________________
दशमो लम्भः
१७५ लम्वितवर्णकम्बलतया गैरिकधातुसान्द्रान गिरीन्द्रांस्तुलयद्भिः कर्णान्तावलम्बिकनकाङ्कुशतया कृतकर्णपूरैरिव जङ्गमैरिव कुलाचलैः संख्यातीतैर्दन्तावलेगक्रान्तसकलदिशावकाशम: मुखभागकलितकनकखलिनैः संमुखागतमाकाशमापिवद्भिरिव चलाचलोष्टपुटर्मुहुर्मुहुः कम्पितीदररन्ध्रेण परिपूरितभुवनोदरेण हेपारवेग वेगगर्वधूर्वहं गरुत्मन्तं निर्भयद्भिरिव सादिजनकृतजवनिरोधक्रोधधुर्घगयमाणघोणैः परिस्फुरत्प्राथपुटेन पदे पदे मुक्तपूत्कारण जवनिपीतमनिलमिव नासिकाविवरेणोद्वमद्भिर्मूर्तिमद्भिरिव रहःसमूहगन्धर्व बन्धुरम् , सदानितघण्टाघणघणात्कारमुखरैश्चक्रचण्णक्षोणीतलः स्यन्दनैः परिशोभितम, भिण्डिपालमण्डलारपट्टसपरश्वधद्रुघणप्रमुखायुधधारिणा पादातेन सनाथम् ; मायूरातपत्रसहसान्धीकृताष्टदिङ्मुखमनीकं पुरोधाय, कैश्चित्प्रयाणेोविन्दराजः वचन राजपुरी निकषा निपसाद । तदनु विदितवार्तो माययाऽसौ कृतन्नो
दधदिव बहु सख्यं प्राहिणोत्प्राभृतानि । अयमपि नरपालो लालयंस्तानि सद्य
स्तदतिशयितमेतत्प्रेपयामास तस्मै ॥ १३ ॥
येषां तेषां भावस्तत्ता तया, गैरिकधातुभिर्लो हितमृत्तिकाविशेषैः सान्द्रा निविडास्तान् , गिरीन्द्रान् महापर्वतान् तुलयनिरुपमिन्वद्भिः, कर्णान्तावलम्बिनः श्रवणसमीपावलम्बिनः कनकाङ्कुशाः सुवर्णाङ्कुशा येषां तेषां भावस्तत्ता तया, कृतकर्णपूरैरिव धृतकर्णाभरणे रिव, जङ्गमैगतिशीलः, कुलाचलैरिव कुलपर्वतैरिव, संख्यातीतैरसंख्यैः, दन्तावलेहँ स्तिभिः, आक्रान्तो व्याप्तः सकलदिशावकाशो निखिलकाष्टान्तरालं येन तत्, मुखभागेवदनप्रदेशे कलितो धृतः कनकखलिनः सुवर्णकविका येषां तैः, संमुखागतं पुरस्तात्याप्तम्, आकाशं गगनम्, आपिबद्भिरिव धयद्भिरिव, चलाचलोष्टपुटैरतिचपलदशनच्छदपुटः, मुहुर्मुहुर्भूयोभूयः कम्पितोदररन्ध्रेण वेपितजठरविवरण, परिपूरितं सम्भरितं भवनोदरं जगन्मध्यं येन तेन, हेपारवेण हेषणशब्देन, वेगगर्वधूर्वहं रयाहङ्कारभारधारिणम्, गरुमन्तं गरुडम्, निर्भयद्भिरिव तिरस्कुर्वद्भिरिव, सादिजनरारोहिपुरुषः कृतो विहितो यो जवननिरोधो वेगप्रतिबन्धस्तेन समुन्पन्नो यः क्रोधः कोपस्तेन घुघुरायमाणा अव्यक्तशब्दविशेष कुर्वाणा घोणा नासा येषां तैः, परिस्फुरत्प्रोथपुटेन प्रकम्पमानघ्राणाग्रभागेन, पदे पदे प्रतिपदमिति यावत् , मुक्तपूत्कारेण प्रकटितपूत्कारध्वनिना, नासिकाविवरेण घ्राणरन्ध्रण, जवनिपीतं वेगगृहीतम्, अनिलं पवनम्, उद्वमद्भिरिव प्रकटयद्भिरिव, मूर्तिमद्भिः शरीरधारिभिः, रंहःसमूहैरिव वेगकलापरिव, गन्धर्वा हैः 'वाजिवाहावंगन्धर्वहयसैन्धवसप्तयः' इत्यमरः, बन्धुरं मनोहरम्, अतिदूरोन्नता अतिदूरोत्क्षिप्ता ये पताकापटा वैजयन्तीवस्त्राणि वैस्तिरोहितः पिहितो रविरथः सूर्यस्यन्दनं यस्तैः, सैन्यमेव सागरः सैन्यसागरः पृतनापारावारस्तस्यावर्तायमानैरम्भसांभ्रमैरिवाचरभिः, सन्दानिता बद्धा या घण्टास्तासां घणघणात्कारेणाव्यक्तशब्दविशेषेण मुखरैर्वाचालः, चक्रे रथाङ्गः क्षुण्णं चूर्णीकृतं क्षोणीतलं महीतलं यस्तैः, स्यन्दनः शताङ्गः, परिशोभितं समुद्भासितम्, भिन्डिपालश्च सृगश्च मण्डलायश्च कृपाणश्च, पट्टिसश्च शस्त्रविशेषश्च परश्वधश्च कुठारश्च, द्रुघणश्च मुद्गरश्चेति भिण्डिपालमण्डलामपट्टिसपरश्वधद्रुघणाः ते प्रमुखाः प्रधाना येषु तथाभूतानि यान्यायुधानि शस्त्राणि तेषां धारिणा धारकेण, पदातेन पदातिसमूहेन, सनाथं सहितम्, मायूराणि शिखण्डिपिच्छनिर्मितानि यान्यातपत्रसहस्राणि छत्रसहस्राणि तैरन्धीकृतानि श्यामीकृतान्यष्टदिङ्मुखानि येन तथाभूतम्, अनीकं सैन्यम्, पुरोधाय पुरस्तात् कृत्वा, कैश्चित्कतिपयैः, प्रयाणः प्रस्थानः गोविन्दराजो विदेहवसुधारमणः, राजपुरी निकषा राजपुर्याः समीपे, 'अभितःपरितःसमया निकषाहाप्रतियोगेऽपि' इति द्वितीया, क्वचन कुत्रापि स्थाने, निषसाद निषण्णो बभूव ।
तदनु विदितवात इति-तदनु तदनन्तरम्, विदिता वार्ता यस्य स ज्ञातसमाचारः, असौ कृतघ्नः काष्टाङ्गारः, मायया छलेन, बहु प्रभूतम्, सख्यं मैत्रीम्, दधदिव बिनदिव, प्राभृतानि समुपायनानि, प्राहिणोत् प्रेषयामास । तानि प्रामृतानि, लालयन् स्वीकुर्वन् , अयमेषः, नरपालोऽपि गोविन्दभूपालोऽपि,