________________
१७३
दशमो लम्भः अघेन मयि विस्तृतां मिलढकीर्तिमेतां भवान्
प्रभाकर इवाम्बुजाकरवरे हिमानी तताम् । विनाशयितुमर्हति क्षितिपते दयावारिधे
ततःपुरमुपागतो मम च मित्रतां लालय ।। ७ ।। इति शात्रवसन्देशमाकर्ण्य कन्दलितमन्दहासा गोविन्दमहीपति वन्धरवदनारविन्दनर्तितनयनखञ्जनी वभूव ।
नृप मातुल निःशद मद्भुजोष्मा निरङ्कुशः।
___ इमं न सहते शत्रु तत्कालस्तु प्रतीक्ष्यते ।। ८ ।। इति कुरुवीरवचनचातुरीनिशमनधीरधीरमना धरापतिश्चतुरङ्गवलेन राजपुरीं प्रति गमनं तत्र निजनन्दिनीस्वयंवरततनं' नानादेशनरपतिसंमेलनमरातिनिधनं च निश्चित्य काष्ठाङ्गारेण संजातसख्यं प्रख्यापयन्डिण्डिमं सन्ताडयामास ।
चलन्तमिव सागरं निजवलं नराणां पति
विलोक्य स समादिशन्निखिलतः प्रयाणोद्यमम् । चकार च जिनेशिनः पदपयोजपूजां मुदा
वहूनि कुतुकान्वितः सपदि पात्रदानानि च ।। ६ ।।
अधेन मयीति-हे दयावारिधे हे कृपावार, हे क्षितिपते हे राजन् , भवान् , अम्बुजाकरवरे कमलाकरश्रेष्टे, ततां व्याप्ताम्, हिमानीं हिमसमूहम्, प्रभाकर इव सूर्य इव, अधेन पापेन, मयि काष्टाङ्गारे, विस्तृतां वितताम्, एतां मयानुभूयमानाम्, मिलदकीर्ति प्राप्यमाणदुर्यशः, विनाशयितुं दूरीकर्तुम्, अर्हति योग्योऽस्ति, यतः, ततस्तस्मात्कारणात्, पुरं राजपुरनगरम्, उपागतः प्राप्तः सन् , मम मित्रतां च सौहार्दञ्च, लालय पालय । मैत्री रक्षितुं मन्नगरीमागत्य तदपवादो दूरीक्रियतामिति भावः । पृथ्वीच्छन्दः ॥७॥
इति शात्रवसंदेशमाकर्येति-इतान्थम्, शत्रुरेव शात्रवस्तस्य सन्देशस्तम्, अथवा शत्रोरयं शात्रवः स चासौ सन्देशश्चेति तं शात्रवसन्देशं रिपुवाचिकम्, आकर्ण्य निशम्य, कन्दलितो तो मन्दहासो मन्दहसितं येन सः, गोविन्दमहीपतिः, जीवन्धरस्य वदनारविन्दे लपनपने नर्तितौ संचारितो नयनखञ्जनौ नेत्रखञ्जरीटौ यस्य तथाभूतो बभूव ।
नृप मातुलेति-हे नृप हे राजन्, हे मातुल हे मातृभ्रातः, निरङ्कुशो निष्प्रतिबन्धः, मद्भुजोष्मा मद्वाहनिदाघता, इममेतम्, शत्रु सपन्नम्, न सहते न तितिक्षति, तु किन्तु, तत्कालस्तस्य मृ समयो वा, प्रतीच्यतेऽपेच्यते ॥ ८॥
इति कुरुवीरवचनेति-इत्येवम्, कुरुवीरस्य जीवन्धरस्य वचनचातुर्या वाग्दक्षताया निशमने समाकर्णने धीर्बुद्धिर्यस्य तथाभूतः, अधीरं क्षुभितं मनो हृदयं यस्य तथाभूतः, धरापति? विन्दभूपालः, चतुरङ्गबलेन चतुरङ्गसैन्येन, राजपुरीं प्रति हेमानन्दजनपदराजधानी प्रति, गमनं प्रयाणम्, तत्र राजपुर्याम्, निजनन्दिन्याः स्वसुतायाः स्वयंवरततनं स्वयंवरविस्तारम्, नानादेशनरपतीनां नैकजनपदराजानां संमेलनं समुपस्थापनम्, अरातिनिधनं काष्ठाङ्गारहतिश्च, निश्चित्य समवधार्य, काष्टाङ्गारेण सह, संजातसख्यं समुत्पन्नसौहार्दम्, प्रख्यापयन् प्रथयन् , डिण्डिम भेरीम्, सन्ताडयामास समन्तात्ताडयति स्म ।
चलन्तमिव सागरमिति-निखिलतः समन्ततः, चलन्तं क्षुभ्यन्तम्, सागरमिव समुद्रमिव, निजबलं स्वसैन्यम्, विलोक्य दृष्ट्वा, प्रयाणोद्यमं प्रस्थानोपक्रमम्, समादिशन् समाज्ञापयन् , नराणां पतिगोविन्दनरेन्द्रः, मुदा हर्पण, जिनेशिनो जिनेन्द्रदेवस्य, पदपयोजयोश्चरणाकमलयोः पूजा सपर्या ताम्, कुनुकान्वितः कौतुककलितः सन् , सपदि झटिति, बहूनि भृयासि, पात्रदानानि च योग्यमनुजेभ्यो विहापितानि च, चकार विदधे । पृथ्वीच्छन्दः ॥६॥
१ तननं ब०।