________________
१८४
जीवन्धरचम्पूकाव्ये कुमकुमारः पद्मास्यं वरूथिनीनामाधिपत्ये विधाय यथायोग्यं गरुडवेगगोविन्दलोकपालपल्लवमहीपालप्रभृतीनापृच्छय रणाङ्गणावतरणाय सेनामादिदेश।
काष्ठाङ्गारोऽपि सेनायाः पतिं मथनमादिशत् ।
पृतनायाः प्रयाणाय रणरङ्गस्थलं प्रति ।। ३८ ।। तदनु विकटकटविगलदानधाराप्रवाहानुभयतः सृजद्भिः सनिर्भरैरिव नीलाचलैविशददन्तप्रभादन्तुरिताङ्गतया रजनिकरकरनिकरचुम्बितसंवर्तकालाम्बुदविडम्वकैः कर्णद्वयसन्दानितधवलचामरशोभिततया पद्मिनामसाम्येन समागतमरालशङ्कामकुरयद्भिः पादन्यासेन महीं कम्पयद्भिः घनाघनघनगर्जितानुकारिबृंहितरवेण गिरिदरीसुखसुप्तपञ्चास्यान् क्रोधेनोत्पत्य कुत्रत्योऽयं करिशब्द इति निरीक्षमाणान् कुर्वाणैर्वारणैः सञ्छादितदिग्भागाः, सूर्याश्वशिरस्ताडनायेवोर्ध्वप्रसारितपूर्वचरणयुगलैः प्रलयजलधरविमुक्तवर्षोपलासोरपरुषेण जरयतेव वसुधातलमतिनिष्ठरेण खरखुरपुटविन्यासेन जनितपांसुपारम्परीभिः सकलजगदन्धङ्करणधुरीणै पितरवेण गगनतलं पूरयद्भिः प्रतिपरिव मारुतस्य प्रत्यादेशैरिवोच्चैःश्रवसो निदर्शनैरिव मनसो मूरिव जवैर्गन्धर्वैरुपशोभिताः,
समीकसंनाहो युद्धाभिनिवेशो यस्य तथाभूतः, कुरुकुमारो जीवकः, पद्मास्यं तन्नामसखम्, वरूथिनोनां पृतनानाम्, आधिपत्ये स्वामित्वे, विधाय कृत्वा, तं सेनापति कृन्वेति यावत् , यथायोग्यं यथार्हम्, गरुडवेगश्च गोविन्दश्च लोकपालश्च पल्लवमहीपालश्चेति गरुडवेगगोविन्दलोकपालपल्लवमहीपालाः, ते प्रभृतिर्येषां तान् , आपृच्छयामन्त्र्य, रणाङ्गणे समरचत्वरेऽवतरणं प्रवेशस्तस्मै, सेनां चमूम्, आदिदेश समादिष्टवान् ।
काष्ठाङ्गारोऽपीति-काष्टाङ्गारोऽपि राजघोऽपि, पृतनायाः सेनायाः, रणरङ्गस्थलं प्रति समररङ्गभूमिमुद्दिश्य, प्रयाणाय प्रस्थानाय, मथनं तन्नामधेयम्, सेनायाः पति ध्वजिन्या नाथम्, आदिशत् आज्ञापयामास ॥ ३८॥
तदन्विति-तदनु तदन्तरम्, उभयतः पार्श्वद्वये, विकटकटाभ्यां विशालगण्डाभ्यां विगलन्तः पतन्तो ये दानधारा प्रवाहा मदधारास्रोतांसि तान् , सृजभी रचयद्भिः, सनि: रैर्निझरोपेतैः, नीलाचलैरिव नीलपर्वतैरिव, विशददन्तप्रभाभिर्वलक्षरदनदीप्तिभिर्दन्तुरितं व्याप्तमङ्ग देहो येषां तेषां भावस्तत्ता तया, रजनिकरस्य चन्द्रमसः करनिकरेण किरणकलापेन चुम्बिताः संयुक्ता ये संवर्तकालाम्बुदाः प्रलयकालवारिदास्तेषां विडम्बका अनुकर्तारस्तैः, कर्णद्वये श्रवणयुग्मे सन्दानिताभ्यां बद्धाभ्यां चामराभ्यां बालव्यजनाभ्यां शोभिततया समलङ्कृततया, पति नाम पद्मनाम तस्य साम्यं सादृश्यं तेन 'पद्मोऽस्त्री पद्मके व्यूहनिधिसङ्ख्यान्तरेऽम्वुजे । ना नागे स्त्री फजिकाश्रीचारटीपन्नगेषु च' इति मेदिनी, समागताः समायाता ये मराला हंसास्तेषां शङ्का सन्देहम्, अङ्कुरयद्भिः प्रादुर्भावयद्भिः, पादन्यासेन चरणनिक्षेपेण, महीं भूमिम्, कम्पयद्भिपयद्भिः, घनाधनस्य मेघस्य यद् घनगर्जितं विकटगर्जनं तस्यानुकारि यद् बृंहितं गजशब्दस्तस्य रवो नादस्तेन, गिरिदरीषु शैलगुहासु सुखेन शर्मणा सुप्ताः कृतशयना ये पञ्चास्याः सिंहास्तान् , क्रोधेन रोपेण, उत्पत्योत्क्रम्य, कुत्रत्योऽयं कुत्रभवोऽयम्, करिशब्दो गजगजितम्, इति हेतोः, निरीक्षन्त इति निरीक्षमाणा अवलोकमानास्तान् , कुर्वाणैर्विदधानः, वारणैर्गजैः, सन्छादिताः पिहिता दिग्भागाः काष्ठाप्रदेशा येषां ते, सूर्याश्वानामर्कहयानां शिरसि मूर्ध्नि ताडनं प्रहरणं तस्मा इव, ऊर्ध्वप्रसारितमुन्नमितं चरणयुगलं येषां तैः, प्रलयजलधरैः प्रलयमेधैविमुक्तस्त्यक्तो यो वर्षोपलानां करकाणामासारो धारासंपातस्तद्वत् परुषः कठोरस्तेन, वसुबातलं भूतलम्, जर्जरयतेव जीणं कुर्वतेव, अतिनिष्ठुरेण कठोरातिशयेन, खरखुरपुटानां तीचणखुरपुटानां विन्यासो निक्षेपस्तेन, जनिताः समुत्पादिता याः पांसुपारम्पर्यो धूलिसन्ततयस्ताभिः, सकलजगतो निखिलभुवनस्यान्यकरणे सतिमिरीकरणे धुरीणा निपुणास्तैः, हेषितरवेण हेषाध्वनिना, गगनतलं व्योमतलम्, पूरयद्भिः सम्भरद्भिः, गल्मतो गरुडल्य प्रतिपक्षरिव प्रतिद्वन्द्विभिरिव, मारुतस्य पवनस्य, पर्यायैरिव प्रतिकृतिभिरिव, उच्चैःश्रवसो देवराजवाजिनः प्रत्यादेशैरिव निराकरणैरिव, मनसश्चेतसः, निदर्शनैरिव दृष्टान्तैरिव, मूतैः शरीरधारिभिः, जवैरिव वेगैरिव, गन्धर्वाहैः, 'वाजिवाहार्वगन्धर्वयसैन्धवसप्तयः' इत्यमरः, उपशोभिता