________________
दशमो लम्भः
अनीकिनीं पुरोधाय पद्मास्योऽपि रणाङ्गणम् । आससाद धराधीशखेचराधीशसंगतः ॥ ७७ ॥
૧ ૨૭
तदनु मथनपद्मास्याभ्यां तिलकितमुखभागाः कोणताडितनिस्साणप्रभृतिविविधवाद्यरवाहूतनिर्जरनिरन्तरान्तरिक्षप्रदेशाः, दवेलारवविजृम्भितसिंहगर्जनभयतर्जितदिशावशावल्लभाः, नूतननिकपकपणनिर्मूलीकृतकरचलितकरबालवल्लिकाप्रतिविम्वितरविविम्वतया मूर्तीकृतमिव निजप्रतापमाविभ्राणाः, उभयेऽपि वीराः लावायोग्यं युद्धं विधातुमारभन्त । कदनदुर्दिनमत्तशिखावलः करतलोद्धृतकार्मुकभीकरः ।
1
स मथनः प्रचचाल रणाजिरे विपिनदेश इवोद्धतकेसरी ॥ ७८ ॥ विपाट्य घोटान्गजतां निपात्य भटान्विभिद्य क्षितिषैः सहायम् संक्षोभयामास कुरूद्वहस्य बलाम्बुधिं मन्दरवत्पयोधिम् ॥ ७६ ॥ प्रधाव्य वेगाद्रथमाजिसीनि पद्माननस्तस्य पुरो वभूव । काम्पिल्यकेशस्य स पल्लवेशो लाटाधिराजस्य च वुद्धिषेणः ॥ ८० ॥ महाराष्ट्रमीशस्य गोविन्दधरणीपतिः ।
अन्येषां पुरतस्तस्थुर्नन्दाढ्यविपुलादयः ॥ ८१ ॥
तस्य प्रभया दीया पिञ्जरिताः पिङ्गलवर्णीकृता दिशावकाशाः काष्ठान्तरालानि येन तथाभूतः सन् रिपुसेनासमुद्रं प्रत्यर्थिपृतनापारावारम्, कवलयन्निव प्रसयन्निव, आजिरङ्ग युद्धभूमिम्, आजगाम समापतति स्म !
अनीकिनीमिति — धरावीशखे चरावीशैर्भूमिभूद्विद्याधरराजैः संगतः सहितः, पद्मास्योऽपि जीवकसुहृत्प्रवानोऽपि, अनीकिनीं पृतनाम्, पुरोधायाग्रे कृत्वा, रणाङ्गणं समराजिरम्, आससाद प्राप ॥ ७७ ॥
तदन्विति -- तदनु तदनन्तरम्, मथनः काष्टाङ्गारश्यालः पद्मास्यो जीवन्धरसुहृत् ताभ्याम्, तिलकितः स्थासकयुतो मुखभागो येषां ते, कोणैर्वादनदण्डैस्ताडितानि समाहतानि यानि निस्माणप्रभृतिविविधवाद्यानि निःसाणप्रमुखनैकवादित्राणि तेषां रत्रैः शब्दैराहूता आकारिता ये निर्जरा देवास्तैर्निरन्तरो निरवकाशोऽन्तरिक्षप्रदेशो गगनभागो यैस्ते, चवेलारवैः सिंहनादैर्विजृम्भितं वर्धितं यत् सिंहगर्जनभयं मृगेन्द्रगर्जितमतिस्तया तर्जिता भसिंता दिशावशावल्लभा दिग्गजा यैस्ते, नूतननिकषेषु प्रत्यग्रनिकषोपलेषु कषणेन घर्षणेन निर्मलीकृताः स्वच्छीकृताः करचालिताः पाणिप्रकम्पिता याः करवालवल्लिकाः कृपाणलतास्तासु प्रतिविम्बितं प्रतिफलितं यद्रविविम्बं सूर्यमण्डलं तस्य भावस्तत्ता तया मूर्तीकृतमिव सदेहीकृतमिव निजप्रतापं स्वतेजः, आबिभ्राणा दुधानाः, उभयेऽपि पक्षद्वयसम्बन्धिनोऽपि, वीरा योद्धारः, श्लाघायोग्यं प्रशंसार्हम्, विधातुं कर्तुम्, आरभन्त तत्परा बभूवुः ।
कदनदुर्दिनेति—कदनं युद्धमेव दुर्दिनं मेघच्छन्नं दिनं तस्मिन् मत्तशिखावलो मत्तमयूरः, 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः । करतले हस्ततले उद्घृतमुत्थापितं यत्कार्मुकं धनुस्तेन भीकरो भयङ्करः, स पूर्वोक्तः, मथनो राजधश्यालः, विपिनदेशे गहनप्रान्ते, उद्धतकेसरीव दृप्तमृगेन्द्र इव, रणाजिरे समराङ्गणे, प्रचचाल प्रचलति स्म । द्रुतविलम्बितवृत्तम्, 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥७८॥
विपाट्यति - अयं मथनः, क्षितिषै राजभिः सह सार्धम्, बोटान् वाहान्, विपाठ्य विदार्य, गजतां हस्तिसमूहम्, निपात्य पातयित्वा भटान् योद्धन्, विभिद्य खण्डयित्वा पयोऽब्धिम् क्षीरसागरम्, मन्दरवत् सुमेरुरिव, कुरूद्वहस्य जीवन्धरस्य, बलाम्बुधिं पृतनापारावारम्, संक्षोभयामास क्षुभितं
चकार ॥७६॥
प्रधाव्येति - आजिसीम्नि युद्धाजिरे, वेगात् प्रजवात्, रथं स्यन्दनम्, प्रधाव्य धावयित्वा, पद्माननः पद्मास्यः, तस्य मथनस्य, पुरोऽग्रे, बभूव स प्रसिद्धः, पल्लवेश: पल्लवजनपदेशः काम्पिल्यकेशस्य काम्पिल्यनगरनाथस्य, पुरो बभूव, बुद्धिषेणश्च तन्नामा जीवकसुहृत्, लाटाधिराजस्य लाटदेशस्वामिनः, पुरो बभूव ॥८०॥
महाराष्ट्रति—गोविन्दधरणीपतिजींवन्धरमातुलः, महाराष्ट्रमहीशस्य महाराष्ट्रभूपालस्य, नन्दाव्य