________________
दशमो लम्भः
त्रपां विना मे पुरतः प्रजल्पसे कृतन्न वीर्यं तव दृष्टपूर्वम्
त्वया समः कोऽपि न लक्ष्यते क्षितौ नूनं प्रभुद्रोहविधौ समर्थः ॥ ११४ ॥ विरम विरम शत्रो विश्रुतोऽसि त्वमेकस्त्रिजगति परिशुद्धः पातकिप्राग्रगण्यः । प्रसरति मम वाणः प्राणहारी पुरस्तात्त्वमपि कुरु समीके जीवरक्षाप्रयत्नम् ॥ ११५ ॥ इति वदतः कुरुवीरस्य विस्फारघोषेणाशनिगर्जनशङ्कावदान्येन दृढार्तिसंघटितं कम्पमानजीवं चापभुजगमाकृष्य विषज्वालायमानान्भल्लान्काष्ठाङ्गारः कौरवं प्रति दुर्धर्पासर्पेण ववर्ष | विच्छिद्य विच्छिद्य शराननेकानरिपोः शरासादलितान्गभीरान् । अलक्ष्यसंधानविकर्षमोक्षान्वाणा सपत्ने स ववर्षं वीरः ॥ २४६ ॥
२०७
गृहीतपक्षाः पटवः पुङ्खाः कौरवचापतः । प्रसस्रुः संगरे शब्दा वादिनो वदनादिव ॥ ११७ ॥ विपाठवर्षेण कुरूद्वहस्य नभःस्थली द्राक्पिहिताच्जवन्धुः । तिरोहितारिक्षितिपालसेना बभूव धात्री युगपद्रणाये ॥ विपाठपञ्जरेणासौ विद्विपत्पक्षिणां कुलम् । वबन्ध स्पन्दनायोग्यं मन्देतरपराक्रमः ॥ ११६ ॥
११८ ॥
पामिति - कृतं हन्तीति कृतघ्नस्तत्सम्बुद्धी हे कृतघ्न, त्रपां विना लज्जामन्तरेण, मे मम, पुरतो sग्रे, प्रजल्पसे निरर्थकं वचो पे | तव ते, वीर्यमवदानम्, पूर्वं दृष्टमितिदृष्टपूर्वम्, अवलोकितपूर्वम्, नूनं निश्चयेन, क्षितौ पृथिव्याम्, प्रभुद्रोहविधौ राजद्रोहकार्ये समर्थो दक्षः, त्वया भवता, समस्तुल्यः, न लक्ष्यते नो दृश्यते । उपजातिवृत्तम् ॥११४॥
विरम विरमेति — हे शत्रो हे अराते, विरम विरम विरतो भव विरतो भव, त्रिजगति त्रिलोक्याम्, त्वम्, एकोऽद्वितीयः, परिशुद्धः पातकैकपूर्णाः पातकिप्राग्रगण्यः पापिजनाप्रेमरः, विश्रुतोऽसि प्रसिद्धोऽसि, प्राणहारी जीवनघातकः, मम, बाणः शरः, पुरस्तात् अग्रे, प्रसरति प्रगच्छति, त्वमपि, समीके समरे, जीवरक्षाप्रयत्नं प्राणरक्षोपायम्, कुरु विधेहि । मालिनीवृत्तम् ॥११५॥
इति वदत इति -- इत्येवम्, वदतः कथयतः, कुरुवीरस्य जीवन्धरस्य, अशनिगर्जनशङ्कावदान्येन वज्रगर्जनसंदेहदाननिपुणेन, विस्फारघोषेण विशालमौर्वीरवेण सहितम्, दृढा चासावार्तिश्चेति दृढार्त्तिस्तया संघटितं सुदृढधनुष्कोटिसहितम् 'आत्तिः पीडा धनुष्कोट्यो:' इति मेदिनी, कम्पमानो जीवो यस्य तं वेपमानप्रत्यञ्चम्, चापभुजम्, चापभुजगं धनुः पन्नगम्, आकृष्य समुत्तान्य, विषज्वालायमानान् गरलानलतुल्यान् भल्लान् प्रासान्, काष्टाङ्गारः कृतघ्नः कौरवं प्रति जीवन्धरमुद्दिश्य, दुर्धर्षामर्षेण विकटकोपेन, ववर्ष वर्षति स्म ।
विच्छिद्य विच्छिद्येति--स वीरः पूर्वोक्तसुभटः, रिपोः शत्रोः, शरासात् कोदण्डात्, गलितान् निःसृतान्, गभीरान् सुदृढान्, अनेकान् बहून् शरान् बाणान् विच्छिद्य विच्छिद्य खण्डयित्वा खण्डयित्वा, सपत्ने रिपौ, अलच्या वेगाधिक्येन दृश्याः संधान विकर्षमोक्षाः धारणकर्षणमोक्षा येषां तथाभूतान् बाणान् शरान् ववर्ष वर्षति स्म ॥ ११६ ॥
गृहीतपक्षा इति—संगरे युद्धे पते वाग्युद्धे शास्त्रार्थे इति यावत्, वादिनः पूर्वपक्षस्थापिनो विदुषः, वदनान्मुखात्, शब्दा इव वाच इव, कौरवचापतः स्वामिशरासनात्, पुङ्खा बाणाः, प्रसस्रुर्निःसरन्ति स्म, उभयोः सादृश्यमाह – गृहीतपताः समर्थितस्वाभिप्रायाः पत्ते धृतपतत्राः, पटवश्वातुर्योपेताः पत्ते समर्था इति ॥११७॥
विपाठवर्षेण— कुरूद्वहस्य जीवकस्य, विपाठवर्षेण शरवर्षेण, नभःस्थली गगनभूमिः, द्राक् झटिति, पिहिताब्जबन्धुस्तिरोहितसूर्या, बभूव, रणाग्रे समराग्रे, धात्रो पृथिवी च युगपदेककालावच्छेदेन, तिरोहिता पिहितारिक्षितिपालसेना शत्रुभूपालपृतना यस्यां तथाभूता बभूव ॥११८॥
विपाठपञ्जरेणेति – मन्देतरो विशालः पराक्रमो यस्य सः, असौ जीवन्धरः, स्पन्दनायोग्यं