________________
२१०
जीवन्धरचम्पूकाव्ये निजमुखसुधाकरालोकैरुल्लसता बलजलधिना मेदुरपुरोभागः, सहोद्वेगमहमहमिकया सरभसा. पनीतातपत्रान्परस्परोत्पीडनकुपिततुरङ्गमनिवारणायाससहानेकैकशः प्रतिनामग्रहणं समीपगतैः काष्ठाङ्गारबन्धुभिरावेद्यमानान्प्रणामसमयप्रचलितमकुटतटघटितपद्मरागप्रभाप्रसरणकैतवेन प्रकटीकृतानुरागाञ्छात्रवपक्षलक्षितक्षोणीपतीन्यथाहँ बहुमन्यमानः, समरसमानीतसपनलक्ष्मीनिवासविकचपुण्डरीकायमानेन निजवल जलधिफेनकूटशङ्कावहेनातपत्रेण विभ्राजितः, पार्श्वद्वयसमुद्धृयमानचामरसमीरनतितकर्णावतंसः, पुरतो 'जय जय' इति मधुरमुच्चैः पठता वन्दिवृन्देन पापठ्यमाननिजविरुदवैभवः, क्रमेण समासाद्य तत्र ध्वजकलशतोरणवितानाद्यष्टशोभाभिरलंकृतासु रथ्यासु प्रविशमानः, सकलपुरतरुणीजनबाहुवंशगलितमुक्ताफलायमानैः पुष्पलाजोपहारैः संभाव्यमानो राजमन्दिरमाससाद । तत्र च, विसृष्टनिखिलावनीपतिचयः कुरूणां पति
मितैः परिजनैर्युतः प्रविशति स्म सोऽन्तःपुरम् । निमग्नमरिकामिनीजनमतीव शोकाम्बुधौ
निरीक्ष्य करुणाकरः सपदि सान्त्वनायोद्यतः ।। १२६ ।। ततः कुरुवीरः शोकसन्त्रासदीनमन्तःपुरिकाजनं समीपमानीय तत्र कुररीमिव क्रन्दन्ती प्रहृष्टं निजमुखमेव स्वकीयास्यमेव सुधाकरश्चन्द्रस्तस्यालोकैः प्रकाशैः, उल्लसता वर्धमानेन प्रसन्नीभवता च, बलजलधिना सेनासागरेण मेदुरो मिलितः पुरोभागो यस्य सः, सहर्षोद्वेगं प्रमोदोद्वेगसहितं यथा स्यात्तथा, अहमहमिकया अहं पूर्वमहं पूर्वमिति भावेन, सरभसं सवेगमपनीतं दूरीकृतमातपत्र छत्र येषां तान् , परस्परोत्पीडनेन मिथः संमर्दनेन कुपिता रुष्टा ये तुरङ्गमा अश्वास्तेषां निवारणे प्रतिरोधन आयाससहाः खेदसहास्तान्, प्रणामसमये नमस्कारवेलायां प्रचलितानि यानि मकुटतटानि मौलिपाणि तेषु घटिताः खचिता ये पद्मरागा लोहितकमणयस्तेषां प्रभायाः कान्तेयंत्प्रसरणं विस्तारस्तस्य कैतवं व्याजं तेन, प्रकटीकृतानुरागान् प्रदर्शितप्रेम्णः, शात्रवपक्षण सपत्नपक्षण लक्षिता युक्ता ये क्षोणीपतयो राजानस्तान्, यथार्ह यथायोग्यम्, बहुमन्यमानः तान्प्रति सन्मानं प्रदर्शयन् समरे संगरे समानीता समाकृष्टा या सपत्नलक्ष्मीः शत्रुश्रीस्तस्या निवासो वसतिस्थानं यद् विकचपुण्डरीकं प्रफुल्लपमं तद्वदाचरता, निजबलमेव जलधिनिजबलजलधिः स्वकीयसेनापारावारस्तस्य फेनकूटस्य डिण्डीरपिण्डस्य शङ्कावहं संदेहाधायकं यदातपत्रं छत्रं तेन, विभाजितः शोभितः, पार्श्वद्वये तटयुगे समुद्धृययाने कम्प्यमाने ये चामरे प्रकीर्णके तयोः समीरेण पवनेन नर्तितः कम्पितः कर्णावतंसो यस्य तथाभूतः, पुरतोऽग्रे, 'जय जय' इति मधुरं मनोहरं यथा स्यात्तथा, उच्चैरुदात्तस्वरेण, पठता, वन्दिवृन्देन मागधसमूहेन, पापठ्यमानं भूयोभूयोऽतिशयेन वा पठ्यमानं निजविरुदवैभवं स्वर्कार्तिसंपद्यस्य सः, एवम्भूतः सन् , क्रमेण क्रमशः, पुरी राजपुरीनगरीम्, समासाद्य सम्प्राप्य, यत्र पुर्याम, ध्वजकलशतोरणवितानाद्यष्टशोभाभिः पताकाकुम्भतोरणचन्दोपकप्रभृत्यष्टविधशोभोपकरणैः, अलंकृतासु विराजितासु, रथ्यासु वी षु, प्रविशमानः प्रवेशं कुर्वाणः, सकलपुरस्य निखिलनगरस्य तरुणीजनानां युवतिजनानां बाहुवंशेभ्यो भुजवेणुभ्यो गलितानि पतितानि यानि मुक्ताफलानि मौक्तिकानि तद्वदाचरद्भिः, पुष्पलाजोपहारैः कुसुमभर्जितधान्यपुष्पोपायनैः, संभाव्यमानः सक्रियमाणः, सन् , राजमन्दिरं नृपतिनिकेतनम्, आससाद प्राप । तत्र च तस्मिश्च राजमन्दिरे । . विमृष्टेति-विसृष्टः प्रत्यावर्तितो निखिलावनीपतिचयोऽखिलनरेन्द्रसमूहो येन सः, मितैरल्पैः, परिजनैः परिवारैः, युक्तः सहितः, स पूर्वोक्तः कुरूणां पतिः स्वामी, अन्तःपुरं निशान्तम्, प्रविशति स्म प्राविशत् । तत्र, अतीवात्यन्तम्, शोकाम्बुधौ खेदपारावारे, निमग्नं बुडितम्, अरिकामिनीजनं शत्रुस्त्रीसमूहम्, निरीच्य दृष्ट्वा, करुणाकरो दयाकरः, सः, सपदि झटिति, सान्त्वनाय समाश्वासनाय, उद्यतस्तपरो बभूव । पृीछन्दः ॥१२६॥
ततः कुरुवीर इति-ततस्तदनन्तरम्, कुरुवीरो जीवकः शोकसन्त्रासाभ्यां खेदभयाभ्यां दीनं कातरम्, अन्तःपुरिकाजनं निशान्तनारीसमूहम्, समीपं निकटम्, आनीय समाहूय, तत्र तेषु, कुररीमिव