SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नवमो लम्भः तदनन्तरं तद्वचनं निशम्य हसन्तीषु सकलासु वामनयनासु यथायथं निवृत्य निद्रामुद्रां दधानासु, सा सुरमञ्जरी जीवन्धरस्मरणजनितसन्नापेनाक्रान्ततनुलता क्रमेण पल्लवशयनमधिशिश्ये । तदनु पूषणि पूर्वधराधरे विलसति प्रचुरारुणमण्डले। द्विजवरस्य समीपमुपागता मधुरवागवदत्सुरमञ्जरी ||२१|| शास्त्रेषु केषु भवतः कुशलत्वमार्य सङ्गीतशास्त्रवदमन्दगुणाम्बुराशे । गाने मनोज्ञमधुरे भवतः समानो लोकत्रये न हि विना खलु जीवकेन ॥२२॥ इति तस्या अनुयोगं द्विजवृद्धोऽप्येवमुत्तरयामासप्रज्ञासिमम सर्वशास्त्रनिकषप्रोल्लीढधाराधरो दृप्यद्वादिमदाङ्कुरं न सहते नैर्मल्यनर्मालयः । किञ्चास्माभिरदृष्टपूर्वमिह यच्छास्त्रं तदेतज्जग त्याकाशाम्बुजतुल्यमब्जवदने विम्बानुविम्बाधरि ॥ २३ ॥ कल्पयन्ति समर्थयन्ति, तर्हि, मधुरं मनोहरम्, गानं गीतम्, गायते निगद्यते, इत्येवम्, वाचं वाणीम्, स वृद्धः, उवाच जगाद ॥ २० ॥ तदनन्तरमिति-तदनन्तरं तदनु, तद्वचनं तद्वृद्धवाक्यम्, निशम्य श्रुन्चा, हसन्तीषु हासं कुर्वाणासु सकलासु निखिलासु, वामनयनासु सुन्दरलोचनासु, यथायथं यथाक्रमम्, निवृत्य प्रत्यावृत्य, निद्रामुद्रां स्वापाकृतिम्, दधानासु पृतवतीपु, सतीपु, सा पूर्वोक्ता, सुरमञ्जरी, जीवन्धरस्य सात्यन्धरेः स्मरणेन निध्यानेन जनितः समुत्पन्नो यः सन्तापः खेदस्तेन, आक्रान्ता व्याप्ता तनुलताशरीरवल्लरी यस्यास्तथाभूता सती, क्रमेण क्रमशः पल्लवशयनं किसलयशय्याम्, अधिशिश्ये शयनञ्चकार । तदनु पूषणीति-तदनु तदनन्तरम्, प्रचुरमत्यन्तमरुणं रक्तं मण्डलं विम्बं यस्य तस्मिन् , पूषणि सूर्ये, पूर्वधराधरे उदयशैले, विलसति दीप्यमाने सति, द्विजवरस्य विप्रोत्तमस्य, समीपमभ्यर्णम्, उपगता प्राप्ता, मधुरवाग मिष्टभापिणी, सुरमञ्जरी, अवदत् जगाद ॥ २१ ॥ शास्त्रेषु केष्विति-हे आर्य हे पूज्य ! अमन्दानां श्रेष्ठानां गुणानां दयादाक्षिण्यादीनामम्बुराशिः सागरस्तत्सम्बुद्धौ हे अमन्दगुणाम्बुराशे ! संगीतशास्त्रवद् गन्धर्वागम इव, भवतस्तव, केषु किन्नामधेयेषु, शास्त्रेषु सिद्धान्तेषु, कुशलवं नैपुण्यम्, अस्तीति शेषः । मनोज्ञमधुरेऽतिप्रिये, गाने सङ्गगते, विषयेऽर्थे सप्तमी, खलु निश्चयेन, जीवकेन जीवन्धरेण विना, भवतस्तव, समानस्तुल्यः, लोकत्रये जगत्त्रये, नहि न वै विद्यते इति शेषः । वसन्ततिलकावृत्तम् ॥ २२ ॥ ___ इतीत्थम्-तस्याः सुरमञ्जर्याः, अनुयोगं प्रश्नम्, द्विजवृद्धोऽपि ब्राह्मणस्थविरोऽपि, एवं वक्ष्यमाणप्रकारेण, उत्तरयामास समादधे । प्रज्ञासिरिति--हे अब्जवदने हे कमलमुखि ! हे विम्बानुविम्बाधरि विम्बफलतुलितरदनच्छदे ! सर्वशास्त्राण्येव निखिलागमा एव निकपाः शाणास्तेपु प्रोल्लाढाः प्राप्तकपणा या धारास्तीच्णाग्रभागास्तासां धरो धारकः, नैर्मल्यस्य स्वच्छताया नर्मालयः केलिभवनम्, मम वृद्धस्य, प्रज्ञासिर्बुद्धिकृपाणः दृप्यद्वादिनामहङ्कारिवादिनाम् मदारं गर्वप्ररोहम्, न सहते न तितिक्षति, सद्य एवं प्रवादिनां गर्वमपहरतीति यावत् । किञ्च अन्यच्च, इह लोके, यच्छास्त्रं यः सिद्धान्तः, अस्माभिः, पूर्वं न दृष्टमित्यदृष्टपूर्वम् अनवलोकितपूर्वम्, भवेदिति शेपः, तदेतच्छास्त्रम्, जगति भुवने, आकाशाम्बुजतुल्यं गगनारविन्दसदृशम्, अस्तीति शेषः । अखिलागमेषु मम प्रावीण्यमस्तीति भावः ॥ २३ ॥ १ भवतां व०।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy