________________
दशमो लम्भः जीवन्धरः, तरुणि तरुणारुणकिरणविकसदम्बुजवदने भवदीयपूर्वकृतसुकृतप्रभावेनैवैतादृशः संवृत्तोऽन्यथा पुनर्वहुतरदुःखमनुभवेयमिति तां समाश्वास्य, क्रमेण गन्धर्वदत्तानिलयं निजालयं चागत्य तत्र मन्त्रविदामग्रणीर्गन्धोकटेन साकं मन्त्रयित्वा, वयस्यवलयविलसितपार्श्वभागो मनोजवगन्धर्ववन्धनेन स्यन्दनेन कामनीयकसीमाकोशं विदेहदेशमशिश्रियत् । . धरणीतिलकाख्यया प्रतीतां नगरी तत्र जगाम कौरवः ।
अधितिष्ठति यां स्वमातुलः स पतिगोविन्दमहीपचन्द्रमाः ॥ ४ ॥
तावद्विदितोदन्तेन गोविन्दमहीकान्तेन प्रशासितपुरुषपरिष्कृतासु विकीर्णविमलकुसुमकुलसौगन्ध्यसमाहूतपुष्पन्धयझङ्कारमेदुरविविधवाद्यरवमुखरासु दिक्षापरवशपौरजनसंमर्दनिवारणपरराजचरकरचपलकनकवेत्रलताकान्तिवालातपशीलासु हाग्रनिबद्धपताकापटवितानछत्रचामरादिभिर्निवारितदिनकरकरजालासु प्रतोलीषु संक्रीडद्भिः शताङ्गैः प्रविशमानः वेलातीतविलोकनकुतूहलचन्द्रशालासंमिलितलोलाक्षीजनकटाक्षखेलाकलितनीलोत्पलमालामादधानास्ते जीवन्धरपुरःसराः कुमाराः क्रमेण राजमन्दिरमाविविशुः । तत्र च ।
सुकृताम्, मां गुणमालाम्, मा संस्पृश नो स्पृष्टां कुरु, इति, सविषादं सखेदं यथा स्यात्तथा, उक्तो निवेदितः, जीवन्धरो जीवकः, तरुणारुणस्य मध्याह्नसूर्यस्य किरणमयूखैविकसत्प्रस्फुरद् यदम्बुजं कमलं तद्वदनं मुखं यस्यास्तत्सम्बुद्धौ हे तरुणारुणकिरणविकसदम्बुजवदने, तरुणि युवति, भवदीयं त्वदीयं यत्पूर्वकृतसुकृतं पुराविहितपुण्यं तस्य प्रभावेणैव माहात्म्येनैव, एतादृश ईदृक्प्रकारः, संवृत्तो भूतः, अन्यथा इतरथा, पुनर्भूयः, बहुतरदुःखं विपुलासातम्, अनुभवेयम्, इतीत्थम्, तां गुणमालाम्, समाश्वास्य सम्बोध्य, क्रमेण क्रमशः, गन्धर्वदत्तानिलयं खेचरसुतासदनम्, निजालयं स्वभवनञ्च, आगत्य समेन्य, तत्र स्वभवने, मन्त्रविदां मन्त्रज्ञानाम्, अग्रणीः प्रधानः, सः, गन्धोत्कटेन वैश्येशेन, साकं सार्धम्, मन्त्रयित्वा विमर्श कृत्वा, वयस्यवलयेन मित्रसमूहेन विलसितः शोभितः पार्श्वभागो यस्य तथाभूतः सन् , मनोजवस्य मानसरयस्य गन्धर्वस्य हयस्य बन्धनं नहनं यस्य तेन, स्यन्दनेन रथेन, कामनीयकसीमायाः सौन्दर्यावधेः कोशो निधानं तम्, विदेहदेशं विदेहजनपदम् । अशिश्रियत् यति स्म, तत्र जगामेति भावः ।
धरणीतिलकाख्ययेति-कौरवो जीवन्धरः, तत्र विदेहदेशे, धरणीतिलकाख्यया धरणातिलकेति नाम्ना, प्रतीतां प्रसिद्धाम, तां नगरी पुरीम्, जगाम वव्राज, याम्, स्वमातुलः स्वकीयमामः, सः प्रसिद्धः, पतिश्चासौ गोविन्दमहीपचन्द्रमाश्चेति पतिगोविन्दमहीपचन्द्रमाः स्वामिगोविन्दराजश्रेष्ठः, अधितिष्ठति समधिवसति ॥४॥
तावदिति–तावत् तावत्कालपर्यन्तम्, विदितोदन्तेन ज्ञातसमाचारेण, गोविन्दमहीकान्तेन गोविन्दराजेन, प्रशासिता आज्ञापिता ये पुरुषास्तः परिष्कृताः सहितास्तासु, विक्राणानि यत्र तत्र प्रक्षिप्तानि यानि विकचविमलकुसुमकुलानि प्रस्फुटितनिर्मलप्रसूनसमूहास्तेषां सौगन्ध्येन सौरभ्येण समाहूता आकारिता ये पुष्पन्धया भ्रमरास्तेषां झङ्कारेण गुञ्जनशब्देन मेदुरा मिलिता ये विविधवाद्यरवा नैकविधवादित्रशब्दास्तैर्मुखराः शब्दायमानास्तासु, इष्टुमिच्छा दिदृक्षा तस्याः परवशा आयत्ता ये पौरजना नागरिकनरास्तेषां संमर्दस्य संघातस्य निवारणे निराकरणे परा लीना ये राजचरा नृपतिदूतास्तेषां करैस्तैश्चपलाश्चञ्चला या कनकवेत्रलताः सुवर्णवेत्रवल्लयस्तासां कान्तिभिर्दीप्तिभिर्बालातपशीलासु प्रातःकालिकलोहितधर्मयुक्तासु, हाग्रेषु भवनाग्रभागेषु निबद्धा निस्यूता याः पताका वैजयन्त्यस्तासां पटा वस्त्राणांति हाग्रनिबद्धपताकापटाः, ते च वितानानि चोल्लोचाश्च छत्राणि चातपवारणानि च चामराणि च प्रकीर्णकानि चेति द्वन्द्वस्तान्यादौ येषां तैः, निवारितं दूरीकृतं दिनकरकरजालं मार्तण्डमरीचिमण्डलं यासु तासु, प्रतोलीषु रथ्यासु, संक्रीडनिश्चलभिः, शताङ्ग रथैः, प्रविशमानाः प्रवेशं कुर्वाणाः, विलोकनस्य कुतूहलमिति विलोकनकुतूहलं दर्शनकौतुकम्, वेलातीतं निर्मर्यादं यद् विलोकनकुतहलं तेन, चन्द्रशालासु भवनोपरिभागेषु संमिलिताः समुपस्थिता ये लोलाक्षीजना ललनासमूहास्तेषां कटाक्षखेलाभिरपाङ्गसंचारैः कलिता समुत्पादिता