________________
दशमो लम्भः
२०३
केचिद्धावनलालसा वसुमतीपालाश्च दिमोहतो
भ्राम्यन्तो रणसीम्नि शिक्षितहयाभ्यासप्रकर्ष दधुः ॥६६।। रे रे कुत्र पलायितोऽसि समरे मा कम्पनं प्रानु या
स्तिष्ठाने हत कोङ्कणेश शमनस्त्वामीहते भक्षितुम् । शीर्प ते विनिपात्य कर्णविगलद्रक्तप्रवाहैः परां
तृप्तिं कल्पयति क्षणाक्षितिपतिर्भूतावलीनामिह ॥ १०० ।। एवं जगर्जुः खचरसैनिकाः सिंहविक्रमाः । सपत्नकण्ठकदलीकाण्डताण्डवितासयः ॥ १०१ ।।
तदानीं पुष्पितकिंशुककाननमिव पल्लविताशोकवनमिव पारिभद्रद्रमविपिनमिव च परितः क्षतं निजवलमवलोक्य कृताभिषेणनं कोङ्कणमहीपतिं कर्णपूरसौरभ्यसमाकृष्टभृङ्गावलिशङ्कावहशिञ्जिनीविगलद्विशिखधाराभिर्गगनतलं पूरयन्तमेनममन्दवेगो गरुडवेगः क्षणेन वक्षसि शक्त्या विव्याध ।
भेत्स्यन्ति मे मण्डलमद्य वीरा विद्याधरेन्द्रण विदीर्णदेहाः ।
इतीव वेगेन पयोजवन्धुरस्ताचलोदादरी विवेश ।। १०२ ॥ तदनु गरुडवेगविक्षिप्तगण्डशैलखण्डिताङ्गेन हतशेपेण सैन्येन काष्ठाङ्गारसेनाधिपे कटकं
रुधिराणि रक्तानि, ववमुर्वमन्ति स्म, केचन केऽपि, प्राणान् जीवितानि, तत्यजुर्मुमुचुः, केचन केऽपि, भयभरात् त्रासाधिक्यात्, क्षितौ पृथिव्याम्, पेतुः पतन्ति स्म, धावनलालसाः पलायनोत्सुका, केचित् केऽपि, वसुमतीपालाश्च राजानश्च, दिङ्मोहतो दिशाभ्रान्त्या, रणसीम्नि समराभोगे, भ्राम्यन्तः पर्यटन्तः सन्तः, शिक्षितहयाभ्यासप्रकर्ष शिक्षिताश्वाभ्यासाधिक्यम्, दधुर्धरन्ति स्म ॥६६॥
रे रे कुत्रेति-रे रे हत कोङ्कणेश, नीच कोकणधराधीश्वर ! कुत्र पलायितोऽसि क्व प्रधावितोऽसि, समरे युद्ध, कम्पनं वेपथुम्, मा प्राप्नुयाः मा लभेथाः, अग्रे पुरस्तात्, तिष्ठ निवृत्तगतिर्भव, शमनो यमः, त्वां भवन्तम्, भक्षितुमत्तम्, ईहते चेटते, नितिपती राजा, इह समरे, ते तव, शीर्ष शिरः, विनिपात्य छित्त्वा, कर्णाभ्यां कण्ठप्रदेशाभ्यां विगलन्तो निःसरन्तो ये रक्तप्रवाहा रुधिरखोतांसि तैः भूतावानां पिशाचपङ्क्तीनाम्, तृप्तिं संतोषम्, क्षणादल्पेनैव कालेन, कल्पयति विदधाति ॥ शार्दूलविक्रीडितच्छन्दः ॥३०॥
एवं जग रिति-एवं पूर्वोक्तप्रकारेण, सिंहस्येव विक्रमो येषां ते सिंहविक्रमा मृगेन्द्रपराक्रमाः, सपत्नानां शत्रूणां कण्ठकदलीनां ग्रीवामोचातरूणाम् काण्डेषु प्रतीकेषु ताण्डविनो नृत्यं कुर्वाणोऽसिय॒पां ते, खचरसैनिका विद्यावरसेनामनुजाः, जगजुर्गन्ति स्म ॥१०१॥ ।
तदानीमिति तदानीं तस्मिन् काले, पुष्पितं कुसुमितं यत्किंशुककाननं पलाशवनं तद्वत् पल्लवितं किसलयितं यदशोकवनं कङ्केलिकाननं तद्वद्, पारिभद्रुमविपिनमिव च मन्दारमहारुहवनमिव च 'पारिभद्रस्तु मन्दारे निम्बद्रौ देवदारुणि' इति मेदिनी, परितः समन्तात् , क्षतं खण्डितम्, निजबलं स्वसैन्यम्. अवलोक्य दृष्ट्वा, कृताभिषेणनं विहिताक्रमणम्, कर्णपूरयोः कर्णाभरणपुप्पयोः सौरभ्येण सौगन्ध्येन समाकृष्टा स्वसात्कृता या भृङ्गावलिभ्रमरपङ्क्तिस्तस्याः शङ्कावहा संशयधारिका या शिञ्जिनी मौर्वी तस्या विगलन्त्यः पतन्यो या विशिखधारा बाणसन्ततयस्ताभिः, गगनतलं नभस्तलम् पूरयन्त सम्भरन्तम्, एनं कोङ्कणमहीपतिं पूर्वोक्तं कोङ्कणराजम्, अमन्दवेगः प्रकृष्टरयः, गरुडवेगो गन्धर्वदत्ताजनकः, क्षणेन, वक्षसि बाहुमध्ये, शक्त्या शक्तिनामकशस्त्रविशेषेण, विव्याध विध्यति स्म ।
भेत्स्यन्तीति-अद्येदानीम्, विद्याधरेन्द्रेण गरुडवेगेन, विदीर्णः खण्डितो देहो विग्रहो येषा ते, वीरा योद्धारः, मे मम, मण्डलं विम्बम्, भेत्स्यन्ति विदारयिष्यन्ति, रणे निहिताः शूरा सूर्यमण्डलं भित्त्वा स्वर्ग यान्तीति प्रसिद्धः, इतीव हेतोः, पयोजबन्धुः सूर्यः, वेगेन रयेण, अस्ताचलस्यापरशैलस्योदग्रदरी समुन्नतगुहाम्, विवेश प्रविष्टवान् । उत्प्रेक्षा ॥१०२॥
तदन्विति-तदनु सूर्यास्तानन्तरम्, गरुडवेगेन विद्याधरेन्द्रेण विक्षिप्तैर्विप्रकीर्णैर्गण्डशैलैः स्थूलोपलैः