________________
दशमो लम्भः
१६३
शरास्तदानीं जलजाननस्य नामाक्षराणां मलिता न भूयात् ।
इतीव राज्ञां हृदये प्रविष्टाः प्राणानगृह्णन्त न रक्तलेशम् ।। ६६ ।। एवं निजध्वजिनीक्षोभमालोक्य तत्क्षणकन्दलितकोपौ मगधमागधभूपौ कुटिलीकृतचापौ निर्निरोधप्रचारेण रथेन क्षोणीतलं क्षोभयन्तौ निजसैनिकशिखावलधनगर्जितायमानसिंहनादेन वैरिजनधैर्यमुन्मूलयन्तौ जवेन पद्मास्यमापतताम् ।
तं मागधमहीपालं स्वर्भानुरिव भास्करम् ।
दधाव रथिनं वीरो देवदत्तो धनुर्धरः ।। ६७ ।। तदनु करलाघवकोरकितधनुर्लतारिनिरन्तरनिर्मुक्तशरनिकरदूरोत्सारितनभःस्थलसंमिलितामरलोकं पाणिपात्रस्थकीलालपाननिरुत्सुकैविस्मयस्तिमितलोचनैस्तुषोत्तालैर्वेतालविलोक्यमानशरसन्धानमोक्षणमन्योऽन्यास्त्रसंघट्टसञ्जातप्रोच्चलत्प्रचुरविस्फुलिङ्गपरम्परावित्रासितकुञ्जरकुलं वैमानिकजनसीमातीतश्लाघाविषयभूमाञ्चितं सकलवीरजनोत्साहदानशौण्डं प्रचण्डतरदोर्दण्डयोर्मथनपद्मास्ययोर्मागधदेवदत्तयोश्च वाचामगोचरं समरमुदजृम्भत ।
मथनदलितान्वाणान्दृष्ट्वा निजान्वहुशस्तदा कमलबदनः सोऽयं कर्णान्तनर्तितशिञ्जिनिः । विततविशिखैः सूतं केतुं च तस्य विभेदयन्निजगलगलत्सिंहध्वाननभः समभेदयत् ॥ ६८॥
शरास्तदानीमिति तदानीं तस्मिन् काले, नामाक्षराणां नामधेयवर्णानाम्, मलिता मालिन्यम्, न भूयाद् न भवेदितीव हेतोः, जलजाननस्य पद्मास्यस्य, शरा बाणाः, राज्ञां क्षितिपतीनाम्, हृदये मनसि, प्रविष्टाः सन्तः, प्राणान् जीवान् , अगृह्णन्त गृह्णन्ति स्म, रक्तलेशं रुधिरबिन्दुम्, नागृह्णन्त । तदीयाः शरा वेगेन विपक्षपार्थिवविग्रहान् छित्त्वा बहिनिष्क्रान्ता इति भावः ॥६६॥
एवमिति-एवमनेन प्रकारेण, निजध्वजिनीक्षोभं स्ववाहिनीचापल्यम्, आलोक्य दृष्ट्वा, तत्क्षणं तत्कालं कन्दलितः समुत्पन्नः कोपो ययोस्तो, मगधमागधभूपो मगधमागधराजौ, कुटिलीकृतचापौ वक्रीकृतकार्मुको, निनिरोधोऽप्रतिबन्धः प्रचारो गमनं यस्य तेन, रथेन शताङ्गन, क्षोणीतलं महीपृष्टम्, चोभयन्तौ, सञ्चलयन्ती, निजसैनिका एव स्वकीयवीरा एव शिखावला मयूरास्तेषां घनगर्जितायमानो मेघगर्जनसन्निभोयः सिंहनादः वेडा तेन, वैरिजनधैर्यं शत्रुसमूहधीरताम्, उन्मूलयन्तावुत्पाटयन्ती, जवेन वेगेन, पद्मास्यम्, आपतताम् अभ्यगच्छताम् ।
तं मागधेति-स्वर्भानू राहुः, भास्करमिव सूर्यमिव, धनुर्धरः कोदण्डधारकः, देवदत्त स्तन्नामा, वीरो भटः, रथिनं स्यन्दनचारिणम्, तं प्रसिद्धम्, मागधमहीपालं मागधराजम्, दधाव धावति स्म ॥६७॥
तदन्विति-तदनु तदनन्तरम्, करलाघवेन हस्तक्षिप्रकारित्वेन कोरकिता कुड्मलिता धनुर्लवा कृपाणवल्ली येषां तथाभूता येऽरयः शत्रवस्तैनिर्मुक्तस्त्यको यः शरनिकरो बाणसमूहस्तेन दूरोत्सारिता विप्रकृष्टोत्सारिता नभःस्थलसंमिलिता गगनतलसमागता अमरलोका देवसमूहा यस्मिस्तत्, पाणिपात्रस्थं करभाजनस्थितं यत्कीलालं रुधिरं तस्य पाने धयने निरुसुकैर्निरुत्कण्ठितैः विस्मयस्तिमितानि लोचनानि येपां तैराश्चर्याचलनयनैः, तृपोत्तालरुदन्योत्कटः, वेतालः प्रेतविशेषः, विलोक्यमाने दृश्यमाने शराणां बाणानां सन्धानमोक्षणे धारणत्यजने यस्मिस्तत् , अन्योऽन्यस्य परस्परस्यास्त्रसंघटेन शस्त्रसंमर्दनेन सजाताः समुत्पन्नाः प्रोच्चलन्तः समुत्पतन्तः प्रचुराः प्रभूता ये विस्फुलिङ्गा अग्निकणास्तेषां परम्पराभिः सन्ततिभिर्वित्रासितं सभीकृतं कुञ्जरकुलं हस्तिसमूहो यस्मिस्तत्, विमानेन चरन्तीति वैमानिकास्ते च ते जनाश्चति वैमानिकजना देवसमूहास्तेषां सीमातीता असंख्याता याः श्लाघाः प्रशंसास्तासां विषयभूम्ना विषयबाहुल्येनाञ्चितं शोभितम्, सकलवीरजनानां निखिलवीरपुरुषाणामुत्साहदाने शौण्डं समर्थम्, प्रचण्डतरौ तीच्णतगै दोर्दण्डौ भुजदण्डौ ययोस्तयोः, मथनपद्मास्ययोः मागधदेवदत्तयोश्च, वाचां वाणीनाम्, अगोचरं विषयातीतम्, समरं युद्धम्, उदज़म्भत वर्धते स्म ।
मथनदलितानिति तदा तस्मिन् काले, कर्णान्ते श्रवणाभ्यणे नर्तिता चालिता शिञ्जिनी मौर्वी