________________
दशमो लम्भः रसातले वा वसुधातले वा महीधरे वा विपिनान्तरे वा। . तिरोहितश्चेदपि हन्यतेऽसौ ततः समागच्छत वाहिनीभिः ॥ २८ ।। संदेशमेवं कुरुकुञ्जरस्य सामन्तभूपाः शिरसा दधानाः ।।
सत्यन्धरे भक्तिवशेन नुन्नाः सेनासमेता मिलिता बभूवुः ॥ २६ ॥ तावन्नयविशालो नाम कुरुवीरदूतः, सचिववृद्धस्य नयपारगस्य धर्मदत्तस्य निकेतने प्रविश्य, तेन विदितोदन्तेन सन्धानाय नरेन्द्रमन्दिरं नीयमानः, तत्र परिमितैनरपालैः परिवृतम् , अनतिदूरावस्थितेन सविनयमवनमितपूर्वकायेन मथनेन सविस्रम्भमालपन्तम् , क्रोधकृशानुविस्फुरनिश्वासधूमविवर्णमुक्ताहारं काष्ठाङ्गारमुपजगाम । तत्र धर्मदत्त एवं जगाद ।
जानाति देवः सकलं तथापि श्रोतव्यवाचः सचिवा नृपेण ।
नाकाधिराजोऽपि निरीक्ष्यकृत्यो बृहस्पतेर्वाग्विसरं शृणोति ॥ ३० ॥ इदानीमुदारसत्त्वैर्गरुडवेगगोविन्दपल्लववल्लभप्रभृतिभिः खेचरतदितरमहीपालनन्दाढ्य प्रमुखैर्महावीरैः सहचरैश्च परिवृतः कल्पान्तजलधिरिव निरर्गलप्रसरः सकलजगतीतलविख्यातवीरो जीवन्धरकुमारः क्रुद्धो युद्धाय बद्धादरो वर्तते ।
उच्छेद्यो विनाशनीयः, अस्तीति शेषः, तथा तेन प्रकारेण, शत्रुन्वादिपुत्वात् , राजघत्वात् नृपतिघातकत्वात् , कृतघ्नत्वाच्चाकृतज्ञत्वाच्च, दुराशयो दुष्टाभिप्रायः, सः, भवतामपि युष्माकमपि, उच्छेद्योऽस्तीति सम्बन्धी योजनीयः ॥२७॥
__रसातले वेति-असौ काष्टाङ्गारः, रसातले वा पाताले वा, वसुधातले वा भृतले वा, महं धरे वा पर्वते वा, विपिनान्तरे वा वनमध्ये वा तिरोहितोऽन्तर्हितः, चेदपि यद्यपि, भवेदिति शेषः, तथापि, हन्यते मार्यते, ततः कारणात् , यूयं, वाहिनीभिः पृतनाभिः, सह, समागच्छत समायात ॥२८॥
सन्देशमेवमिति-एवं पूर्वोक्तप्रकारम्, कुत्कुञ्जरस्य जीवन्धरस्य, सन्देशं वाचिकम, शिरसा मूर्ना, दधाना धरन्तः, सामन्तभूपा मण्डलेश्वराः, सत्यन्धरे जीवन्धरजनके, भक्तिवशेन प्रीत्यतिशयेन, नुन्नाः प्रेरिताः, सन्तः, सेनासमेताः पृतनायुताः, मिलिताः संगताः, बभूवुरासन् ॥२६॥
तावन्नयविशालो नामेति तावत्-यावत् सामन्तभूपाः समागतास्तावत् , नयविशाल एत न्नामधेयः कुरुवीरदूतो जीवन्धरसंदेशहरः, सचिवेषु मन्त्रिषु वृद्धो ज्येष्ठस्तस्य, नयस्य पारं गच्छतीति नयपारगस्तस्य महानीतिज्ञस्य, धर्मदत्तस्य तन्नामामात्यस्य, निकतने भवने, प्रविश्य प्रवेशं कृत्वा, विदितोदन्तेन विज्ञातसमाचारेण, तेन धर्मदत्तेन, सन्धानाय सन्धि कर्तुम्, नरेन्द्रमन्दिरं काष्ठाङ्गारनिकेतनम्, नीयमानः सन् , याप्यमानः सन् , तत्र नरेन्द्रमन्दिरे, परिमितैः कतिपयैः, नरपाले राजभिः, परिवृतं परीतम्, अनतिदूरावस्थितेन निकटस्थितेन, सविनयं विनयोपेतं यथा स्यात्तथा, अवनमितो नीचैः कृतः पूर्वकायः पूर्वशरीरभागो यस्य तेन, मथनेन तन्नामस्वश्यालेन सविस्रम्भं सप्रत्ययं यथा स्यात्तथा, आलपन्तं भाषमा म्, क्रोधकृशानोः कोपवैश्वानरस्य विस्फुरनिगच्छन्यो निःश्वास एवं धूमस्तेन विवर्णो मलिनो मुक्ताहारो मौक्तिक दाम यस्य तम्, काष्ठागारं कृतघ्नशिरोमणिम्, उपजगाम समुपयाति स्म । तत्र धर्मदत्तः सचिववृद्धः, एवमनेन प्रकारेण, जगाद प्रोवाच ।
जानातीति-यद्यपि देवो भवान् , सकलं कृत्स्नम्, जानाति बुध्यते, तथापि, नृपेण राज्ञा, सचिवा मन्त्रिणः, श्रोतव्या आकर्णीया वाक् येषां तथाभूताः, सन्ति, निरीचयं कृत्यं कार्य यस्य तथाभूतः, नाकाधिराजोऽपि पुरन्दरोऽपि, बृहस्पतेर्वाचस्पतेः, वाग्विसरं वचनसमूहम्, शृणोति समाकर्णयति ॥ ३० ॥
इदानीमिति–इदानीं साम्प्रतम्, उदारसत्त्वैरुत्कृष्टपराक्रमः, गरुडवेगश्च गोविन्दश्च पल्लववल्लभश्चेति गरुडवेगगोविन्दपल्लववल्लभास्ते प्रभृति येषां तैः, खेचरतदितरमहीपाल विद्याधरतदितरभूपतिभिः, नन्दाढ्यप्रमुखनन्दाठ्यप्रधानः, महावीरैर्महासुभटः, सहचरैश्च वयस्यैश्व, परिवृतः परिवेष्टितः, कल्पान्तजलधिरिव प्रलयपाथोनिधिरिव, निरर्गलः स्वच्छन्दः प्रसरो यस्य तथाभूतः, सकलजगातले निखिलभूमितले विख्यात