________________
जीवन्धरचम्पूकाव्ये ततश्च दुर्धर्षामर्षपाटलवदनेन मथनेनार्धचन्द्रेण निकृत्ते निजकार्मुकगुणे, पद्मास्यः, करतलताण्डवितकोदण्डान्तरसमारोपितकाण्डप्रकाण्डै रिपुमण्डलानि खण्डयन , तस्य सपत्नस्य शरासनं समरोत्साहं च युगपद्विदारयामास। तत्ताग्देवदत्तप्रचलकरतलात्पत्रिणो युद्धरङ्गे
पेतुः प्रोद्धतपक्षाः कतिचन गगने तस्थुरुद्यद्भयाव्याः । लेखानां मेघमार्ग पिहितपरिलसत्सौरभाणि प्रकामं ।
तस्थुः पेतुश्च जीवन्धरनिखिलवले कानिचित्पुष्पकाणि ॥ ६६ ॥ यत्र तत्र रिपुवाहिनीतले पुण्डरीकमुदयत्कबन्धके ।
आविरास बहुधा शिलीमुखास्तत्र तस्य जयिनः समापतन् ॥ ७० ॥ एवं देवदत्तस्य रणमत्तस्य दुर्ललितदोदेविलसितमसहमानः किरीटखचितकुरुविन्दमणिवृन्दप्रभापुनरुक्तवदनवनजकोपारुणकान्तिप्रसरः परन्तपप्रतापो मागधभूपः करनर्तितचापलता
येन तथाभूतः, सोऽयं प्रसिद्धः, कमलबदनः पद्मास्याभिधानः सुहृद्, बहुशोऽनेकवारान् , निजान् स्वकीयान् , बाणान् शरान् , मथनदलितान् कृतघ्नश्यालखण्डितान् , दृष्ट्वा विलोक्य, विततविशिखैर्विस्तारितबाणैः, तस्य मथनस्य, सूतं सारथिम्, केतुञ्च पताकाञ्च, विभेदयन् खण्डयन् , निजगलात्स्वकण्ठाद् गलन्तो निःसरन्तो ये सिंहध्वानाः च्वेडितरवास्तैः, नभो गगनम्, समभेदयत् भिनत्ति स्म । स्वोदात्तशब्दरम्बरं पूरयामासेति भावः । हरिणीच्छन्दः ॥६॥
ततश्चेति-ततश्च तदनन्तरञ्च, दुर्धर्षश्वासावमर्षश्चेति दुर्धर्षामर्षो विकटक्रोधस्तेन पाटलं श्वेतरक्तं वदनं मुखं यस्य तेन, मथनेन राजघश्यालेन, अर्धचन्द्रेण अर्धचन्द्राकारबाणेन, निजकार्मुकगुणे स्वकीयकोदण्डप्रत्यञ्चायाम्, निकृत्ते छिन्ने, सति, पद्मास्यो जीवकुसुदृत्प्रधानः, करतले हस्ततले ताण्डवितं नर्तितं यत्कोदण्डं धनुस्तस्यान्तरे मध्ये, समारोपिताः समधिष्ठापिता ये काण्डप्रकाण्डा बाणश्रेष्ठास्तैः, रिपुमण्डलानि शत्रुसमूहान् , खण्डयन् विदारयन् , तस्य सपत्नस्य पूर्वोक्तस्यारातः, शरासनं धनुः, समरोत्साहञ्च युद्धोल्लासञ्च, युगपदेककालावच्छेदेन, विदारयामास खण्डयासास ।
तत्तादगिति-प्रोद्धृतपक्षाः प्रकम्पितगरुतः, कतिचन केऽपि, पत्रिणो बाणाः पक्षिणश्च, तत्तादृग्देवदत्तस्य तथाविधदेवदत्तस्य प्रचलं चपलं यत्करतलं हस्ततलं तस्मात् , युद्धरङ्गे समराङ्गणे, पेतुः पतन्ति स्म, कतिचन केऽपि च उद्यद्धयेन समुत्पद्यमानभीत्याढ्या युक्ताः पक्षे उद्यद्भया समुत्पद्यमानदीप्त्या आढ्याः सहिताः, सन्तः, गगने नभसि, तस्थुस्तिष्ठन्ति स्म । पिहितमाच्छादितं परिलसच्छोभमानं सौरभं मानोज्ञकं यैस्तथाभूतानि, लेखानां देवानाम्, पुष्पकाणि व्योमयानानि, प्रकाममत्यर्थं यथा स्यात्तथा, मेघमार्गे गगने, तस्थुस्तिष्टन्ति स्म, कानिचिच्च कान्यपि च, पिहितं व्याप्तं परिलसच्छोभमानं सौरभं सौगन्ध्यं येषां तानि, लेखानां विजयावलोकनप्रहृष्टदेवानाम्, पुष्पाण्येव पुष्पकाणि कुसुमानि, जीवन्धरनिखिलबले जीवकसमग्रसैन्ये, पेतुः पतन्ति स्म ॥ ६ ॥
यत्र यत्रेति-यत्र यत्र यस्मिन् यस्मिन् , उदयन्त उत्पतन्तः कबन्धाः शिरोहीनमृतकदेहा यस्मिस्तस्मिन् , पक्षे उदयत्समुच्छलत्कबन्धं पाथो यस्मिंस्तस्मिन् , रिपुवाहिनीतले शत्रुसैन्यमध्ये पक्षे शत्रुनदीमध्ये, 'वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति मेदिनी, पुण्डरीकं सितच्छत्रं पक्षे सिताम्भोजम् 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे' इति मेदिनी, आविरास प्रकटीबभूव, तत्र तत्र, जयिनो विजयवतः तस्य देवदत्तस्य, शिलीमुखाः शराः पक्ष बाणाश्च, 'शिलीमुखोऽलिकाण्डयोः' इति मेदिनी, समापतन् पतन्ति स्म । श्लेषः ॥ ७० ॥
एवं देवदत्तस्येति-एवमनेन प्रकारेण, रणेन समरेण मत्तः प्रगर्वितस्तस्य, देवदत्तस्य तन्नामसुभटस्य, दुर्ललितयोरास्फाल्यमानयोर्दोषो (जयोर्यो दर्पो गर्वस्तस्य विलसितं चेष्टितम्, असहमानोऽक्षाम्यन् , किरीटखचितानां मकुटनिस्यूतानां कुरुविन्दमणीनां पद्मरागरत्नानां वृन्दः समूहस्तस्य प्रभया दीप्त्या पुनरुक्तो वदनवनजस्य मुखकमलस्य कोपारुणकान्तिप्रसरो रोषलोहितदीप्तिसमूहो यस्य सः, परन्तपः शत्रुसन्ताप