________________
जीवन्धरचम्पूकाव्ये समापतन्तीः सहसा समन्तादनीकिनीः पद्ममुखप्रवीरः । प्रत्यग्रहीदेष शरप्रचारैः स्रोतस्विनीरेप इवाम्बुराशिः ॥ ८२ ॥
सौजन्यमानते कुर्वञ्जन्यमुद्धतशत्रुषु ।। ___ शरान्मुमोच पद्मास्यो न परान्मापि लाघवम ।। ८३ ॥ मथनेन शरावलिं तमिस्रां सृजता तत्र निशामुखायितम् ।।
विशिखैः किरणैर्विमिन्दता तां जलजास्येन निशाकरायितम् ।।४।। एवं परस्परशरखण्डनेन व्रणकथानभिज्ञगात्रयोः, विस्मयविस्तारितलोचनैः श्लाघोन्मुखैबहिर्मुखैनिरन्तरं निरीक्ष्यमाणयोः, दिगन्तविसारिभिः शरासारैराकाशं मूर्तमिवादधानयोः, प्रवीराभिलाषेणोभयोः समीपं मुहुर्मुहुर्गतागतक्लेशमविगणय्योत्सर्पन्त्या जयश्रिया दृढमालिङ्गितवपुषोः, साहसविलोकनसमयसुरवृष्टकल्पतरुकुसुमसुरभिलभुजयुगलयोः, चक्रीकृतचापलीलामध्यविराजमानशरीरतया परिवेषमध्यगयोः परस्परसंमुखयोरिव दिवाकरयोः, प्रवीरयोरनयोः समरक्रीडामातन्वतोः, कुपितवदनो मथनः, पद्माननस्य कार्मुकगुणं विभिद्य हर्षेण प्रगर्जन् , इमं व्याहारमुररीचकार ।
चापस्य जीवविच्छेदात्क धावसि भयाकुलः।। ननु रे भवतोऽप्येवं जीवमेष हरिष्यति ॥ ५ ॥
विपुलादयो नन्दाढ्यविपुलप्रमुखाः, अन्येषामितरेपाम्, पुरतोऽग्रे, तस्थुस्तिष्ठन्ति स्म ॥ ८१ ॥
समापतन्तीरिति एकोऽद्वितीयः प्रधानो वा, अम्बुराशिः सागरः, स्रोतस्विनीरिव नदीरिव, एषोऽयम्, पद्ममुखप्रवीरः पद्मास्यप्रधानसुभटः, सहसा झटिति, समन्तात् सर्वतः, समापतन्तीः समागच्छन्तीः, अनीकिनीः पृतनाः, शरप्रचारैर्बाणप्रचारैः, प्रत्यग्रहीत् निवारयामास ॥२॥
सौजन्यमिति-आनते आनने, सौजन्य साधुताम्, उद्धतशत्रुषु दृप्तारा तिपु, जन्यं समरम् । कुर्वन् विदधत् , पद्मास्यः शरान्मुमोच बाणान् तत्याज, लाघवं क्षुद्रत्वम्, परानपि शत्रूनपि, न मुमोच न तत्याज ॥३॥
मथनेन शरावलिमिति-तत्र युद्धे, तमिस्रां मलिनाम्, शरावलि बाणपङ्क्तिम्, पक्षे बाणपङ्क्तिरूपां कृष्णरजनीम्, सृजता रचयता, मथनेन राजघश्यालेन, निशामुखायितं रजनीमुखमिवाचरितम्, विशिखैबर्बाणः, किरणेमरीचिभिः, तां पूर्वोक्ताम्, तमिस्रां भिन्दता खण्डयता, जलजास्येन पद्मास्येन, निशाकरायितं चन्द्रवदाचरितम् ॥ ८४ ॥
एवं परस्परशरखण्डनेनेति-एवमनेन प्रकारेण परस्परशरखण्डनेन मिथोबाणशकलनेन, व्रणकथाया ईर्मचर्चाया अनभिज्ञमपरिचितं गात्रं शरीरं ययोस्तयोः, विस्मयेनाश्चर्येण विस्तारिते लोचने नयने येषां तैः, श्लाघोन्मुखैः प्रशंसातत्परः, बर्हिमुखैरमरैः, निरीक्ष्यमाणयोरवलोक्यमानयोः दिगन्तविसारिभिः काष्ठान्तप्रसरणशीलः, शरासारैर्बाणवर्षणः, आकाशं गगनम्, मूर्तमिव सशरीरमिव, आदधानयोः कुर्वाणयोः, प्रवीराभिलाषेण प्रकृष्टयोप्राप्तीच्छया, उभयोयोः, समीपं निकटम्, मुहुर्मुहुर्भूयोभूयः, गतागतक्लेशं याता. यातदुःखम्, अविगणय्य समुपेच्य, उत्सर्पन्त्या प्रवर्धमानया, जयश्रिया जयलक्ष्म्या, आलिङ्गितं समाश्लिष्टं वपुः शरीरं ययोस्तयोः, साहसविलोकनसमये अवदानावलोकनकाले सुरवृष्टानि देववृष्टानि यानि कल्पतरुकुसुमानि कल्पवृक्षपुष्पाणि तैः सुरभिलं सुगन्धितं भुजयुगलं बाहुयुगं ययोस्तयोः, चक्रीकृतं वर्तुलीकृतं यच्चापं धनुस्तस्य लीला शोभा तस्या मध्येऽभ्यन्तरे विराजमानं शोभमानं शरीरं ययोस्तयोर्भावस्तत्ता तया, परिवेषस्य परिधेमध्ये गच्छत इति परिवेषमध्यगौ तयोः, परस्परसम्मुखयोरन्योऽन्याभिमुखयोः, दिवाकरयोरिव सूर्ययोरिव, समरक्रीडां युद्धकेलिम्, आतन्वतोविस्तारयतोः, अनयोः प्रवीरयोः प्रकृष्टसुभटयोः, मध्ये कुपितवदनः क्रुद्धमुखः, मथनः काष्टाङ्गारजायासनाभिः, पद्माननस्य पद्मास्यस्य, कार्मुकगुणं धनुर्ध्याम्, विभिद्य खण्डयित्वा, हर्षेण प्रमदेन, प्रगर्जन् गर्जितं कुर्वन् , इमं वक्ष्यमाणम्, व्याहारमालापम्; उररीचकार स्वीकृतवान् ।
चापस्येति-चापस्य धनुषः, जीवविच्छेदात् प्रत्यञ्चानाशात् , भयाकुलस्त्रासव्यग्रः सन् , क्व धावसि