________________
१६४
जीवन्धर चम्पूकाव्ये
ततः पूर्वाचलप्रान्ते बभौ कुमुदवान्धवः । ध्वान्तसिन्धुरसंक्षोभ मृगेन्द्रः कुन्द निर्मलः ॥ १७ ॥ ततो वृद्धः सोऽयं भुवनमहितां गानपदवी
मतानीत्सानन्दं मधुरसनिष्यन्दभरिताम् । 'खगेशः कन्यायाः परिणयकलाकालकलितां
निशम्यायं जीवन्धर इति शशङ्के सुनयना ॥ १८ ॥
तदनु सा सुरमञ्जरी सहर्पमुत्थाय, अकूजत्काञ्चीकलापमगुञ्जन्मञ्जीरमचलितकरवलयं सखीजनान्पुरोधाय मन्दं मन्दं तदीयशयनोपकण्ठमासाद्य, प्रवयसः पुरतो वयस्याजनं विधाय स्वयमपि पश्चाद्भागमलङ्कुर्वन्ती, मालतीलतानां पृष्ठतो रत्नवल्लीव विराजमाना, चकोरनयना भुवनमोहनं गानं शुश्राव ।
तावत्समाप्य चतुरः कलगानलीलां द्राक्सामगीतमुदयुक्त स मञ्जु गातुम् । श्रुत्वा कुरङ्गनयनाः कुतुकेन पूर्वं
गीतं पठेति परितः परिवत्रुरेनम् ॥ १६ ॥ कुमारीं मम तोषाय भवत्यः कल्पयन्ति चेत् । गायते मधुरं गानमिति वाचमुवाच सः ॥
२० ॥
ततः पूर्वाचलप्रान्त इति—ततस्तदनन्तरम्, पूर्वाचलप्रान्ते पूर्वगिरिसमीपे ध्वान्तं तिमिरमेव सिन्धुरो गजस्तस्य संक्षोभाय वासाय मृगेन्द्रः सिंहः कुन्दनिर्मलो माध्यकुसुमावदातः कुमुदबान्धवो रजनीकरः, बभौ शुशुभे ॥ १७॥
ततो वृद्ध इति --- ततस्तदनन्तरम्, सोऽयं पूर्वोक्तः, वृद्धः स्थविरः, खगानामीद् खगेट् तस्य खगेशो विद्याधरेन्द्रस्य गरुडवेगस्य, कन्यायाः पतिंवराया गन्धर्वदत्ताया इति यावत्, परिणयकलाया विवाहोत्सवस्य काले समये कलितां कृताम् भुवनमहितां लोकप्रशंसिताम् मधुररसस्य निष्यन्देन द्रवेण भरितां पूर्णाम्, गानपदवीं संगीतपद्धतिम्, सानन्दं सप्रमोदं यथा स्यात्तथा, अतानीत् विस्तारयामास तां गानपदवीम् निशम्य समाकर्ण्य, अयमेष वृद्धः, जीवन्धरो गन्धोत्कटसूनुः, अस्तीति, सुनयना सुदृष्टिः सुरमञ्जरी, शशङ्के शङ्कितवती । शिखरिणीच्छन्दः ॥ १८ ॥
तदनु सा सुरमञ्जरीति — तदनु तदनन्तरम्, चकोरनयना जीवजीवलोचना, सासुरमन्जरी, सहर्षं सानन्दं यथा स्यात्तथा, उत्थाय समुत्थिता भूत्वा, अकूजन् शब्दमकुर्वाणः काञ्चीकलापो मेखलादाम यस्मिन् कर्मणि तत्, अगुञ्जत् शिञ्जानमकुर्वत् मञ्जीरं यस्मिन् कर्मणि तत्, अचलितः सुस्थिरः करवलयो हस्तकटको यस्मिन् कर्मणि तत् यथा स्यात्तथा, सखीजनान् वयस्याजनान्, पुरोधाय कृत्वा, मन्दं मन्दं यथा स्यात्तथा, तदीयशयनोपकण्ठं वृद्धशय्य समीपम् आसाद्य प्राप्य, प्रवयसो वृद्धस्य पुरतः पुरस्तात्, वयस्याजनं सखीसमूहम्, विधाय कृत्वा, स्वयमपि स्वतोऽपि पश्चाद्भागं पृष्टप्रदेशम्, अलङ्कुर्वन्ती शोभयन्ती, मालतीलतानां मल्लीबल्लीनाम्, पृष्ठतः पश्चात्, रत्नवल्लीव मणिवल्लरीव, विराजमाना शोभमाना, सती, भुवनमोहनं जगन्मोहनकारणम्, गानं संगीतम्, शुश्राव शृणोति स्म ।
तावत्समाप्येति - तावत् यावत्सुरमञ्जरीतच्छ्रय्यासमीपमाजगाम तावत्, चतुरो विदग्धः, स वृद्धः, कलगानकलां मधुरसङ्गीतवैदग्धीम्, समाप्य समाप्तां कृत्वा, द्राग् झटिति, मञ्जु मनोहरम्, सामगीतं सामरूपगानम्, गातुम्, उदयुङ्क्त उद्यतो बभूव, कुरङ्गनयना मृगलोचनाः श्रुत्वा निशम्य, पूर्वं प्राग्गीतम्, पठ निगद, इति ब्रुवाणा इति शेषः, एनम् जीवन्धरम्, कुतुकेन कुतूहलेन परिवव्रुः परितो वृण्वन्ति स्म । वसन्ततिलकावृत्तम् ॥ १६ ॥
कुमारीमिति — भवत्यो यूयम्, चेद्यदि, मम वृद्धस्य, सन्तोषाय तोषाय, कुमारों काञ्चित्पतिंवराम्, १ विद्याधरस्य । २ तदीयशयनसदनोपकण्ठं ब० ।