SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नवमो लम्भः क्रमेण सोऽयं कपटद्विजातिवृद्धो गृहद्वारभुवं प्रपेदे । यस्यान्तराले सुरमञ्जरी सा चकास्ति चञ्चन्मणिदीपिकेव ।।८।। तत्र दौवारिकाभिः किमत्रागमनफलमिति पृष्टः कुमारीतीर्थमागमनफलमिति प्रत्युत्तरेणाट्टहासमेदुरवदनानप्रातिहारिकाजनान् विदधानः कृपया ताभिरनिरुद्धोऽपि कामदेवस्तन्मन्दिरान्तरमगाहिष्ट । अन्तः कासाञ्चन स्त्रीणां मा मेति प्रतिपेधनम् । अन्निव बाधिर्यादाविवेश शनैः शनैः ।।६।। तदनु भयाकुलाः काश्चन कमललोचनाः झणझणात्कारिनूपुररवमुखरितदिगन्तराः सत्वरगमनवशेन वल्गत्कुचकलशसन्ताड्यमानव्यालोलमुक्ताहाररुचिवीचिप्रकाशितसदनभागाः परिचलित. कचनिचयरुचिरसुममालिकानिषण्णोड्डीनमिलिन्दमञ्जुझङ्कारवाचालाः कूजत्काञ्चीकलापाः सुरमञ्जरीसमक्षमेत्य सगद्गदमेवमवादिपुः। वृद्धद्विजः कश्चिदपूर्वदृष्टो रुद्धोऽपि गेहान्तरमाविवेश । इतीयमालीवचनं निशम्य तं द्रष्टुमागात्कुतुकेन नुन्ना ॥१०॥ वृद्धम्, अवलोक्य दृष्ट्वा, पोरेप नागरिकेष, केचित् केऽपि, वैराग्यपरायणा विरक्तितत्पराः, इतरेऽन्ये, विलसन्ती शोभमाना कल्गा दया येषां तथाभूताः सन्तः, सम्बभू बुरजायन्त । क्रमेण सोऽयमिति-सोऽयं पूर्वोक्तः, कपटेन व्याजेन द्विजेषु विप्रेषु अतिवृद्धः स्थविरतरः, वृद्धब्राह्मणवेषधारी जीवन्धर इनि यावत् , क्रमेण क्रमशः, गृहद्वारभुवं भवनप्रवेशमार्गभुमिम्, प्रपेदे प्राप, यस्य गृहस्य, अन्तराले मध्ये, सा महनीयकान्तिमण्डिता, सुरमञ्जरी काम्यमाना प्रियतमा, चञ्जन्मणिदीपिकेव देदीप्यमानमणिदीपिका यथा, चकास्ति शोभते ।।८।। तत्र दौवारिकाभिरिति-तत्र सुरमञ्जरीभवने, द्वारे भवा दौवारिका द्वारपालिन्यस्ताभिः, अत्र भवनाभ्यन्तरे, आगमनफलमागतिप्रयोजनम्, किम् किमात्मकम्, इत्येवं प्रकारेण, पृष्ठोऽनुयुक्तः, कुमारीतीर्थ तीर्थक्षेत्रविशेषः, पक्षे कुमारी सुरमचर्येव तीर्थमिति कुमारीतीर्थम्, आगमनफलमागतिप्रयोजनम्, ममास्तीति शेषः, इति प्रत्युत्तरेण प्रतिवचनेन, अट्टहासेन सशब्दहसितेन मेदुरं मिलितं वदनं मुखं येषां तथाभूतान् , प्रातिहारिकाजनान् द्वारपालिकालोकान् , विदधानः कुर्वाणः, कृपया दयया, ताभिदौवारिकाभिः, अनिरुद्धोऽपि अनिवारितप्रवेशोऽपि, कामदेवो जीवन्धरः पक्षेऽनिरुन्द्वोऽपि अनिरुद्धपुत्ररहितोऽपि, कामदेवः प्रद्युम्नः इति विरोधः परिहारस्तूक्तः, तन्मन्दिरान्तरं तद्भवनमध्यम्, अगाहिष्ट प्रविवेश । __ अन्तरमिति-अन्तमध्ये, कासाचन कासामपि, स्त्रीणां नारीणाम्, मा मा अत्र प्रवेशं मा कुरु, इति, प्रतिषेधनं निषेधाक्षरम्, बाधिर्यात् श्रवणशक्तिरहितत्वात् , अशृण्वन्निवानाकर्णयन्निव, शनैः शनैर्मन्द मन्दम्, आविवेश प्रविष्टोऽभूत् ॥३॥ तदन्विति-तदनु तदनन्तरम्, भयेन त्रासेनाकुला व्यग्राः, काश्चन का अपि, कमललोचनाः पद्माच्यः, झणझणात्कारिणां झणझणशब्दकारिणां नूपुराणां मनीरकाणां रवेण शब्देन, मुखरितं वाचालितं दिगन्तरं काष्ठान्तरालं याभिस्ताः, सत्वरगमनवशेन शीघ्रगतिनिघ्नतया, वल्गयां चलद्भ्यां कुचकलशाभ्यां स्तनवक्षोजाभ्यां सन्ताड्यमानाः पीड्यमाना ये व्यालोलाश्चञ्चला मुक्ताहारा मौक्तिकदामानि तेषा रुचिवीचिभिः कान्तिपरम्पराभिः प्रकाशिताः शोभिताः सदनभागा भवनप्रदेशा याभिस्ताः, परिचलितेषु कम्पितेषु कचनिचयेषु केशसमूहेषु रुचिरा मनोहरा या सुममालिकाः पुष्पस्त्रजस्तासु पूर्व निपण्णाः स्थिताः पश्चादुड्डीना उत्पतिता ये मिलिन्दा भ्रमरास्तेषां मजुझङ्कारेण मनोहरझङ्कारेण वाचालाः कृतशब्दाः, कूजन्तोऽव्यक्तशब्दं कुर्वन्तः काञ्चीकलापा मेखलासमूहा यासां तास्तथाभूताः सत्यः, सुरमञ्जरीसमक्षं सुरमायाः समक्षं पुरस्तात् , एल्य गत्वा, सगद्गदं गद्गदस्वरसहितं यथा स्यात्तथा, एवं वक्ष्यमाणप्रकारेण, अवादिषुनिवेदितवत्यः। वृद्धद्विज इति-पूर्व न दृष्ट इत्यपूर्वदृष्टोऽनवलोकितपूर्वः, कश्चित्कोऽपि वृद्धद्विजः स्थविरविप्रः, २१
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy