SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ दशमो लम्भः काष्टाङ्गारमहिषीं तत्पुत्रांञ्चावलोक्य कृपातरङ्गितः परिसान्त्वनकलाप्रवीणः पीयूपमधुराभिर्विचि त्राभिर्गिरां परम्पराभिः समाश्वासमानिन्ये । तदनु जलधौ भासां पत्यौ निमज्जति पश्चिमे करवृतमणिश्रेणीदीपैर्जनैः परिसेवितः । सखिपरिवृतः सोऽयं कोशं विवेश शनैः शनै धनमणिगणैर्वस्त्रैरन्यैश्च वस्तुभिरुज्ज्वलैः ।। १२७ । २११ तदनु कोशधनादिकं निजमुद्रा मुद्रयित्वा निद्रासुखमनुभूपुः कुरुवीरः प्रासादमधिरुह्य मणिमञ्चोपरि हंसतूलशयने सुष्वाप । ततश्च निशायामवसन्नायां प्राबोधिकजनहृद्यपद्यालापैर्मङ्गलविचित्रवादित्रारावैश्च प्रबुद्धोऽसौ जीवन्धरः कृतप्राभातिककृत्यः सकलपरिवारसहितो गोविन्दराजेन सह भगवज्जिनभवनमासाद्य तत्र पूजां विस्तारयामास । ततः सर्वैः साकं नृपभवनमासाद्य सहसा विदेहक्षोणीशः सचिवगणमानीय पुरतः । समादिश्य श्रीमान्प्रजवमभिषेकप्रयतनं समापृच्छचैवं कुतुकितमनाः कञ्जनयनः ॥ १२८ ॥ किं नवरत्नप्रभापरिहसितपुरन्दरसभामण्डपमभिपेकमण्डपं विनिर्मितम् । किं वा तत्र सर्वक्रौञ्चपक्षिणीमित्र, क्रन्दन्तीं रुदन्तीम्, काष्टाङ्गारमहिषीं कृतघ्नकामिनीम्, तत्पुत्रान् तत्सुतांश्च, अवलोक्य दृष्ट्वा कृपातरङ्गितो दयातरङ्गितः, परिसान्त्वनकलायां समाश्वासनचातुर्याम्, प्रवीणो दत्तः, पीयूषमधुराभिरमृतमिष्टाभिः, विचित्राभिर्विविधप्रकाराभिः गिरां वाणीनाम्, परम्पराभिः सन्ततिभिः समाश्वासं परिसा - न्त्वनम्, आनिन्ये प्रापयामास । तदनु जलधाविति - तदनु तदनन्तरम्, भासां पत्यौ सूर्ये, पश्चिमे पश्चिमाशावलम्बिनी, जलधौ सागरे, निमज्जति सति निमज्जनोद्यते सति, करेषु पाणिषु धृता अवलम्बिता मणिश्रेणीरूपा रत्नपङ्क्तिरूपा दीपा यैस्तैः, जनैर्लोकैः, परिसेवितः परिवृतः, सखिभिर्मित्रैः परिवृतो युक्तः सोऽयं जीवन्धरः, शनैःशनैर्मन्द्र मन्दम्, धनमणिगणैर्वित्तरत्नसमूहः, वस्त्रैः पटः, अन्यैश्च भिन्नैश्च, उज्ज्वलैनिर्मलैः, वस्तुभिः पदार्थैः, उपलक्षितं कोशं भाण्डागारम्, विवेश विशति स्म । हरिणीच्छन्दः ॥ १२७॥ तदनु कोशधनादिकमिति — तदनु तत्पश्चात्, कोशाधनादिकं भाण्डार वित्तप्रभृतिकम्, निजमुद्रा स्वकीयनामाक्षरमुद्रया, मुद्रयित्वा मुद्रितं कृत्वा, निद्रासुखं स्वापसौख्यम्, अनुवभू पुरनुभवितुमिच्छुः, कुरुवीरो जीवन्धरः, प्रासादं भवनम् अधिरुह्याधिष्ठाय, मणिमञ्चोपरि रत्नपर्यङ्ककाया उपरि, हंसतूलशयने हंसतुलशय्यायाम्, सुष्वाप शिश्ये । ततश्च तदनन्तरञ्च निशायां रजन्याम्, अवसन्नायां पूर्णायां सत्याम्, प्राबोधिकजनानां प्रबोधप्रयोजनकलोकानां हृद्याश्च ते मनोहराश्च ते पद्यालापाश्च श्लोकालापाश्चेति तैः, मङ्गलविचित्रवादित्राणां मङ्गलप्रयोजन कविविधवाद्यानामारावेंश्व ध्वनिभिश्व, प्रबुद्धो जागृतः, असौ पूर्वोक्तः, जीवन्ध जीवकः, कृतानि सम्पादितानि प्राभातिकानि प्रातः कालिकानि कृत्यानि येन सः सकलपरिवारसहितो निखिलपरिजनयुतः सन् गोविन्दराजेन सह मातुलेन सार्धम्, भगवज्जिनभवनं भगवज्जिनेन्द्रमन्दिरम् आसाद्य लब्ध्वा तत्र मन्दिरे, पूजां सपर्याम्, विस्तारयामास विततान | 5 ततः सर्वैरिति—ततस्तदनन्तरम्, विदेहचोणीशी गोविन्दभूपालः सर्वेनिखिलैः, साकं सह, नृपभवनं राजसदनम्, आसाद्य प्राप्य, सहसा झटिति, पुरतोऽग्रे, सचिवगणं मन्त्रिमण्डलम्, आनीय प्रापय्य, प्रजर्व प्रवेगं यथा स्यात्तथा, अभिषेकप्रयतनं राज्याभिषेकसम्भारम्, समादिश्य समाज्ञाप्य, कुतुकितमनाः कौतूहलाक्रान्तचित्तः, कञ्जनयनः कमलनेत्रः, श्रीमान् शोभासम्पन्नः, एवं वच्यमाणप्रकारेण, समापृच्छत् पप्रच्छ । शिखरिणीच्छन्दः ॥ १२८ ॥ किं नवरत्नप्रभेति - नवरत्नप्रभाभिर्नूतनमणिदीप्तिभिः परिहसितः तिरस्कृतः पुरन्द्रसभामण्डपः शक्रास्थानमण्डपो येन तथाभूतम्, अभिषेकमण्डपमभिषेकास्थानम् विनिर्मितं रचितं किम् । किं वा तत्र
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy