्डलेन शशिविम्बेन, क्षीरोदधेः क्षीरसागरस्य डिण्डीर इव हिण्डीर इव धवलं शुक्लं तेन, स्थूलं विशालं यन्मुक्ताफलजालकं मौक्तिकसमूहस्तेनावृतं तेन, आतपत्रेण छत्रेण, परिक्रियमाणः समलंक्रियमाण अद्धभागो यस्य सः, पार्श्वद्वये तरद्वय उधूयमानाभ्यां प्रकीर्यमाणाभ्यामिव, राज्यलक्ष्मीकटाक्षतरङ्गाभ्यामिव साम्राज्यश्रीकेकरकल्लोलाभ्यामिव, पयःपारावारस्य क्षीरसागरस्य परिलोलद्भयां संचलझ्यामूर्मिभ्यां भङ्गाभ्यां संकाशौ सदृशौ ताभ्याम् । कनकदण्डाभ्यां सुवर्णदण्डाभ्यां विलसिते शोभिते ये चामरे बालन्यजने ताभ्याम्, किञ्चिन्मनाग बञ्चलं चपलं, वसनाञ्चलं क्षौमप्रान्तं यस्य सः, सर्वतः समन्तात् , समं युगपत् , अपावृतकपाटपुटानि दूरीकृताररपुटानि अतएव प्रकटानि स्पष्टानि वातायनानि गवाक्षा यस्य तस्य भावस्तत्ता तया, कुरुपतिदर्शनस्य जीवन्धरावलोकनस्य कुतूहलेन कौतुकेन समुन्मीलितानि समुद्घाटितानि लोचनानि नयनानि येन तस्येव, तत्पुरस्य तन्नगरस्य, हाग्रावलम्बिनीनां भवनाग्रस्थितानाम्, पौरनितम्बिनीनां नागरिकनारीणाम्, कासांचित् कासामपि, अधिपरिसमाप्तोऽर्धनिप्पन्नः प्रसाधनव्यापारोऽलङ्करणकार्य यासां तासाम्, वामहस्तगतः सव्यकरस्थितो मणिदर्पणो रत्नादर्शो यासां तासाम्, परिलसच्छोभमानं कोकारिपूर्णमण्डलं चन्द्रपूर्णबिम्बं यासु तासाम, राकारजनीनामिव पूर्णिमारात्रीणामिव, कासांचन कासामपि, सरभसगमनेन सवेगप्रधावनेन विगलितः भ्रष्टो यो मेखलाकलापो रशनासमूहस्तेनाकुलिता व्यग्राश्चरणपल्लवाः पादकिसलया यासां तासाम्, शृङ्खलया घटिता युक्ताश्चरणाः पादा यासां तथाभूता या मारस्य कन्दर्पस्य मदपट्टकरिण्यो मदोन्मत्तप्रधानकरेगवस्तासामिव, अपरासामन्यासाम्, आर्द्रलाक्षारसेन सरसयावकद्रवेणारुणानि रक्तानि चरणसरोजानि
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy