________________
दशमो लम्भः
१८५ सुरविमानसकाशैश्चक्रतुण्णक्षोणीतलैर्मनोरथैरिवामितरथैः परिपूर्णाः, श्वेलारववधिरीकृतलोकैर्विविधायुधविचित्रैविधृततनुत्रैः पदातिभिः परिवृताः, उभयेऽपि सैनिकाः, क्रमेणाजिरङ्गणमगाह्न्त । तत्र च,
अभ्रंलिहानां पटमन्दिगणां पङ्क्तिर्वभौ शारदमेघशुभ्रा ।
विचित्रयुद्धस्य विलोकनाय ममागता गजपुरीव साक्षात् ॥ ३६ ।। तदनु विनिर्मितविशालविशिखासह विराजमानम् , मदमेदुरसिन्धुरघटान्धकारितदिङ्मुखतया जलधरदिवसायमानम् , अभ्रङ्कपैरपहसितरजताचलशोभैरमलसुधावदातैमन्थानगिरि मध्यमानदुग्धसिन्धुगर्भाविलुठत्तरङ्गायमानानिलडोलायितसितध्वजतया उपरिपरिपतदभ्रगङ्गाप्रवाहरिव तुपारगिरिशिखरैः पटमन्दिरैविभ्राजितम, नीलकवचावगुण्ठितदेहै: सितोप्णीपरत्युन्नतवेत्रासनोपरिविष्टैर्धर्ममयैरिव धर्माधिकारिभिर्महापुरुपैस्तन्तन्यमानसेनासंविभागसंविधानम , स्फुरितनिशितकरघृतकरवालप्रतिविम्बप्ररोहकरालितातपेनोर्ध्वावरुद्धमौलिकलापेन धवलचन्दनलिमभुजदण्डेन सेवकजनेनाध्यासितद्वारदेशम्, विविधवस्तुविचित्रितैः पण्याहरणसंमर्दनपरक्रयिकविक्रयिकलोकैर्महाविपणिपथैरुपशोभितम , यौवनमदमत्नतरुणजनानुसार्यमाणतरुणीजननिरन्तरवेशवाटम् , विविधायुधसंस्कारपरजनवंभ्राम्यमाणशाणचक्रप्रभृतिसंस्कारसाधनसंञ्छादितं तद्रङ्गस्थलमशोभत । विराजिताः, सुरविमानसकाशैर्देवयानसन्निभैः, चक्रे रथाङ्गः क्षुण्णं विदीर्ण क्षोणीतलं भूतलं यैस्तैः, मनोरथैरभिलषितैरिव, अमितरथैरसंख्यस्यन्दनैः, परिपूर्णा युक्ताः, च्वेलारवेण सिंहनादेन बधिरीकृताः श्रवणशक्तिरहितीकृता लोका जना येस्तैः, विविधानि विविधप्रकाराणि यान्यायुधानि शस्त्राणि तैर्विचित्रैविस्मयकारिभिः, विततनुभृतकवचैः, पदातिभिः पत्तिभिः, परिवृताः परीताः, उभयेऽपि पक्षद्वयसम्बन्धिनः, सैनिका योद्धारः, क्रमेण क्रमशः, आजिरङ्गणं समरचन्वरम्, अगाहन्त प्रविविशुः । तत्र च तस्मिन्नजिराङ्गणे च ।
अभ्रंलिहानामिति-अभ्रंलिहानां गगनचुम्बिनाम्, पटमन्दिराणां पटभवनानाम्, शारदमेघशुभ्रा शारदजलधरधवला, पङ्क्तिस्ततिः, विचित्रयुद्धस्य विलक्षणसाम्परायस्य, विलोकनाय दर्शनाय, समागता सम्प्राप्ता, साक्षात्, राजपुरीव हेमाङ्गदराजधानीव, बभौ शुशुभे ॥ ३६॥
तदन्विति-तदनु तदनन्तरम्, तद्रङ्गस्थलं तत्समरक्षेत्रम्, अशोभत व्यराजत, कथंभूतं तदिति तदेव विशेषयितुमाह-विनिर्मिता रचिता या विशालविशिखा विस्तीर्णरथ्यास्तासां सहस्रर्दशशतैर्विराजमानं शोभमानम्, मदमेदुरा दानमिलिता या सिन्धुरघटा गजपङ्क्तिस्तयान्धकारितं तिमिरितं दिङ्मुखं काष्टान्तो यस्मिस्तस्य भावस्तत्ता तया, जलधर दिवसायमानं प्रावृड्वदाचरत् , अभ्रंकषर्मेघस्पशिभिः अपहसिता पराभूता रजताचलशोभा विजयाईश्रीयस्तः, अमलसुधावदातनिर्मलचूर्णोज्ज्वलः, मन्थानगिरिर्मन्दरपर्वतस्तेन मध्यमानो विलोड्यमानो यो दुग्धसिन्धुः क्षीरार्णवस्तस्य गर्ने मध्ये विलुठन्तः सञ्चलन्तो ये तरङ्गा कल्लोलास्तद्वदाचरन्ति, अनलडोलायितानि पवनप्रकम्पितानि सितध्वजानि शुक्लपताका यस्मिंस्तस्य भावस्तत्ता तया, उपरि परिपतन्तः स्खलन्तोऽभ्रगङ्गाप्रवाहा मन्दाकिनीस्त्रोतांसि येषां तैः, तुषारगिरिशिखरैहिमालयशृङ्गरिव, पटमन्दिरैर्वस्त्रनिकेतनैः, विभ्राजितम्, नीलकवचैः श्यामतनुत्रैरवगुण्ठितः संवृतो देहो येषां तैः, सितोष्णीषेर्धवलशिरोवेष्टनैः, अन्युन्नतानि तुङ्गतमानि यानि वेवासनानि वेत्रविष्टराणि तेषामुपरिविष्टेरुपरिस्थितैः, धर्ममयैरिव धर्मनिर्मितैरिव, धर्माधिकारिभिर्धर्माधिकारयुक्तः, महापुरुषमहाजनैः, तंतन्यमानं विस्तार्यमाणं सेनासंविभागस्य पृतनाविभागस्य संविधानं करणं यस्मिंस्तत्, स्फुरितः सञ्चलितो निशितस्तीक्ष्णो यः करतो हस्तावलम्बितः करवालः कृपाणस्तस्मिन् प्रतिविम्ब प्रतिफलनं तस्य प्ररोहैः किरणाङ्करैः करालितो व्याप्तः आतपो धर्मो येन तथाभूतेन, ऊर्ध्वमुपरि अवरुद्ध आवृतो मौलिकलापो मुकुटसमूहो येन तेन, धवलचन्दनेन शुक्लमलयजेन लिप्तो दिग्धो भुजदण्डो बाहुदण्डो यस्य तेन, सेवकजनेन सेवकसमहेन अध्यासितोऽधिष्ठितो द्वारदेशो यस्य तत् , विविधवस्तुभिनेकविधपदार्थ विचित्रितानि शबलानि तेः, महाविपणिपथैविस्तीर्णहाटकख्याभिः, उपशोभितं समलङ्कृतम्, यौवनपदेन तारुण्यातिरेकेण मत्ता मदयुक्ता ये तरुणजना युवजनास्तैरनुसार्यमाणोऽनुगम्यमानो यस्तरुणीजनो युवतिसमूहस्तेन निरन्तरः समाकीर्णो