SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २०२ जीवन्धरचम्पूकाव्ये नपुले विपुले च चापवल्ली भृशमाकृष्य किरत्यतीव रोपान् । खगमण्डलमेदुरं बतानं पिहितोद्यत्खगमण्डलं बभूव ।। ६५ ॥ तावत्कोङ्कणभूपतिततरं धावद्रथेनागतः ___क्रोधान्धो नपुले ववर्प विशिखासारं महागर्जनः । यद्वद् दुर्धरवज्रपातमधिकं संवर्तकालोद्यतो जीमूतो वसुधाधरस्य शिखरे निःसीमघोरारवः ।। ६६॥ दिशं प्रतीचीमिव पद्मवन्धुं मूर्छा गतं मन्दतरप्रतापम् । अपासरत्संगरभूमिभागविहायसो वीरमिमं नियन्ता ॥ १७ ॥ तदिदमाकर्ण्य शोककातरं निजजामातरं कोपारुणवदनं कुरुपञ्चवदनं समीक्ष्य विद्याधरक्षोणीपतिर्गरुडवेगः प्रथितनिजबलकोलाहलव्यालोललोकः स्तोकेतरपराक्रमः क्रमेण संग्रामसीमामवजगाहे। संग्रामोपरि जम्भितः खगपतिः कोपात्करालाननः शक्तीस्तोमरशूलजालपरिघान्कुन्तानसीन्पर्वतान् । वर्षभीममदाट्टहासरभसक्षुभ्यदिशामण्डल श्चिक्रीडाम्बरसीनि संगरकलातुङ्गीभवद्दोर्मदः ॥ ८ ॥ दृष्टुमं रुधिराणि तत्र ववमुः केचिद्भटाः शत्रुषु प्राणा केचन तत्यजुर्भयभरात्पेतुः क्षितौ केचन । नपुले विपुले चेति-नपुले विपुले च एतन्नामके सुभटद्वये, चापवल्ली धनुर्लताम्, भृशमत्यर्थम् आकृप्य, अतीवात्यन्तम्, रोपान् बाणान् , किरति वर्षति सति, खगमण्डलैः बाणसमू हैः, पक्षिसमूहैर्मेदुरं व्याप्तम्, अभ्रं गगनम्, बत खेदे, पिहितमाच्छादितमुद्यत्खगमण्डलमुदीयमानसूर्यविम्बं यस्मिंस्तथाभूतम्, बभूव । 'खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे' इति मेदिनी ॥६५॥ तावत्कोकणभूपतिरिति-तावत् तावत्कालपर्यन्तम् द्रुततरं शीघ्रतरम्, धावद्रथेन प्रगच्छत्स्यन्दनेन आगतः समायातः, क्रोधान्धः कोपान्धः, महागर्जनो विपुलध्वनिः, कोङ्कणभूपतिः कोङ्कणनृपतिः, नपुले एतन्नामधेयप्रत्यर्थिसुभटे, विशिखासारं बाणसमूहम्, तद्वत् ववर्ष वर्षति स्म, यद्वत् , येन प्रकारेण, संवर्तकालोद्यतः प्रलयकालोद्गतः, निःसीमघोरारवो निर्मर्यादभयङ्करस्तनितः, जीमूतो बलाहकः, वसुधाधरस्य शैलस्य, शिखरे कूटे, अधिकं विपुलम्, दुर्धरवज्रपातं प्रचण्ड पविपातम्, वर्षति । शार्दूलविक्रीडितवृत्तम् ॥६६॥ दिशं प्रतीचीमिवेति-प्रतीची दिशं पश्चिमाशाम्, गतं प्राप्तम्, पद्मबन्धुमिव सूर्यमिव, मन्दतरोऽतिशयेन क्षीणः प्रतापस्तेजो यस्य तम्, इमं वीरं सुभटं नपुलमिति यावत्, नियन्ता सारथिः, संगरभूमिभाग एव युद्धवसुधाभोग एव विहायो गगनं तस्मात् ; अपासरत् अपनिनाय ॥१७॥ तदिदमाकर्ण्यति-तदिदम् पूर्वोक्तम्, आकर्ण्य श्रुत्वा, शोककातरं विषाददीनम्, निजजामातरं स्वदुहितृपतिम्, कोपेन क्रोधेनारुणं रक्तं वदनं मुखं यस्य तथाभूतम्, कुरुपञ्चवदनं कुरुसिंहम्, समीच्य समवलोक्य, विद्याधरक्षोणीपतिः खेचरेन्द्रः, प्रथितेन प्रसिद्धन निजबलकोलाहलेन स्वसैन्यकलकलेन व्यालोलाअपलिता लोका जना येन तथाभूतः, स्तोकेतरो विपुलः पराक्रमो यस्य तथाभूतः, गरुडवेगो विद्याधरपतिः, संग्रामसीमां युद्धक्षेत्रम्, अवजगाहे प्रविवेश । संग्रामोपरीति-संग्रामोपरि समराने, जृम्भितः समापतितः, कोपात् क्रोधात् , करालाननो भयङ्करमुखः, शक्तीः, तोमरशूलजालपरिघान्, कुन्तान्, पर्वतान् पादपान् शैलान्वा, वर्षन्, भीमगदादृहासरभसेन भयावहगर्वप्रहासवेगेन क्षुभ्यद् दिशामण्डलं येन सः, संगरकलया युद्धचातुर्या तुङ्गीभवन् दोर्मदो भुजदो यस्य तथाभूतः, खगपतिर्गरुडवेगः, अम्बरसीम्नि गगनसीमायाम, चिक्रीड क्रीडति स्म ॥१८॥ दृष्ट्वेममिति-तत्र समरे, इमं गरुडवेगम, दृष्ट्वा, शत्रुषु वैरिषु मध्ये, केचिद्भटाः केचन शूराः,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy