________________
२००
जीवन्धरचम्पूकाव्ये
प्रदीप्रशरसङ्कटं प्रचुरदीप्यद्भट निलिम्पजनलालितं निखिलशस्त्रलीलायितम् । प्रदर्शकनिदर्शनं प्रथितयुद्धविद्याविदां वितेनतुरिमौ तदा विविधसंगरं भीकरम् ॥८६॥
गोविन्दराजस्य शरेण लूनं शीर्ष रणे तस्य धराधिपस्य ।
राहुभ्रमं तीव्रकरस्य कुर्वस्तत्कीर्तिनुत्यै दिवि केतुरासीत् ।। ६०॥ एवं निजपृतनायां महतां राज्ञां निधनं निशम्य विशालतरामर्षः काष्ठाङ्गारः, सर्वाभिसारेण निजबलं पुरोधाय, तेजोविभवविजितविकर्तनप्रतापान्भूपानहितजनमृत्युसरूपान्कौरवजनसंक्षोभाय प्रपयामास ।
कारं कारं बलोत्साहं तेषां क्षोणीशिनां रुषा।
पुरो बभूव नन्दाढयः करिणामिव केसरी ।। ६१ ।। ततश्च यदुचित्तं सकलवीरश्नाधानाम् , यद्युक्तं जीवन्धरानुजस्य, यदुदाहरणं पाण्डवयुद्धानाम् , यत्समुचितं नीतिमार्गाणाम् , यदासेचनकं लेखलोचनानाम् , यदानन्दनं निजसैनिकानाम् , यन्निदानं कुन्दनिर्मलकीर्तिकल्लोलानाम् , यद्रङ्गस्थलं जयलक्ष्मीताण्डवस्य, यदधिकरणं कल्पद्रमानल्पपुष्पवृष्टीनाम , यदगोचरपदं कविवचनविलासानाम, तादृशमायोधनं नन्दाढयः कन्दलयामास ।
प्रदीप्रशरसङ्कटमिति तदा तस्मिन् काले, इमौ महाराष्ट्रविदेहेशौ, प्रदीप्रै स्वरैः शरैर्बाणैः सङ्कट व्याप्तम्, प्रचुरं प्रभूतं यथा स्यात्तथा दोर्णाः खण्डिता दृप्यद्भटा मत्तशूरा यस्मिस्तम्, निलिम्पजनरमरसमू हैालितं प्रशंसितम्, निखिलशस्त्रलीलायितं सर्वायुधकेलितुल्यम्, प्रदर्शकाणां दर्शकजनाना निदर्शनमुदाहरणम्, युद्धविधा विदन्तीति युद्धविद्याविदः प्रथिताश्च ते प्रसिद्धाश्च ते प्रथितयुद्धविद्याविदश्च प्रसिद्धसमरविद्याज्ञातारश्चेति प्रथितयुद्धविद्याविदस्तेषांम्, भीकरं भयङ्करम्, विविधसंगरं नानाविधसमरम्, वितेनतुविस्तारयामासतुः । पृथ्वीच्छन्दः ॥८॥
___ गोविन्दराजस्येति--रणे युद्धे, गोविन्दराजस्य जीवकमातुलस्य, शरेण बाणेन, लूनं छिन्नम्, तस्य धराधिपस्य राज्ञः, शीर्ष मस्तकम्, तीव्रकरस्य सूर्यस्य, राहुभ्रमं विधुन्तुदशङ्काम, कुर्वन् विदधत् , तत्कीर्तिनुत्यै तदीययशःस्तुत्यै, दिवि गगने, केतुर्वैजयन्ती, आसीद् बभूव ॥१०॥
___ एवं निजपृतनायामिति-एवमनेन प्रकारेण, निजपृतनायां स्वसेनायाम, महतां श्रेष्टानाम्, राज्ञां नृपाणाम्,, निधनं मृत्युम्, निशम्य श्रुत्वा, विशालतरः प्रभूततमोऽमर्षः क्रोधो यस्य तथाभूतः, काष्ठाङ्गारः, सर्वाभिसारेण सर्वप्रयत्नेन, निजबलं स्वसैन्यम्, पुरोधायाने कृत्वा, कौरवजनानां जीवकपक्षीयाणां संक्षोभस्तस्मै, तेजोविभवेन प्रतापसम्पत्त्या विजितः पराभूतो विकर्तनप्रतापस्तपनतेजो यैस्तान् , अहितजनमृत्युसरूपान् शत्रुजनकालप्रतिमान् , भूपान् राज्ञः प्रेषयामास प्रजिघाय ।।
___ कारं कारमिति-बलोत्साहं सैन्योत्साहम्, कारं कारं कृत्वा कृत्वा, नन्दाढ्यो जीवकानुजः, करिणां गजानाम्, केसरीव सिंह इव, रुषा क्रोधेन, तेषां क्षोणीशिनां पृथ्वीपालानां, पुरोऽग्रे, बभूव ॥६॥
ततश्च यदुचितमिति–ततश्च तदनन्तरञ्च, यद् आयोधनं सकलवीरश्लाघानां निखिलसुभटप्रशंसानाम्, उचितं योग्यम्, यद्, जीवन्धरानुजस्य जीवककनिष्टस्य, युक्तमहम्, यत् , पाण्डवयुद्धानां पाण्डुपुत्रसमराणाम्, उदाहरणं निदर्शनम्, यत् , नीतिमार्गाणां सुनयवर्मनाम्, समुचितं योग्यम्, यत् , लेखलोचनानां निर्जरनयनानाम्, आसेचनकमतृप्तिकरम्, यत् , निजसैनिकानां स्वकीयसुभटानाम्, आनन्दनं प्रमोदकारणम्, यत्, कुन्दनिर्मलकीर्तिकल्लोलानां माध्यतुल्यविमलयशःपरम्पराणाम्, निदानमादिकारणम्, यत् , जयलक्ष्मीताण्डवस्य विजयश्रीनर्टनस्य, रङ्गस्थलं रङ्गभूमिः, यत् , कल्पद्रुमानल्पपुष्पवृष्टीनां कल्पानोकहविपुलकुसुमवर्षाणाम्, अधिकरणमाधारस्थानम्, यत्, कविवचनविलासानां कविवाग्वैभवानाम्, अगोचरपदम् अस्थानम्, तादृशं तथाभूतम्, आयोधनं युद्धम्, नन्दाब्यः, कन्दलयामास वर्धयामास ।