________________
१६६
जीवन्धरचस्पूकाव्ये इति तद्वाणी निशम्य कौतुककोरकितान्तरङ्गा सा सुरमञ्जरी, 'निखिलनयनोत्पलानन्दसन्दायकमुखचन्दिरो जीवन्धरः पूर्वं धैर्येण सह मदीयमानसमपहृत्य निर्गतः कापि न ज्ञायते, तत्प्राप्तिर्मम कथं भविष्यति' इति पृच्छाञ्चक्र ।
इति वाचमसौ श्रुत्वा ज्ञणं तूष्णीमवस्थितः ।
द्विजातिवृद्धो मधुरमुवाच वदतां वरः ॥२४॥
अयि पयोजनयने, बाह्योद्यानविराजमानस्य कामदेवस्य पूजया प्रसन्नस्य कृपाकटाक्षः साक्षात्कृतो जीवन्धरस्तव मनोरथलतामङ्कुरयिष्यति ।
विचिकित्सा विशालाक्षि नात्र कार्या निरङ्कशा । कामकोष्टस्य गमने त्वरैव तनुमध्यमे ॥२५॥ तदनु हृदि विदित्वा कामिताथे करस्थं
कमलविमलनेत्री संगता सा सखीभिः । सपदि मधुरशिञ्जन्म मञ्जीरपादा
मणिमयमधिरूढा याप्ययानं प्रतस्थे ॥२६॥ ततश्च चकितसारङ्गविलोचना सा सुरमञ्जरी द्विजवृद्धं पुरोधाय कामालयमेत्य वामालकाभिरालीभिः समानीतसुरभिकुसुमादिभिस्तत्पूजां निवर्तयामास ।।
इति तद्वाणीमिति-इति पूर्वोक्तप्रकाराम, तद्वाणी वृद्धगिरम्, निशम्य श्रुत्वा, कौतुकेन स्वेप्सितपृच्छाजन्यकुतूहलेन कोरकितं कुड्मलितं व्याप्तमन्तरङ्गं मनो यस्यास्तथाभूता, सा सुरमञ्जरी, निखिलानां सकलजनानां नयनोत्पलेभ्यो नेत्रकुवलयेभ्य आनन्दसन्दायको हर्षोत्पादको मुखचन्दिरो वदनचन्द्रो यस्य तथाभूतः, जीवन्धरो गन्धोत्कटसुतः, पूर्वं प्राक्, धैर्येण धीरत्वेन, सह साकम्, मदीयमानसं मञ्चित्तम्, अपहृत्य चोरयित्वा, क्वापि कुत्रापि, निर्गतः प्रयातः, इति न ज्ञायते बुध्यते, तत्प्राप्तिस्तदुपलब्धिः, मम, कथं केन प्रकारेण, भविष्यति, इत्येवम्, पृच्छाञ्चक्र पृच्छति स्म ।
इति वाचमिति-इति पूर्वोक्ताम्, वाचं वाणीम्, श्रुत्वा निशम्य, क्षणमल्पकालपर्यन्तम् तूष्णीमवस्थितो निःशब्दं विद्यमानः, वदतां वक्तणाम्, वरः श्रेष्ठः, द्विजातिवृद्धो ब्राह्मणातिस्थविरः, असौ, मधुरं मनोहरं यथा स्यात्तथा, उवाच जगाद ॥ २४ ॥
अयि पयोजनयने इति-हे पयोजनयने हे कमललोचने, बाह्योद्यान विराजमानस्य बाह्योपवनविशोभमानस्य, पूजया सपर्यया, प्रसन्नस्य प्रसन्नचेतसः, कामदेवस्य मदनस्य, कृपाकटाक्षेर्दयापाङ्गः, साक्षात्कृतः प्रत्यचं निरीक्षितः, जीवन्धरो गन्धोत्कटसूनुः, तव भवत्याः, मनोरथलतामीप्सितवल्लरीम्, अङ्कुरयिष्यति समुत्पादयिष्यति ॥
विचिकित्सेति-हे विशालाक्षि हे दीर्घलो बने ! अत्र कार्ये, निरङ्कुशा स्वच्छन्दा, विचिकित्सा संशयः, न कार्या न विधातव्या, हे तनुमध्यमे हे कृशावलग्ने, कामकोष्ठस्य मदनागारस्य, गमनेऽभियाने, त्वरैव शीघ्रतैव साधीयसी विद्यत इति शेषः ॥ २५॥
तदनु हृदीति-तदनु तदनन्तरम्, कमलविमलनेत्री नीरजनिर्मलनयना, सा सुरमञ्जरी, हृदि स्वकीयचेतसि, कामितार्थमभिलषितपदार्थम्, करस्थं हस्तस्थितम्, विदित्वा ज्ञावा, सखीभिः सहचरीभिः, संगता संयुता, मधुरं मनोहरं यथा स्यात्तथा शिक्षन्ति शब्दं कुर्वाणानि मञ्जीराणि तुलाकोटयो ययोस्तथाभूतौ पादौ चरणौ यस्याः सा, मणिमयं रत्नमयम्, याप्ययानं शिविकाम्, अधिरूढाधिष्ठिता, सती प्रतस्थे प्रययौ । मालिनीच्छन्दः ॥ २६॥
ततश्चेति-ततश्च तत्पश्चाच्च, चकितसारङ्गस्य भीतकुरङ्गस्येव विलोचने नयने यस्यास्तथाभूता । सा पूर्वोक्ता, सुरमञ्जरी, द्विजवृद्ध विप्रप्रवयसम्, पुरोधायाप्रेकृत्वा, कामालयं मदनमन्दिरम्, एत्य प्राप्य, वामा मनोहरा अलकाश्र्णकुन्तला यासां ताभिः, आलीभिः सखीभिः, समानीता आलम्भिता ये सुरभिकुसुमादयः सुगन्धिपुष्पप्रभृतयस्तैः, तत्पूजां कामार्चाम, निर्वतयामास चकार ।