________________
२०४
जीवन्धरचम्पूकाव्ये प्रविष्टे, गरुडवेगमहीपालोऽपि समरावलोकनसंमुखबर्हिर्मुखकरवृष्टकल्पकतरुप्रसूनसुरभिलभुजदण्डघटितकोदण्डः, सहर्पपरस्परसल्लापकल्लोलकोरकितकुतुकेन समरकलाविलासविजयसंस्मरणजनितनिजस्वामिश्लाघापरेण सैनिकनिकरेण प्रतिक्षणमीक्ष्यमाणः, पल्लवक्षितिवल्लभगोविन्दमहीपाललोकपालप्रभृतिभिः संभाषमाणो, ग्रहोन्मुक्तेनेव चन्द्रेण मूर्टोन्मुक्तेन नपुलेन पुरस्कृतं स्वकटकभुवमाससाद ।
अपरेऽहनि वाहिनीपतीनां मणिमालामकुटाङ्गदाम्बरादीन् ।
रथसूततुरङ्गकङ्कटादीन्प्रतिपाद्याशु कृतनकः प्रतस्थे ।। १०३ ॥ एवं पारितोषिकप्रदानपरिवर्धितोत्साहेनाहमहमिकापरवशेन सर्वाभिसारेण बलेन स्थगितक्षितितलाभोगः, पर्वतनिकाशं विजयगिरिनामधेयं गन्धसिन्धुरमधिरूढो, भाविचक्रपातसूत्रन्यासरेखाशङ्कावदान्यरेखात्रयशोभितं गलमभितो लम्बमानेव चक्रपतनसंप्रतीक्षस्य स्कन्धगतस्य मृत्योः करवितीर्णेनेव पाशेन मुक्ताहारेण भासुरवक्षःस्थलः, कोटीरमणिगणप्रतिविम्बितमार्तण्डमण्डलतया 'कुरुवीरशरसमाच्छादिते गगने सोऽयं न मत्संनिधानमागन्तुमर्हति' इति करुणाकरेण पूर्वमेव गृहीतमस्तक इव बाभास्यमानः, कुटिलितभ्रुकुटीघटितवदनः काष्ठाङ्गारः स्वयमेव संग्रामाङ्गणमाजगाम ।
खण्डितं विदारितमङ्ग यस्य तेन, हताशेषेण भिन्नावशिष्टेन, सैन्येन पृतनया, सह, काष्टाङ्गारसेनाधिपे राज घसैन्यपतौ, कटकं शिविरम्, प्रविष्टेऽन्तर्गते, सति, गरुडवेगमहीपालोऽपि विद्याधरधरावल्लभोऽपि, समरावलोकने, युद्धदर्शने संमुखास्तत्परा ये बहिर्मुखा देवास्तेषां करेभ्यो हस्तेभ्यो वृष्टानि पातितानि यानि कल्पकतरुप्रसूनानि कल्पवृक्षपुष्पाणि तैः सुरभिलं सुगन्धियुक्तं यद्भुजदण्डं बाहुदण्डं तत्र घटितं धारितं कोदण्डं धनुयेन सः, सहर्षः सप्रमोदो यः परस्परसल्लापकल्लोलो मिथोवार्तालापसन्ततिस्तेन कोरकितं कुड्मलितं कुतुकं कौतुकं यस्य तेन, समरकलाविलासे युद्धकलाविलासे यो विजयस्तस्य संस्मरणेन निध्यानेन जनिता समुत्पादिता या निजरवा मिश्लाघा स्वभर्तृस्तुतिस्तस्यां परेण दक्षण, सैनिकनिकरण सुभटसमूहेन, प्रतिक्षणं प्रतिसमयम्, ईच्यमाणः समवलोक्यमानः, पल्लवक्षितिवल्लभश्च गोविन्दमहीपालश्च, लोकपालश्वेति पल्लवक्षि तिवल्लभगोविन्दमहीपाललोकपालास्ते प्रभृतिर्येषां तैः, सह, संभाषमाणो वार्तालापं कुर्वाणः, ग्रहोन्मुक्तेन राहत्यक्तेन, चन्देणेव शशिनेव, मूच्छोन्मुक्तेन मोहातीतेन, नपुलेन तन्नामकसुभटाधीशेन, पुरस्कृत सहितम्, यथा स्यात्तथा, स्वकटकभुवं निजशिविरभूमिम्, आससाद प्राप।
अपरेऽहनीति-अपरेऽहनि द्वितीये दिवसे, कृतघ्नकः काष्टाङ्गारः, वाहिनीपतीनां सेनापतीनाम्, मणिमालामकुटाङ्गादाम्बरादीन् रत्नस्रग्मौलिकेयूरवस्वादीन् , रथसूततुरङ्गकङ्कटादीन् स्यन्दनसारथिहयकवचप्रभृतीन्, प्रतिपाद्य वितीर्य, आशु झटिति, प्रतस्थे प्रस्थितो बभूव ॥१०३॥
एवं पारितोषिकेति-एवमनेन प्रकारेण, पारितोषिकस्य पुरस्कारस्य प्रदानेन वितरणेन परिवर्धितः समेधित उत्साहो यस्य तेन, अहमहमिकापरवशेन अहं पूर्वमहं पूर्वमित्यहमिका तस्याः परवशं तेन, सर्वाभिसारेण विश्वतोमुखेन, बलेन सैन्येन, स्थगितः समाच्छादितः क्षितितलाभोगः पृथ्वीतलविस्तारो येन सः, पर्वतनिकाशं गिरिसन्निमम्, विजयगिरिनामधेयमेतन्नामकम्, गन्धसिन्धुरं मत्तगजेन्द्रम्, अधिरूढोऽधिष्ठितः, भावी भविष्यन्यश्चक्रपातोऽरिनिक्षेपस्तस्य सूत्रन्यासस्य सूत्रपातस्य याः रेखा लेखास्तासां शङ्कायां संदेहे वदान्यं समुदारं यत् रेखात्रयं लेखात्रयं तेन शोभितं समलङ्कृतम्, गलं कण्ठम्, अभितः समन्तात् , लम्बमानेन स्रसमानेन, चक्रपतनस्यारिपातस्य संप्रतीक्षा यस्य तस्य, स्कन्धगतस्य भुजमूर्धस्थितस्य, मृत्यो र्यमस्य करवितीर्णेन पाणिप्रदत्तेन, पाशेनेव बन्धनेनेव, मुक्ताहारेण मौक्तिकस्रजा, भासुरं देदीप्यमानं वक्षःस्थलं भुजमध्यस्थलं यस्य सः, कोटीरमणिगणे मौलिमणिगणे प्रतिविम्बितं मार्तण्डमण्डलं सूर्यविम्बं यस्य तस्य मावस्तत्ता तया, कुरुवीरस्य जीवन्धरस्य शरैर्बाणैः समाच्छादितं स्थगितं तस्मिन् , गगने नभसि सति, सोऽयं काष्ठाङ्गारः, मत्सन्निधानं मन्निकटम्, आगन्तुमायातुम्, नार्हति न योग्योऽस्ति, इत्येवं करुणाकरेण दया- . धारेण, दिवाकरेण सूर्येण, पूर्वमेव प्रागेव, गृहीतमस्तक इवात्तशीर्ष इव, बाभास्यमानः शोशुभ्यमानः कुटिलित