________________
जीवन्धरचम्पूकाव्ये
तदानीमुदारपराक्रमप्रथितभुजदण्डयोः समकालमिव गीर्वाणगणलक्ष्यमाणमार्गणसंधानविकर्षणमोक्षयोरन्योन्यं विजयाशाविजृम्भितरन्ध्रान्वेषणयोराश्चर्य कर्म कलाचिलोकनसमय संतुष्टवृन्दारकजनकरारविन्दसंदीयमानम दारकुसुम तुन्दिल सविधप्रदेशयोः मध्यप्रसृतमृत्युना सायमानबाहुदण्डविधृतचक्रीकृतकोदण्डतया कोपकुटिलित मृत्यु युगलशङ्का संपादकयोः प्रवृद्धोत्साहयोर्भयानकसमरमादधानयोः कुरुवीरकाष्ठाङ्गारयोः परस्परशरघट्टनजनितविस्फुलिङ्गपरम्परामेघमाला - ष्ठापि न शान्तिमाससाद ।
ताक्षे समरे प्रसन्नमनसो वीरस्य सात्यंधरे
२०६
aणाली रदा विभिन्नवपुषि क्षीणे क्षणेनाखिले । द्वेषिदमापशिलीमुखाभ्रपटले स्वीया तदा वाहिनी
प्रोन्मीलन्मुखवारिजा प्रविलसच्छ्रीराजहंसा बभौ ॥ १२० ॥ जीवंधरस्य करपद्मगतं सपत्नशस्त्रालिवारणपरं घनदीप्रखेटम् । अर्धे विभिद्य युधि राहुनिगीर्णचन्द्र विम्बार्धवत्प्रविदधत्स जगर्ज शत्रुः ।। १२१ ।। कोपेनाथ कुरूद्वहः प्रतिदिशं ज्वालाकलापोर्मिलं
चक्रं शत्रुगले निपात्य तरसा चिच्छेद त मस्तकम् ।
संचलनानर्हम्, विद्विषन्त एव पक्षिणः खेचरास्तेषाम्, कुलं समूहम्, विपाठपञ्जरेण शरशलाकागृहेण, बबन्ध बध्नाति स्म । शरसमूहैः शत्रवो निरुद्धा इति भावः ॥ ११६ ॥
तदानीमिति — तदानीं तस्मिन् समये, उदारपराक्रमेण विशालावदानेन प्रथितौ प्रसिद्ध भुजदण्डौ ययोस्तयोः, समकालमिव युगपदिव, गीर्वाणगणेन देवसमूहेन लच्यमाणा दृश्यमाना मार्गणानां बाणानां ग्रहणसंधान विकर्षणमोक्षा आदानधारणाकर्षणव्यजनानि ययोस्तयोः, अन्योऽन्यं परस्परम् विजयाशया विजयाभिलाषेण विजृम्भितं वृद्धिङ्गतं रन्ध्रान्वेषणं छिद्रान्वेषणं ययोस्तयोः, आश्चर्यकर्मकलानां विस्मया वहकार्य - वैदग्धीनां विलोकनसमये दर्शनकाले संतुष्टाः प्रसन्ना ये वृन्दारकजना देवसमूहास्तेषां करारविन् दैर्हस्तकमलैः संदीयमानानि वितीर्यमाणानि यानि कुसुमानि पुष्पाणि तैस्तुन्दिलः स्थूलीभूतः सविधप्रदेशो ययो स्तयोः, मध्ये प्रसृतः प्रसारं प्राप्तो यो मृत्युर्यमस्तस्य नासायमानयोर्घाणसदृशयोर्बाहुदण्डयोर्भुजदण्डयोविधृतमारोपितं चक्रीकृतं वर्तुलाकारं कोदण्डं धनुर्ययोस्तयोर्भावस्तत्ता तया कोपकुटिलिते क्रोधवक्रीकृते ये मृत्युभ्रुवौ यमभ्रकुटी तयोर्युगलं द्वयं तस्य शङ्कायाः संशयस्य संपादकौ विधायकौ तयोः, प्रवृद्धोत्साहयोर्वर्धमानोल्लासयोः, भयानकसमरं भयावहयुद्धम्, आदधानयोः कुर्वाणयोः, कुरुवीरकाष्टाङ्गारयोः जीवन्धरकृतघ्नयोः, परस्परशरघट्टनेन मिथोबाणाघातेन जनिता समुत्पन्ना या विस्फुलिङ्गपरम्परा वह्निकणसन्ततिः सा, मेघमालासु घनराजिषु, प्रविष्टापि समन्तर्गताऽपि, शान्ति विध्यापनम्, नाससाद न प्राप ।
ताक्षे समर इति तदा तस्यां वेलायाम्, तादृक्षे पूर्वोक्तप्रकारे, समरे युद्धे, अखिले सम्पूर्णे, द्वेषिच्मापस्य शत्रुराजस्य शिलीमुखा एव बाणा एवाभ्रपटलं मेघमण्डलं तस्मिन्, प्रसन्नमनसः प्रमुदितचेतसः, वीरस्य वीर्या वारस्य, सात्यन्धरेजीर्वन्धरस्य, बाणाली शरसन्ततिरेव शरद् जलदान्तर्तुस्तया, क्षणेनाल्पेनैव कालेन, विभिन्नवपुषि खण्डितशरीरे, क्षीणे सति, स्वीया स्वकीया, वाहिनी नदी सेना च, प्रोन्मीलन्ति विकसन्ति मुखवारिजानि वदनकमलानि यस्यां तथाभूता, प्रविलसन्तः शोभमानाः श्रीराजहंसा लक्ष्म्युपलक्षितराजश्रेष्ठाः पत्रे शोभोपलक्षितहंस विशेषा यस्यां तथाभूता सतीं, बभौ शुशुभे । रूपकालङ्कारः ॥ १२०॥ जीवन्धरस्येति - युधि युद्धे, जीवन्धरस्य सात्यन्धरेः, करपद्मगतं पाणिकमलस्थितम्, सपत्नशस्त्रालि चारणपरं शत्रुहेतिततिनिवारणतत्परम्, घनदीप्रखेटं सुदृढभास्वरबाणवारकम्, अर्धे अर्ध भागे, विभिद्य खण्डयित्वा राहुणा विधुन्तुदेन निगीर्ण निगलितं यच्चन्द्रविम्बं शशिमण्डलं तस्यार्धवत् प्रविदधत् कुर्वन्, शत्रुः काष्ठाङ्गारः, जगर्ज गर्जति स्म ॥ १२१ ॥
कोपेनाथेति- -अथ स्वकीयखेटच्छेदानन्तरम्, कुरूद्वहो जीवकः, कोपेन क्रोधेन, प्रतिदिशं