________________
दशमो लम्भः
१२३
किञ्च ।
आ जामतो न लिखितं भुवनाधिपत्यं
यद्भालसीमनि परं तु वणिक्रियेव । तेनाधमेन वणिजस्तनयेन किंवा
सन्धानमद्य नरपालमणीशिनां नः ॥ २४ ॥ ध्वजिनीरुद्धपार्श्वस्य मथनस्य शरावलेः ।
विघसोऽजनि यः पूर्व कवलीक्रियतेऽधुना ॥ ३५ ॥ इति दर्पदुर्ललितवचनविलसितमाकये कोपारुणीकृतभालो नयविशालो गम्भीरमिमां गिरमुज्जगार।
पुलिन्दवृन्देन गवां कुले हते बलेन साकं मथने पलायिते ।
पिधाय वेगेन कवाटमन्ततो धृतो वधूभिस्तनुकम्पमत्यजः ॥ ३६॥ एवंविधपराक्रमण्डितभुजदण्डमण्डितस्य न युक्तमेव कौरवेण सन्धानम् ।
किं धर्मदत्तेन हि षण्डवृत्त्या प्रचण्डवृत्त्या भवतापि किं वा।
कुरुप्रवीरस्य कराग्रनुन्नं राज्यश्रियं चक्रमलं प्रदातुम् ।। ३७ ॥ इति निगद्य जवान्निर्गत्य यथावृत्तं कुरुवीरं विज्ञापयति नयविशाले विशालतरसमीकसंनाहः
किञ्च-किञ्चान्यत् किमपि ।
आ जन्मत इति-यद्भालसीमनि यल्ललाटावधौ, आ जन्मतो जन्मन आरभ्य, भुवनाधिपत्यं लोकसाम्राज्यम्, न लिखितं नाङ्कितम्, परन्तु किन्तु, वणिविक्रयेव सार्थवाहकृतिरेव, लिखिता विहिता, अधमेन नीचेन, तेन पूर्वोक्तेन, वणिजो वैश्यस्य, तनयेन पुत्रेण, नरपालमणीशिनां नरपालमणिषु श्रेष्ठराजेषु ईशन्ते ऐश्वर्ययुक्ता भवन्तीत्येवं शीलास्तेषाम्, नोऽस्माकम्, अद्य साम्प्रतम्, कि वा सन्धान सन्धिकरणम्, सर्वथाऽशक्यं तदिति भावः ॥ ३४ ॥
ध्वजिनीरुद्धेति-यो वणिक्तनयः, पूर्व प्राक् , ध्वजिन्या पृतनया रुद्धं परीतं पार्श्व समीपप्रदेशो यस्य तस्य, मथनस्य काष्टाङ्गारश्यालस्य, शरावलेाणसमूहस्य, विघसो भुक्तावशिष्टः, अजनि बभूव, स इति शेषः, अधुना साम्प्रतम्, कवलीक्रियते ग्रस्यते ॥ ३५ ॥
इति दति-इतीत्थम्, दर्पण गण दुर्ललितानि विसंष्ठुलानि यानि वचनानि वांसि तेषां विलसितं विलासम्, आकर्ण्य निशम्य, कोपेन रुषारुणीकृतो लोहितीकृतो भालो निटिलो यस्य तथाभूतः, नयविशाल एतन्नाम जीवन्धरदूतः, गम्भीरं यथा स्यात्तथा, इमां वच्यमाणाम्, गिरं वाणीम्, उज्जगार प्रकटयामास ।
पुलिन्दवृन्देनेति-पुलिन्दवृन्देन शबरसमूहेन, गवां सौरभेयीणाम्, कुले समूहे, हृते मुषिते, बलेन सैन्येन, साकं सार्धम्, मथने भवच्छयाले, पलायिते दर्शितपृष्ठे, सति, अन्ततोऽन्ते, वेगेन रयेण, कवाटमररम्, पिधाय मेलयि वा, वधूभिललनाभिः, तो दत्तालम्बनः कृताश्वासश्च सन् , तनुकम्पं शरीरवेपथुम्, अत्यजस्त्यक्तवान् , एवं नु भो महाशूरस्त्वमिति सोत्प्रासवाक्यम् ॥ ३६॥ • एवंविधेति-एवंविधपराक्रमेण पूर्वोक्तप्रकारविक्रमेण मण्डितौ शोभितौ यौ भुजदण्डौ बाहुदण्डौ ताभ्यां मण्डितस्य शोभितस्य, तव, कौरवेण जीवकेन, सह सन्धानं सन्धिकरणं मेलनमिति यावत् , न युक्तमेव नोचितमेव, सुष्ठुक्तं त्वयेति भावः ।।
किं धर्मदत्तेनेति-पण्डवृत्त्या दीनवृत्त्या, उपलक्षितेन, धर्मदत्तेन तन्नामवृद्धामात्येन, हि निश्चये, किं किं प्रयोजनम्, प्रचण्डवृत्त्या तीक्ष्णव्यवहारेण, उपलक्षितेन, भवतापि त्वयापि, वा किं किं प्रयोजनम्, न किमपीति यावत्, कुरुप्रवीरस्य जीवन्धरस्य, कराग्रनुन्नं हस्ताग्रप्रेरितम्, चक्रं शस्त्रविशेषः, राज्यश्रियं राज्यलक्ष्मीम्, प्रदातु समर्पयितुम्; अलं पर्याप्तं समर्थमिति यावत् ॥ ३७॥
इति निगद्येति-इत्येवम्, निगद्य नितरां कथयित्वा, जवाद्वेगात् , निर्गत्य निष्क्रम्य, यथावृत्तं यथाभूतम्, कुरुवीरं जीवन्धरम्, विज्ञापयति निवेदयति, नयविशाले तदभिधानदूते, विशालतरो विपुलतरः