________________
दशमो लम्भः ततः कुरुकुमारः सुरमञ्जरीवदनात्कथञ्चिदुदञ्चितानुमतिः, तत्सदनान्निर्गत्य सकलसहचरनिकरपरिमेदुरपार्श्वभागः स्वकीयनिकाय्यमासाद्य, पित्रोर्ने त्राणि पीयूषाञ्जनैरिव रञ्जयामास ।
नतं पादाम्भोजे नयनसुभगं वीक्ष्य तनुज
परिष्वज्य प्रेम्णा शिरसि पुनरावाय च मुहुः । दशा पायं पायं तनयवदनाम्भोरुहसुधां
श्रवोभ्यां वाङ्माध्वीं सुखममितमातेनतुरिमौ ॥ १॥ वाचामभूमिं मुदमाससाद गन्धर्वदत्ता तमिमं समीक्ष्य । उपागतं गेहमुदारसत्त्वमुवाच चैवं कमलायताक्षी ।। २॥
आर्यपुत्र, सा खलु गुणमाला भवदीयविरहाशुशुक्षणिकृशिततनुलता, क्षणे क्षणे ताम्यति मुह्यति मूर्च्छति च; अतस्तामम्भोरुहाक्षी प्रथमतः सम्भाव्यात्रागन्तुमर्हसीति ।
विवेश गुणमालायास्ततो गेहं कुरूद्वहः ।
एकान्ते तां विलोक्यायमालिलिङ्ग च संगतः ॥ ३॥ आर्यपुत्र मन्निमित्तं खल्वेतावद्दुखमनुभूतवानस्यतो मन्दभाग्यां मां मा संस्पृशेति सविषादमुक्तो
तत इति-ततस्तदनन्तरम्, कुरुकुमारो जीवन्धरः, सुरमञ्जरीवदनान्नवोढावक्त्रात् , कथञ्चित्केनापि प्रकारेण, उदञ्चिता प्राप्तानुमतिराज्ञा येन स तथाभूतः सन् , तस्याः सुरमञ्जर्याः सदनाद्भवनात्, निर्गत्य निःसृत्य, सकलसहचरनिकरण निखिलमित्रमण्डलेन परिमेदुरो मिलितः पार्श्वभागः समीपप्रदेशो यस्य तथाभूतः सन् , स्वकीयनिकाय्यं निजनिकेतनम्, आसाद्य प्राप्य, पित्रोर्मातापित्रोः नेत्राणि नयनानि, पीयूषाञ्जनैरिव सुधाञ्जनैरिव, रञ्जयामास रञ्जयति स्म रागयुक्तानि चकारेति भावः ।
नतं पादाम्भोज इति-अयञ्च इयञ्चेतीमौ मातापितरो, पादाम्भोजे चरणकमले, नतं नम्रम्, नयनसुभगं नेत्रप्रियम्, तनुज पुत्रम्, वीक्ष्य समवलोक्य, प्रेरणा प्रीत्या, परिष्वज्य समालिङ्गय, पुनरनन्तरम्, मुहुर्भूयोभूयः, शिरसि मूर्ध्नि, आघ्राय च घ्राणविषयीकृत्य च, तनयवदनाभ्मोरुहसुधां पुत्रमुखकमलपीयूषम्, दृशा दृष्ट्या, वाङ्माध्वीं वचनमधु, श्रवोभ्यां श्रवणाभ्याम्, पायं पायं पीत्वा पीत्वा, अमितमपरिमितम्, सुखं शर्म, आनेनतुर्विस्तारयामासतुः। शिखरिणीच्छन्दः ॥१॥
वाचामभूमिमिति-कमले इवायते अक्षिणी यस्याः सा, गन्धर्वदत्ता खचरेन्द्रपुत्री, गेहं गृहम्, उपागतं प्राप्तम्, उदारसत्त्वमुत्कृष्टबलयुक्तम्, तमिमं प्रसिद्धम्, जीवन्धरम्, समीच्य दृष्ट्वा, वाचां वचनानाम्, अभूमिमपानम् , मुदमानन्दम्, आससाद प्राप, एवं वक्ष्यमाणप्रकारेण, उवाच च जगाद च ॥ २ ॥
- खलु निश्चयेन, सा प्रसिद्धा, गुणमाला भवद्वल्लभा, भवदीयविरहाशुशुक्षणिना वद्विरहानलेन कृशिता क्षीणा तनुलता शरीरवल्लरी यस्यास्तथाभूता सती, क्षणे क्षणे प्रतिसमयम्, ताम्यति दुःखीभवति, मुह्यति मोहं करोति, मूर्च्छति च मूर्छा प्राप्नोति च । अतः कारणत् , तां प्रसिद्धां, अम्भोरुहाक्षी कमललोचनाम्, प्रथमतः पूर्वम्, सम्भाव्य सन्तोष्य, अत्रेह, आगन्तुम् अर्हसीति योग्योऽसीति ।
विवेशति-ततस्तदनन्तरम्, कुरूद्वहः सत्यन्धरसुतः, गुणमालाया द्वितीयपत्न्याः , गेहं भवनम्, विवेश प्रविशति स्म, एकान्ते रहसि, तां गुणमालाम्, विलोक्य दृष्ट्वा, अयं संगतः सप्राप्तः सन् , आलिलिङ्ग च समाश्लेषणं चकार च ॥३॥
आर्यपुत्र मन्निमित्तमिति-हे आर्यपुत्र हे हृदयवल्लभ, मन्निमित्तं मत्कारणम्, खलु निश्चयेन, एतावत् इयत्परिमाणम्, दुःखमशर्म, अनुभूतवानसि समनुबभूविथ, अतोऽस्मात्कारणात् , मन्दभाग्यामल्ष