________________
दशमो लम्भः
१६६
इति लपितमवेत्य पद्मवक्त्रः स्फुटतरमाह गिरं गभीरनादः ।
अयि मथन ममास्ति चन्द्रहासः परिहतशत्रुसतीमुखेन्दुहासः॥८६॥ इति कृपाणमुत्पाटय करे विचलयन , शताङ्गोत्सङ्गादुत्प्लुल्यामन्दतरलायवाक्रान्तशात्रवानीकः पञ्चाननप्रत्यनीकपराक्रमः पद्माननः, कदनदुर्मदविलासितस्य मथनस्य शिरसि समुत्खातकरवालं निचखान ।
मथने भुवि पतिते रणाग्रे जलजास्ये निपपात पुष्पवृष्टिः। ___ रिपुसैनिकनेत्रतोऽम्बुवृष्टिः कुपिताद्राजगणाच वाणवृष्टिः ॥ ७ ॥ तदानों कौरवबलकोलाहलमाकर्ण्य प्रवृद्धकोपौ कुटिलीकृतचापौ तपननिकाशप्रतापौ लाटकाम्पिल्यकभूपौ बुद्धिषेणपल्लवराजयोरभिमुखं तस्थिवांसौ दिशावकाशनिविडितसायकं हर्पितनिजनायकं वैमानिकजनसीमातीताद्भुतहर्षदायकं भयानकं समीकमाकलय्य कल्पान्तदहनसकाशे तयोः शरनिकरहुताशे पतङ्गौ वभूवतुः।
महाराष्ट्रविदेहेशोः समरं समजम्भत । दारुणं शरसंभिन्नवारणं जयकारणम् ।। ८८ ॥
कुत्र पलायसे, ननु निश्चयेन, रे शत्रो, एवमनेन प्रकारेण, एषोऽहम्, भवतोऽपि तवापि, जीवं प्राणम्, हरिष्यति अपनेष्यति ॥ ५ ॥
इति लपितमिति-इति पूर्वोक्तम्, लपितं कथितम्, अवेत्य ज्ञावा, गभीरनाद उच्चतरशब्दः, पद्मवक्त्रः पद्मास्यः, स्फुटतरमतिस्पष्टं यथा स्यात्तथा, गिरं वाचम्, आह जगाद, अयि मथन भो राजघश्याल, मम पद्मास्यस्य, परिहृतो दूरीकृतः शत्रुसानां शत्रुशीलवतीनां मुखेन्दुहासो वदनचन्द्रहासो येन तथाविधः, चन्द्रहासः खड्गः, अस्ति विद्यते, मम हस्ते चन्द्रहासे विद्यमाने कोदण्डमौर्वीच्छेदो हानिप्रदो नास्तीति भावः ॥८६॥
इति कृपाणमिति-इति पूर्वोक्तप्रकारेण, कृपाणं खड्गम्, उत्पाट्य कोशानिःसार्य, करे हस्ते विचलयन् कम्पयन् , शताङ्गस्य रथस्योत्सङ्गस्तस्मात् , उत्प्लुत्य समुत्पत्य, अमन्दतरलाघवेन प्रभूतक्षिप्रत्वेनाक्रान्तं पराभूतं शात्रवानीकं शत्रुसैन्यं येन तथाभूतः, पञ्चाननप्रत्यनीकः सिंहसदृशः पराक्रमो वीर्य यस्य सः, पद्माननः पद्मास्यः, कदनदुर्मदेन युद्धदुर्गर्वेण विलासितः शोभितस्तस्य, मथनस्य काष्टाङ्गारश्यालस्य, शिरसि मूर्ति, समुन्खातकरवालं समुत्पाटितकृपाणम्, निचल्वान निहितवान् ।
___ मथने भुवीति-मथने, भुवि रणवसुधायाम्, पातिते सति, रणाग्रे समरशिरसि, जलजास्ये पद्मास्ये, पुष्पवृष्टिः सुमनोवर्षणम्, पपात पतति स्म । रिपुसैनिकनेत्रतः शत्रुसुभटनयनात् , अम्बुवृष्टिर्जलवृष्टिः, निपपात, कुपितात् क्रोधयुक्तात् , राजगणाच्च नृपतिनिचयाच्च बाणवृष्टिः शरवर्षम्, पपात ॥ ८ ॥
तदानीमिति-तदानीं मथनमरणकाले, कौरवबलस्य जीवन्धरसैन्यस्य कोलाहलं कलकलशब्दम्, आकर्ण्य श्रुत्वा, प्रवृद्धो वृद्धिङ्गतः कोपः क्रोधो ययोस्तो, कुटिलीकृतो वक्रीकृतश्चापो धनुर्ययोस्तौ, तपननिकाशः सूर्यसदृशः प्रतापस्तेजो ययोस्तो, लाटकाम्पिल्यकयोर्देशविशेषयोभूपौ राजानौ, बुद्धिषेणपल्लवराजयोः सुभटविशेषयोः, अभिमुखं पुरस्तात् , तस्थिवांसौ तिष्ठन्ती, दिशावकाशेषु काष्ठामध्येषु निबिडिनाः सान्द्रीकृताः सायका बाणा यस्मिस्तत्, हर्षिताः प्रमुदिता निजनायकाः स्वस्वामिनो यस्मिस्तत्, वैमानिकजनेभ्यो निर्जरजनेभ्यः सीमातीतस्य निर्मर्यादस्याद्भुतहर्षस्य विचित्रप्रमोदस्य दायकं दातृ, भयानकं भीकरम्, समीकं युद्धम्, आकलय्य दृष्ट्वा, कल्पान्तदहनसकाशे प्रलयपावकसदृशे, तयोः बुद्धिषेणपल्लवराजयोः, शरनिकरहुताशे बाणसमूहवह्नौ, पतङ्गौ शलभौ, बभूवतुरास्ताम् । मृताविति भावः । . महाराष्ट्रेति-महाराष्ट्र विदेहेशोमहाराष्ट्रविदेहभूपालयोः, दारुणं भयंकरम्, शरैर्बाणैः संभिन्नाः खण्डिता वारणा गजा यस्मिस्तत् , जयकारणं विजयनिमित्तम्, समरं युद्धम्, समजृम्भत ववृधे ।।८।।