SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये शुभे लग्ने धीरस्तदनु विचचाल क्षितिपती रथारूढो जीवन्धरमुखकुमारैः परिवृतः । विदूरे सैन्येशाः प्रणतशिरसस्तं परिगताः पुरस्तात्तत्सैन्यं मुकुलितधराभोगमगमत् ॥ १० ॥ तदा भेरीघोषैर्हयनिचयहेषापटुरवै । . रथानां चीत्कारैर्मदगजघटाबृंहितभरैः । जगत्सर्वं तूर्ण स्थगितमभवद्भास्कररथो "रथैरीावेशादिव स पिहितो रेणुनिकरैः ॥११॥ तदानीं धवलातपत्रडिण्डीरविचित्रा रङ्गन्तुरङ्गमतरङ्गसंगता मत्तद्विपपृथुयादःकुलकलिता विलोलासिलतामत्स्यव्रातपरिवृता तद्वाहिनी वाहिनीव प्रजवं निर्जगाम । चलति निखिले सैन्ये यद्रेणपुञ्जमजम्भत प्रसृतममितं व्योम्नि स्फारेभयूथमदाम्बुभिः । तदिदमगमच्छान्ति शुण्डोद्गतैर्जलशीकरै हेयमुखगलल्लालामालाजालैश्च समन्ततः ।। १२ ।। तदनु दुरासदमदाकुलतया ईपदामीलितलोचनैर्दण्डकोटिनिषण्णशुण्डादण्डैरुभयपाांव शुभे लग्न इति-तदनु तदनन्तरन्, धीरो गभीरः, रथारूढः स्यन्दनस्थितः, जीवन्धरमुखकुमारैजर्जीवकप्रमुखकुमारैः, परिवृतः पर्यागतः, क्षितिपती राजा, शुभे उत्तमे, लग्ने समये, विचचाल चलति स्म, प्रणता शिरसो विनतमूर्धानः, सैन्येशाः सेनापतयः, विदूरे किञ्चिद्रे, तं नृपम्, परिगताः परीत्य जग्मुः, पुरस्ताद, तत्सैन्यं तद्वलम्, मुकुलितः संकोचितो धराभोगो वसुन्धराविस्तारो येन तथाभूतं सत्, अगमत् जगाम । शिखरिणीच्छन्दः ॥१०॥ तदा भेरीघोषैरिति तदा गोविन्दभूपालसंप्रयाणकाले, हयनिचयस्य वाजिवृन्दस्य हेपापटुरवैहेषणोच्चशब्दैः, रथानां शताङ्गानाम्, चीत्कारैरव्यक्तशब्दविशेषैः, मदेनोपलक्षिता गजघटेति मदगजघटा मदोन्मत्तहस्तिपङ्क्तिस्तस्या हितभरा गर्जितसमूहास्तैः, सर्व निखिलम्, जगद्भुवनम्, तूर्णं शीघ्रम्, स्थगितं समाच्छादितम्, अभवद् बभूव, स प्रसिद्धः, भास्कररथः सूर्यस्यन्दनम्, ईष्यावेशादिव मात्सर्यावेशादिव, रथैः स्यन्दनः, रेणुनिकरैयूं लिसमूहैः, पिहितः समाच्छादितः । उत्प्रेक्षा । शिखरिणीवृत्तम् ॥११॥ __ तदानीमिति-तदानीं तस्मिन् काले, धवलातपत्राण्येव श्वेतच्छत्राण्येव डिण्डीराः फेनास्तैविचित्रा विलक्षणा, रङ्गन्तुरङ्गमा एव चलदश्वा एव तरङ्गा भङ्गास्तैः संगता सहिता, मत्तद्विपा एव मत्तगजा एव पृथुयादांसि स्थूलजलजन्तवस्तेषां कुलेन समूहेन कलिता युक्ता, विलोलासिलता एव चञ्चलकृपाणवल्लयं एव मत्स्यव्राता मकरसमूहास्तैः परिवृता परीता, तद्वाहिनी तत्पृतना, वाहिनीव सरिदिव, प्रजवं प्रकृष्टवेगसहितं यथा स्यातथा, निर्जगाम निश्चक्राम। चलति निखिल इति-निखिले समग्रे, सैन्येऽनीके, चलति गच्छति, सति, व्योम्नि नभसि, स्फाराणि प्रचुराणिं यानीभयूथस्य हस्तिसमूहस्य मदाम्बूनि दानवारीणि तैः, प्रसृतं व्याप्तम्, अमितं परिमाणातीतम्, यद् रेणुपुझं धूलिसमूहः, अजृम्भत वर्धते स्म, तदिदं रेणुपुज्जम्, शुण्डोद्गतैर्गजकरसमुच्छलितैः, जलशीकरैर्वारिकणैः, हयमुखेभ्यो वाजिवदनेभ्यो गलन्त्यो निःसरन्त्यो या लालामाला लालासमूहास्तासां जलैश्च नीरैश्च, समन्ततः परितः, शान्ति समाप्तिम्, अगमत्प्रापत् । हरिणीच्छन्दः ॥ १२ ॥ तदन्विति तदनु तदनन्तरम्, दुरासदो दुष्प्राप्यो यो मदो दानं तेनाकुला व्यग्रास्तेषां भावस्तत्ता तया, ईषद् मनाग आमीलितानि मुद्रितानि लोचनानि नयनानि येषां तैः, दन्तकोट्यां रदनाग्रभागे निषण्णाः स्थापिताः शुण्डादण्डाः करदण्डा येषां तैः, उभयपाविलम्बितौ पार्श्वद्वयत्रंसमानौ वर्णकम्बलौ रक्तकुथपटौ
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy