________________
दशमो लम्भः
२०५
कुरूणां वीरोऽपि प्रचुरबलकोलाहलकलाविलासव्याप्ताशापतिसदनवातायनमुखः । क्रमाक्रामन्गन्धद्विपमशनिवेगाभिधमयं रणाग्रं संप्राप क्षितिविदितदोर्दण्डमहिमा ॥ १०४ ।। जडीकृतश्रवःपुटे दिवौकसां जयानकारवे सुराचलोल्लसदरीविसत्यनेकशः। सुपर्वकामिनीजनप्रहगीतकौशलं वभूव निष्फलं तदा प्रतिवनद्गुहारवैः ॥ १०५ ॥ रथक्षुण्णक्षोणीतलगलितपासून्मुखगतान्दिशानागाः शुण्डोद्गतजलकणैः शान्तिमनयन् । रहः स्त्रीणां रूण्याचलकुहरतल्पेषु खचराः विवस्त्रागामङ्गध्वतिबहललग्नान्वसनतः ।। १०६ ।। अदृष्टचरमाहवं सुरगणैरथोज्जम्भितं क्षणेन मदमेदुरं प्रचुरवीरवादोत्कटम् । चलाचलकृपाणिकाप्रतिफलद्विवस्वत्प्रभादुरीक्षमतुलं तदा जयरमानुलारोहणम् ॥ १०७ ।। वीर्यश्रीप्रथमावतारसरणौ तस्मिन्कुरूणां पतौ
वाणा-मुञ्चति हस्तनर्तितधनुर्वल्लीसमारोपितान् । दीर्णक्षत्रभटच्छटाभिरभितः संभिद्यमानान्तरं
भास्वद्विम्बमहो वभार गगनश्रेणीमधुच्छत्रताम् ।। १०८ ।।
भृकुटीभ्यां वक्रीकृतभ्रभ्यां वटितं युक्तं वदनं मुखं यस्य तथाभूतः, काष्टाङ्गारः कृतघ्नशिरोमणिः, स्वयमेव स्वत एव, संग्रामाङ्गणं समराजिरम्, आजगाम समाययौ।।
कुरूणामिति–प्रचुरेण प्रभूतेन बलस्य सैन्यस्य कोलाहलकलाविलासेन कलकलध्वनिसञ्चारेण व्याप्लानि सम्भरितानि आशापतिसदनानां दिक्पालभवनानां वातायनमुखानि गवाक्षविवराणि येन सः, क्षितौ पृथिव्यां विदितः प्रसिद्धो दोर्दण्डमहिमा बाहुदण्डप्रभावो यस्य तथाभूतः, अयमेषः, कुरूणां वीरोऽपि जीवन्धरोऽपि, क्रमात् क्रमशः, अशनिवेगोऽभिधा यस्य तम् अशनिवेगनामानम्, गन्धद्विपं मत्तहस्तिनम्, क्रामन् अधितिष्ठन् , रणाग्रं समराग्रम्, संग्राप ययौ । शिखरिणीच्छन्दः ॥१०४॥
जडीकृतश्रवःपुट इति-तदा तस्मिन् काले, जडीकृतश्रवःपुटे सम्भरितकर्णविवरे, दिवौकसां देवानाम्, जयानकारवे जयदुन्दुभिनादे, अनेकशो नैकवारान् , सुराचलस्य सुमेरोरुल्लसन्न्यः शोभमाना या दर्यो गुहास्तासु, विशति कृतप्रवेशे सति, प्रतिध्वनगुहारवैः प्रतिनदद्दरीशब्दैः, सुपर्वकामिनीजनानां देवाङ्गनानां प्रहर्षगीतस्यानन्दगायनस्य कौशलं चातुर्यम् निष्फलं निरर्थम्, बभूव, पञ्चचामरच्छन्दः ॥१०५॥
रथक्षुण्णक्षोणीति-दिशानागा दिग्गजाः; मुखगतान् संमुखायातान्, रथैः स्यन्दनः क्षुण्णं चूर्णीकृतं यत्तोणीतलं भूमितलं तस्माद् गलिता निष्पतिता या पांसवो धूलग्रस्तान्, शुण्डोगतजलकर्णः करोत्पतितसलिलशीकरैः, शान्ति शमनम्, अनयन् प्रापयन् । खचरा विद्याधराः, रहो विजने, रूप्याचलकुहरतल्पेषु विजयाधंगुहाशयनेषु, विवस्त्राणां वस्त्ररहितानाम्, स्त्रीणां वनितानाम्, अङ्गषु देहेषु, अतिवहललग्नान् अतिनिपक्तान् उक्तविधपांसून, वसनतो वस्त्रात् , शान्ति शमनम्, अनयन् , प्रापयन् । वस्त्रखण्डेवनितादेहस्थपासून दूरीचक्रुरिति भावः । शिखरिणीच्छन्दः ॥१०६॥
अष्टचरमाहवमिति-अथानन्तरम्, तदा तस्मिन् काले, सुरगणेदेवसमू हैः, अदृष्टचरमनव लोकितपूर्वम्, क्षणेनाल्पेनैव कालेन, मदमेदुरं गर्वयुक्तम्, प्रचुरवीरवादैः प्रभूतसुभटगर्जनरुत्कटं सुयुक्तम्, चलाचलकृपाणिकासु चञ्चलखङ्गेषु प्रतिफलन् प्रतिविम्बितीभवन् यो विवस्वान् सूर्यस्तस्य प्रभया दीपया दुरीक्ष दुरवलोक्यम्, अतुलमनुपमम्, जयारमातुलारोहणं विजयलक्ष्मीतुलारोहणम्, आहवं युद्धम्, उजम्भितं वर्धितम् । पृथ्वीच्छन्दः ॥१०७॥
वीर्यश्रीप्रथमावतारसरणाविति-वीर्यश्रिया वीरलक्ष्म्याः प्रथमावतारस्य पूर्वावतरणस्य सरणिर्गिस्तस्मिन् , तस्मिन् पूर्वोक्ते, कुरूणां पतौ जीवन्धरे, हस्तयोः करयोर्नर्तिता कम्पिता या धनुर्वल्ली कोदण्डलता तस्यां समारोपिताः संध्तास्तान्, बाणान् शरान्, मुञ्चति त्यजति सति, अभितः परितः, दीर्णाः खण्डिता ये क्षत्रभटाः क्षत्रियशूरास्तेषां छटाः पङ्क्तयस्ताभिः, संभिद्यमानान्तरं खण्डितमध्यम्, भास्वद्विम्बं