________________
wwwr
दशमो लम्भः देवाः पुप्पमवाकिरन्नविकलं श्लाघासहस्रः समं
लोकान्दोलनतत्परः कुरुवले कोलाहलः कोऽप्यभूत् ।। १२२ ॥ तदानीं संत्रासपलायमानं शात्रववलमवलोक्य, कुरुवीरः कमगाकरः क्षणादभयघोष गां विधाय, तद्वन्धुतां दीनामाहूय, तत्कालोचितसम्भाषगादिभिः परिसान्त्वयामाप्त ।
विजया विजयाधिकेन पुत्रप्रवरेणाद्य बभूव वीरमाता । अधुना विधुना समानवक्त्रा मम पुत्री च चिराय वीरपत्नी ॥१२३।। इत्युक्त्वा मातुलः सोऽयं गोविन्दधरणीपतिः।। कुरुवीरं कुलोद्धारं कुतुकादभ्यनन्दयत् ।। १२४ ॥ वसुन्धरा क्षुद्रकृतनसंगात्समाष्टुंकामा समवेतदोषम् ।
कुरुप्रवीरस्य विशालदोषमुपाश्रिताभूदिति चित्रमेतत् ॥ १२५ ॥ तदनु जीवन्धरो मुकुलिताञ्जलिकञ्जानां समन्ततः सामन्तवसुमतीपालानामानतीरालोकनेनाङ्गीकुर्वाणः, पूर्वाचलमिव पयोजबन्धुर्गन्धसिन्धुरमधिरूढो, दूरादनुगच्छद्भिः सेनाध्यक्षरनुक्षणं प्रतिपाल्यमानेक्षणावसरः, सामजविराजितैर्गरुडवेगगोविन्दपल्लवपतिलोकपालप्रभृतिभिर्महीपालैः परिवृतसविधप्रदेशः, शताङ्गसंगतैनन्दाठ्यप्रमुखैः सहोदरैः पद्मास्यप्रभृतिमिः सहचरैश्च परिशोभितः, प्रसन्नप्रतिकाष्ठम्, ज्वालाकलापोर्मिलं ज्वालासमूहसन्ततियुक्तम्, चक्रं शस्त्र विशेषम्, शत्रुगले वैरिकण्ठे, निपात्य पातयित्वा, तरसा बलेन, तन्मस्तकं शत्रुशिरः, चिच्छेद कर्तयामास । देवा अमराः, श्लाघासहस्रर्बहुविधप्रशंसाभिः, समं सार्धम्, अविकलं पूर्ण यथा स्यात्तथा, पुष्पं कुसुमम्, अवाकिरन् ववृषुः । कुरुबले जीवन्धरसैन्ये, लोकान्दोलनतत्परो लोकोच्चालनदक्षः, कोऽप्यद्भुतः, कोलाहलः कलकलशब्दः, अभूत् ॥१२२॥
तदानोमिति तदानीं काष्टाङ्गारमहाप्रयाणकाले, संत्रासेन भयेन पलायमानं समन्ताद्वावमानम्, शात्रवबलं प्रत्यर्थिपृतनाम्, अवलोक्य दृष्ट्वा, करुणाकरो दयाखनिः, कुरुवीरो जीवन्धरः, क्षणादल्पेनैव कालेन, अभयघोषणामभयध्वनिम्, विधाय कृत्वा, दीनां दुःखीभूताम्, तस्य बन्धुता बन्धुसमूहस्ताम्, आहूयाकार्य, तत्कालोचितसम्भाषणादिभिः तत्समययोग्यवार्तालापप्रभृतिभिः, परिसान्त्वयामास शमयामास ।
विजयेति-अद्याधुना, विजया मम भगिनी, विजयाधिकेन विजयेनाधिको विजयाधिकस्तेन विजयवर्धमानेन, पुत्रप्रवरेण श्रेष्ठपुत्रेण, वीरमाता वीरजननी, बभूव । अधुना साम्प्रतम्, विधुना शशिना, समानं सदृशं वक्त्रं मुखं यस्यास्तथाभूता, मम पुत्री च मे सुता च, चिराय चिरकालेन, वीरपत्नी वीरजाया, बभूव ॥१२३॥
इत्युक्त्वेति-मातुलो मातृसहोदरः, सोऽयं प्रसिद्धः, गोविन्दधरणीपतिर्गोविन्दमहीपालः, इति पूर्वोक्तप्रकारेण, उक्त्वा कथयित्वा, कुलोद्धारं वंशोन्नायकम्, कुरूवीरं सात्यन्धरिम्, कुतुकाल्कौतूहलेन; अभ्यनन्दयत् प्रशशंस ॥१२॥
वसुन्धरेति-वसुन्धरा वसुधा, क्षुद्रश्चासौ कृतघ्नश्चेति क्षुद्रकृतघ्नो नीचकाष्टाङ्गारस्तस्य संगात्सम्बन्धात्, समवेतदोषं प्राप्तावगुणम्, संमाष्टुकामेव दूरीकतुमना इव, कुरुवारस्य जीवन्धरस्य, विशालदोषं प्रचुरावगुणं पक्षे दीर्घबाहुम्, उपाश्रिता समालम्बिता, अभूद् बभव, इति चित्रमाश्चर्यम् ॥१२५॥
तदन्विति-तदनु तदनन्तरम्, जीवन्धरो जीवकः, समन्ततः परितः, मुकुलतानि कुड्मलितानि अञ्जलिकञ्जानि हस्तपुटकमलानि येषां तेषाम्, सामन्तवसुमतीपालानां मण्डलेश्वरभूपालानाम्, आनतीनमस्कारान्, आलोकनेन दर्शनेन, अङ्गीकुर्वाणः स्वीकुर्वाणः, पूर्वाचलमुदयगिरिम्, पयोजबन्धुरिव सूर्य इव, गन्धसिन्धुरं मत्तमतङ्गजम्, अधिरूढोऽधिष्ठितः, दूराद् विप्रकृष्टात् , अनुगच्छद्भिरनुयाद्भिः, सेनाध्यक्षः पृतनापतिभिः, अनुक्षणं प्रतिसमयम्, प्रतिपाल्यमानोऽपेक्ष्यमाण ईक्षणावसारोऽवलोकनकालो यस्य सः, सामजेषु गजेषु विराजिताः शोभितास्तैः, गरुडवेग गोविन्द-पल्लवपति-लोकपालप्रभृतिभिः, महीपाले राजभिः परिवृतः परीतः सविधप्रदेशो निकटस्थभूभागो यस्य सः, शताङ्गसंगतै रथसहितैः नन्दायप्रमुखैनन्दाढ्यप्रधानः, सहोदरैः सनाभिभिः, पद्मास्यप्रभृतिभिः पद्मास्यादिभिः सहचरैश्च मित्र श्च, परिशोभितः समलकृतः, प्रसनं
२७