________________
१८२
जोवन्धरचम्पूकाव्ये
व्याधान्दुःसाधबाधान्गजतुरगमुखैर्मदुलैः सम्प्रवृत्तै___ हेलामात्रेण जित्वा निखिलपशुगणं मोचयामास यः प्राक् । वीणाशुल्के च दृप्यन्नरपतिनिचयं धावयामास संख्ये ।
सोऽयं नैकोऽपि जय्यः किमुत खगनराधीश्वरैः संगतश्चेत् ॥ ३१ ॥ अत इदमनिदं प्रथमप्रवृत्तं तदीयराजपदं तद्भुजे समर्प्य यथापुरं सचिवपदमधिष्ठातुमर्हति देव इति ।
एवं मन्त्रिगिरं निशम्य समयं तूष्णीं स्थितः सोऽवदत्
कर्णे लग्नमुखेन तत्र मथनेनादीपितक्रोधनः । रे रे केन ससाध्वसं बहुतरं पृष्टोऽसि वक्तुं पुरो
___भीरुस्त्वं यदि तिष्ठ वेश्मनि मुधा क्लीबोऽसि किं भाषितैः ॥ ३२ ।। माद्यद्दन्तिघटापटुस्फुटनटद्घोटप्रहृष्यद्भटा
टोपाच्छादितदिक्तटे रणतले खड्गोल्लसद्धारया । आहृत्य श्रियमावोद्यतरिपुक्षोणीभृतामुज्ज्वलां
कीर्त्या कोमलया दिशो धवलयाम्युत्फुल्लकुन्दश्रिया ॥ ३३ ॥
चासौ प्रसिद्धश्चासौ वीरश्चेति सुभटश्चेति सकलजगतीतलविख्यातवीरः, जीवन्धरकुमारः सात्यन्धरिः; क्रुद्धो रुष्टः सन् , युद्धाय समराय, बद्धादरो बद्धसन्मानस्तत्पर इति यावत्, वर्तते विद्यते । ___व्याधानिति-यो जीवन्धरः, प्राक् पूर्वम्, गजतुरगमुखैहस्तिहयप्रधानैः, सम्प्रवृत्तैः सञ्चलितः, मबलैरस्मत्सैन्यः, दुःसाधबाधान् विकटान् , व्याधान् शबरान् , हेलामात्रेण लीलामात्रेण, जित्वा पराभूय, निखिलपशुगणं सकलपशुसमूहम्, मोचयामास मोचयति स्म, वीणाशुल्के च गन्धर्वदत्तापरिणयोलायां वीणावादनशुल्के च, दृप्यन्तोऽहङ्कुर्वन्तो ये नरपतयो राजानस्तेषां निचयः समूहस्तम्, संख्ये समरे, धावयामास विद्रावयामास, सोऽयं जीवन्धरः, एकोऽप्येकाक्यपि, न जय्यो न जेतुं शक्यः, चेद्यदि, खगनराधीश्वरैः विद्याधरधरावल्लभैः, संगतः सहितः, तर्हि, किमुत किम्पुनर्वक्तव्यम् ? स्रग्धराच्छन्दः ॥ ३१ ॥
अत इदमिति-अतोऽस्मात्कारणात् , अनिदं, प्रथमप्रवृत्तं प्राक्प्रवृत्तम्, इदमेतत् , तदीयराजपदं तत्सम्बन्धिराज्यभारः, तद्भुजे तबाही, समयं निक्षिप्य, यथापुरं पूर्ववत् , सचिवपदममान्यस्थानम् , अधिष्ठातुमधिवसितुम्, देवो भवान् , अर्हति योग्योऽस्ति, इति धर्मदत्तामात्यः काष्ठागारं जगादेति सम्बन्धः ।
एवं मन्त्रिगिरमिति एवमित्थम्, मन्त्रिगिरं सचिवभारतीम्, निशम्य श्रुत्वा, समयं क्षणं यावत्, तूष्णों निर्वचनम्, स्थितो विद्यमानः, तत्र स्थाने, कर्णे श्रव सि, लग्नमुखेन संयोजितवदनेन, मथनेन तच्छ्यालेन, आदीपितं प्रज्वलितं क्रोधनं क्रोधो यस्य तथाभूतः सन् , अवदत् जगाद, रे रे वृद्धापसद, ससाध्वसं सभयम्, बहुतरं प्रभूतम्, पुरोऽग्रे, वक्तुं निगदितुम्, केन पृष्टोऽसि पृच्छाविषयीकृतोऽसि, त्वं यदि भीरुः कातरस्तर्हि, वेश्मनि भवने, तिष्ठ स्थितो भव, क्लीबोऽसि नपुंसकोऽसि, मुधा व्यर्थम्, भापितैः कथनैः, किं किंप्रयोजनं न किमपीति यावत् ॥३२॥
माद्यद्दन्तिघटेति-माद्यतां दन्तिनां घटा इति माद्यद्दन्तिघटा गन्धगजगणाः, पटुस्फुटं चातुर्यप्रकाशं यथा स्यात्तथा नटन्तो नृत्यन्तो ये घोटा हया इति पटुस्फुटनटद्घोटाः, प्रहृष्यन्तश्च ते भटाश्चेति प्रहृष्यद्भटाः प्रमोदमानशूराः; माद्यद्दन्तिवटाश्च पटुस्फुटनटद्घोटाश्च प्रहृष्यगटाश्चेति माद्यद्दन्तिघटापटुस्फुटनटद्घोटप्रहृष्यद्भटाः तेषामाटोपेन विस्तारणाच्छादितानि पिहितानि दिक्तटानि काष्ठान्तभागा यस्मिंस्तस्मिन्, रणतले समराङ्गणे, खड्गस्य कृपाणस्योल्लसन्ती शोभमाना या धारा तीक्ष्णाग्रभागस्तया, आहवे समर उद्यता तत्परा इन्याहवोद्यता स्ते च ते रिपुक्षोणीभृतश्च शत्रुराजाश्चेति तेषाम्, उज्ज्वलां निर्मलाम्, श्रियं लक्ष्मीम्, आहृत्य समाच्छिद्य, कोमलया मृदुलया, उत्फुल्लानां विकसितानां कुन्दानां माध्यानां श्रीरिव श्रीर्यस्यास्तया, कीर्त्या यशसा, दिशः काष्ठाः, धवलयामि धवला: करोमि ॥३३॥