________________
दशमो लम्भः
वीरस्य तस्य निशितैर्घनकङ्कपत्रैः सम्पूरिते नभसि युद्धमपश्यमानाः । जोपं निषेदुरमरा युधि वीतदेहा वीराश्च सूर्यमनिरीक्ष्य चिरं ववल्गुः ॥ ६२ ॥ तस्य मार्गणविभिन्नशरीरैरुत्पलायितमरित्रजवीरैः । शोणितप्रमृतवाहिनीगतैरुत्पलायितमिभाव लिखण्डैः ॥ ६३ ॥ अनाथया तेन निपीड्य मुक्ता विलक्षतां प्रापुररिप्रवीराः । न पत्रिणस्तत्र महाहवाग्रे सुरासुराणामपि दुर्निरीक्ष्ये ॥ ६४ ॥
२०१
तदानीं मन्थानाचलमित्र रिपुवलजलधिं क्षोभयन्तमतिविस्मयनीयकरलाघवं रणरङ्गे निर्निरोधशताङ्गप्रचारं निस्तुलसेना संपदमप्यद्वितीयम्, निरस्तदोषमपि महादोपम्, अमितराजतुरगादिसहायमपि चापैकसहायम्, रथगतमपि धनुपि निषण्णम्, समुत्सारितविद्विडिन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, नन्दाच्यं एकमपि द्विधा त्रिधा चतुर्धा च वीक्ष्य बहवो मेदिनीपतयस्तत्क्षणमभ्यसूययेव स्वयं पञ्चत्वमाजग्मुः ।
वीरस्येति — वीरयत इति वीरस्तस्य शूरस्य, तस्य नन्दाद्व्यस्य, निशितैस्तीच्णैः, घनकङ्कपत्रैर्निविडबाणविशेषैः, नभसि गगने, सम्पूरिते सम्भृते सति, युद्धं समरम् अपश्यमाना अनवलोकयन्तः, अपश्यमाना इत्यत्र परस्मैपदाच्छानच्प्रयोगश्चिन्त्यः, अमरा निलिम्पाः, जोपं तूष्णीं यथा स्यात्तथा निषेदुस्तस्थुः, युधि समरे, वीतो विनष्टो देहो येषां ते वीराश्च सुभटाश्च, सूर्य दिवाकरम्, अनिरीच्यानवलोक्य, चिरं दीर्घकालपर्यन्तम्, ववल्गुः सञ्चलन्ति स्म ||३२||
तस्य मार्गणैरिति-- तस्य नन्दायस्य मार्गणैर्बाणैर्विभिन्नं खण्डितं शरीरं येषां तैः, अरिव्रजवीरैः शत्रुसमूहसुभटैः, उत्पलायितमुपरिधावितम्, शोणितस्य रुधिरस्य प्रसृता या वाहिनी नदी तस्यां गतैः प्राप्तैः, इभावलिखण्डैः शुण्डालसमूहशकलैः, उत्पलमिव कुवलयमिवाचरितमित्युत्पलायितम् || स्वागता रथोद्धतासम्मिश्रणादुपजातिवृत्तम् ।
अनास्थयेति-तेन नन्दाढ्येन, निपीड्य संमर्द्य, अनास्थया उपेक्षया, मुक्तास्त्यक्ताः, अरिप्रवीराः शत्रुसुभटाः, विलक्षतां व्रीडितत्वम्, प्रापुलैभिरे, सुरासुराणामपि देवदानवानामपि दुर्निरीध्ये दुरवलोक्ये, तत्र तस्मिन्, महाहवाग्रे महायुद्धाग्रे, पत्रिणो बाणाः, विलक्षतां लक्ष्यभ्रष्टताम्, न प्रापुः ॥१४॥
तदानीमिति—तदानीं तस्मिन् काले, मन्थानाचलमिव मन्दरगिरिमिव, रिपुबलजलधिं शत्रुसैन्यसमुद्रम्, क्षोभयन्तं क्षुभितं कुर्वन्तम्, अतिविस्मयनीयमत्याश्चर्यकरं करलाघवं हस्तत्क्षिप्रकारित्वं यस्य तम्, रणरङ्गे समराजिरे निर्निरोधो निर्बाधः शताङ्गप्रचारो रथसञ्चारो यस्य तम्, निस्तुला निरुपमा सेना संपत् पृतनासम्पत्तिर्यस्य तथाभूतमपि, अद्वितीयं द्वितीयरहितम्, यस्य पार्श्वे निरुपमा पृतना स्यात्स कथमद्वितीयो भवेदिति विरोधः, अद्वितीयः सादृश्यरहित इति परिहारः, निरस्ता दूरीकृता दोषा अत्रगुणा येन तथाभूतमपि महादोषं महावगुणसहितम्, यो निरस्तदोषः स महादोषयुतः कथं भवेदिति विरोधः, परिहारस्तु महादोषं महाबाहुम्, 'दोदोंपौ च भुजो बाहु:' इत्यमरः, अमिता अपरिमिता गजतुरगादयो हस्त्यश्वप्रभृतय सहाया यस्य तथाभूतमपि चापैकसहायं कोदण्डेकसहायमिति विरोधः कोदण्डप्रत्ययसहित इति परिहारः, रथगतमपि स्यन्दनस्थितमपि धनुषि चापे निषण्णं स्थितमिति विरोधः, धनुः प्रत्ययसहितमिति परिहारः, समुत्सारितं दूरीकृतं विद्विडिन्धनं शत्रुसमित् येन तथाभूतमपि ज्वलन् देदीप्यमानः प्रतापानलः प्रतापपावको यस्य तमिति विरोधः, भास्वरप्रभावपावकमिति परिहारः, आयतलोचनमपि दीर्घचक्षुषमपि, सूक्ष्मदर्शनं सूक्ष्मलोचनमिति विरोधः, सूक्ष्मपदार्थदर्शक मिति परिहारः, एकमपि एकसंख्याविशिष्टमपि पक्षेऽप्रतिमपि द्विधा त्रिधा चतुर्धा च द्विप्रकारेण, त्रिप्रकारेण चतुःप्रकारेण च, वीच्य दृष्ट्वा, बहवो विपुलाः, मेदिनीपतयो राजानः, तत्क्षणं तत्कालम्, अभ्यसूययेव मत्सरेणेव स्वयं स्वतः, पञ्चत्वं पञ्चसंख्याकत्वम् पक्षे मृत्युम्, आजग्मुः प्राप्तवन्तः ।
२६