SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ दशमो लम्भः निर्मुक्तबागगणाचान्तविपक्षपक्षदुर्मदः पञ्चपैः पृपत्कर्देवदत्तस्य रथयोटान्पाटयामास । निशितविशिखवयैर्विश्रुतो देवदत्तः । कवचमथ विभिन्दन्मागधेशस्य कोपात् । उरसि निहितशक्तिस्तस्य शक्तिं विलुम्पन् समिति विमलकीतिः पातयामास शत्रुम् ।। ७१ ॥ ततश्च प्रभोः प्रतापमिव भुवि पातितं महावीरं मगधभूपालमवलोक्य क्रोधसंज्वलन्नयनविगलद्विस्फुलिङ्गकलिङ्गभूपालः कुटिलितभ्रूभङ्गभीपणवदनः कर्गान्ताकृष्टचापचोदितरोपवण धर्षितपरमदो हर्षितनिजचतुरङ्गबलः पाटितघोटगजघटाभटपटलः सरभसमेव कौरवसेनां क्षोभयामास । विहायसि विहारिभिः शरगणैः कलिङ्गेशितु र्भयाद् द्रुतमपासरन्न परमाकुला निर्जराः। . क्षितौ च रिपुसैनिका दिशि दिशि क्षणाद्धाविताः __ स्वसेनिकभयोधमा निजयशस्तरङ्गास्तथा ॥ ७२ ॥ विस्फारघोषैर्गगनं पूरयन्हर्पयन्बलम् । श्रीदत्तोऽभिजगामैतं मृगेन्द्र इव कुञ्जरम् ।। ७३ ॥ वर्धकः प्रतापो यस्य तथाभूतः, मागधभूपो मगधजनपदेशः, करनर्तिता हस्तकम्पिता या चापलता धनुर्वल्लरी तस्या निमुक्ता निष्पतिता ये बाणगणाः शरसमूहास्तैराचान्तो गृहीतो विपक्षपक्षस्य शत्रुसैन्यस्य दुर्मदो दुरहंकारो येन तथाभूतः सन् , पञ्च षड् वा पञ्चषास्तैः पृषकैर्बाणः, देवदत्तस्य तन्नामसुभटस्य, रथघोटान् स्यन्दनहयान् , पाटयामास विदारयामास ।। निशितविशिखवयैरिति-अथानन्तरम्, विश्रुतो विख्यातः देवदत्तः, कोपात् क्रोधात्, विशिखेपु वाणेषु वर्याः श्रेष्ठा इति विशिखवर्याः, निशितास्तीक्ष्णाश्च ते विशिखवर्याश्चेति निशितविशिखवर्यास्तैः, मागधेशस्य मगधराजस्य, कवचं वारवाणम्, विभिन्दन् विदारयन् , उरसि वक्षसि, निहिता निखाता शक्तिः शस्त्रविशेषो येन तथाभूतः, तस्य मगधेशस्य, शक्तिं सामर्थ्यम्, विलुम्पन् नाशयन् , विमलकीर्तिरवदातयशाः, सन् , समिति समरे, शत्रु सपत्नम्, पातयामास पातयति स्म । मालिनीच्छन्दः॥ ७ ॥ ततश्च प्रभोरिति-ततश्च तदनन्तरञ्च, प्रभोः स्वामिनः, प्रतापमिव तेज इव, भुवि पृथिव्याम्, पातितं महावीरं महाभटम्, मगधभूपालं मगधेशम्, अवलोक्य दृष्ट्वा, क्रोधेन कोपेन संज्वल द्यां सरक्तीभवद्भ्यां नयनाभ्यां चक्षुभ्यां विगलन्तो विस्फुलिङ्गा अग्निकणा यस्य सः, कलिङ्गभूपालः कलिङ्गविपयनरपतिः, कुटिलितयोर्वीकृतयोभ्र वोभङ्गन भीषणं भयावह वदनं मुखं यस्य सः, कर्णान्तं श्रवणान्तमाकृष्टेन चापेन धनुषा चोदिताः प्रेरिता ये रोपा बाणास्तेषां वर्षेण वृष्टया, धर्पितो विध्वस्तः परमदः शत्रुगर्वो येन सः, हर्षितं प्रसादितं निजचतुरङ्गबलं स्वकीयचतुरङ्गसैन्यं येन सः, पाटितं विदारितं घोटगजघटाभटानां हयह स्तिसमूहशूराणां पटलं समूहो येन तथाभूतः सन् , सरभसमेव सवेगमेव, कौरवसेनां जीवकपृतनाम्, क्षोभयामास क्षोभितां चकार । विहायसीति-विहायसि नभसि, विहारिभिर्विहरणशीलः, कलिङ्गेशिनुः कलिङ्गभूपालस्य, शरगणे र्बाणसमूहैः, भयाद् भीतेः, परमत्यन्तम्, आकुला ब्यग्राः, निर्जरा देवाः, द्रुतं सत्वरम्, नापासरन् नापसरन्ति स्म, किन्तु, चितौ पृथिव्याम, रिपुसैनिकाश्च शत्रुभटाअपि, स्वसैनिकानां स्वसैन्यानां भयोद्यमास्त्रासचेष्टितानि, निजयशस्तरङ्गास्तथा स्वकीययशोभङ्गा अपि, क्षणादल्पेनैव कालेन, दिशि दिशि प्रतिकाष्ठम्, धाविताः प्रसृताः, कलिङ्गेशस्य शरगणैर्नभसि स्थिता अमरा द्रुतमपसरन्ति स्म, शत्रुसैनिका भीत्या प्रतिकाष्टं धाविताः, स्वकीयसैनिकानां भयचेष्टितानि पलायितानि, स्वयशःसन्ततयश्च प्रसृता बभूवरिति भावः ॥ ७२ ॥ विस्फारघोषैरिति-विस्फारघोषैर्धनुरास्फालनशब्दः, गगनं व्योम, पूरयन्, सम्भरन् । बलं सैन्यम्,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy