________________
१७२
जीवन्धरचम्पूकाव्ये
गोविन्द भूपतिरिमं कुरुवंश केतु
मालिङ्गय मोदविवशः स्फुटरोमहर्षः । आपृच्छच सौख्यमखिलांश्च यथोचितं तान् संमान्य साधु विदधे विविधोपचारान् ॥ ५ ॥
अथ सचिवकुलेन जीवन्धरेण च सहितो गोविन्द्महीपतिः कुरुवीरं पञ्चाननचञ्चदासने काठाङ्गारं च मृत्युवदने कदनेन निधत्सुर्मन्त्रशालामधिष्ठितो मितजनपरिवृतोऽपि रत्नभित्तिसंक्रान्तप्रतिमाभिरनेकपुरुषपरिवृत इव शोशुभ्यमानः संमन्त्रयितुमारेभे ।
ततो विदितमेदिनीकमनभावकूलङ्कषा
नयाम्बुनिधिपारगा जगदुरञ्जसा मन्त्रिणः ।
मह स हि वञ्चनाकलितचित्तवृत्ती रिपुः
प्रतारयितुमद्य नो विनयपत्रिकां प्राहिणोत् ॥ ६॥
कदाचिन्मत्तदन्तावलः पाटितालानो निर्मूलित निगलः संतुभितकटकः सकलभटघटादुरासदः सत्यन्धरवसुन्धरापतिमन्दिरोपकण्ठसञ्चारः, कोपान्निर्गतं तमेनमस्मत्प्राणायमानं निहत्य, निखिल - पौरलोकं शोकपारावारे मामकीर्तिपूरे च निमज्जयामास ।
या नीलोत्पलमाला कुवलयपङ्क्तिस्ताम्, आदधाना धृतवन्तः, ते पूर्वोक्ताः, जीवन्धरपुरःसरा जीवकप्रमुखाः, कुमाराः क्रमेण क्रमशः, राजमन्दिरं नृपेन्द्र निकेतनम्, आविविशुः प्रविशन्ति स्म । तत्र च राजभवने । गोविन्दभूपतिरिति-गोविन्द महाराजः, इमं पूर्वोक्तम्, कुरुवंशकेतुं जीवन्धरम्, आलिङ्गय समाश्लिक्ष्य, मोदविवश हर्षपरवशः, स्फुटरोमहर्षः प्रकटितरोमाञ्चः सन् सौख्यं कुशलम्, आपृच्छ्च समन्तात् पृष्ट्वा, अखिलान् समग्रान्, तान् कुमारान्, यथोचितं यथायोग्यं यथा स्यात्तथा, संमान्य सत्कृत्य, साधु सुष्ठु यथा स्यात्तथा, विविधोपचारान् नैक विधसत्कारान्, विदधे चक्रे ॥५॥
अथ सचिवकुलेनेति - अथोपचारानन्तरम्, सचिवकुलेन मन्त्रिसमूहेन, जीवन्धरेण स्वकीयभागिनेयेन च सहितो युक्तः, गोविन्द महीपतिर्विदेहधरावल्लभः कुरुवीरं जीवन्धरम्, पञ्चाननैः सिंहैश्चञ्चच्छोभमानं यदासनं विष्टरं तस्मिन् काष्ठाङ्गारञ्च सत्यन्धरनृपतिघातकञ्च, मृत्युवदने यमवक्त्रे, समरेण, निधातुमिच्छुनिधित्सुः, मन्त्रशालां मन्त्रागारम् अधिष्टितस्तत्र स्थितः सन् मितजनैरल्पनः परिवृतोऽपि परीनोऽपि रत्नभित्तिषु मणिकुड्येषु संक्रान्ताः प्रतिफलिता याः प्रतिमाः प्रतिकृतयस्ताभिः, अनेक पुरुषपरिवृतनानाजनपरीत इव, शोशुभ्यमानोऽतिशयेन भ्राजमानः सन् संमन्त्रयितुं गुप्तमन्त्रणां कर्तुम्, आरेभे तत्परो बभूव ।
ततो विदितमेदिनीति - ततस्तदनन्तरम्, विदिता ज्ञाता मेदिनीकमनस्य राज्ञो भावकूलङ्कषाभिप्रायतरङ्गिणी यैस्ते, नय एवाम्बुनिधिरिति नयाम्बुनिधिर्नीतिपारावारस्तस्य पारं गच्छन्तीति नयाम्बुनिधिपारगाः मन्त्रिणः सचित्राः, अञ्जसा याथार्थ्येन, जगदुः कथयामासुः, हे महीश हे नृपाल, वञ्चनाकलिता प्रतारणायुता चित्तवृत्तिर्मनोवृत्तिर्यस्य तथाभूतः स रिपुः काष्टाङ्गारः, हि निश्चयेन, नोऽस्मान् प्रतारयितुं छलयितुम्, अदानीम्, विनयपत्रिकां नम्रतासूचकदलम्, प्राहिणोत् प्रेषितवान् | पृथ्वीच्छन्दः ||६||
"
कदाचिदिति-- कदाचिजातुचित्, पाटितालान उन्मूलितबन्धनस्तम्भः, निर्मूलित निगलो दूरीकृतनिगडः, संक्षुभितकटकः सञ्चलितसैन्यः सकलभटघटया निखिलयोद्धसमूहेन दुरासदो धर्तुमशक्यः, सत्यन्धरवसुन्धरापतेः सत्यन्धरभूपालस्य मन्दिरोपकण्ठे भवनसमीपे संचारो गमनं यस्य तथाभूतः, मत्तदन्तावलो मत्तगजेन्द्रः, कोपात्क्रोधात् निर्गतं भवनाद् बहिर्यातम्, अस्मत्प्राणायमानं मत्प्राणवदाचरन्तम्, एनं तं प्रसिद्धम्, सत्यन्तरवसुधारमणम्, निहत्य मारयित्वा निखिलपौरलोकं सकलनागरिकजनम्, शोकपारावारे विषादसागरे, मां काष्ठाङ्गारञ्च, अकीर्तिपूरे 'सत्यन्धरोऽनेन मारित' इति दुर्यशसि, निमज्जयामास निमग्नं
चकार ।