________________
जीवन्धरचम्पूकाव्ये द्विजातिवृद्धं पुरतो निषण्णं बुभुक्षितं वीक्ष्य सरोरुहाक्षी ।
समादिदेशाथ सखीसमाजं तद्भोजनाय प्रचुरादरेण ॥११॥ ___ तदनु यथाविधि सहर्ष भुक्तवन्तं सखीजनैरन्तिकमानीतं तमेनमग्रासनमधिरोप्य, 'कुतो भवानागतः पुनः कुत्र गमिष्यसि' इति, सा सुरमञ्जरी मञ्जलवचनचातुरीविजितपिकस्वरमाधुरी सकौतुकं पप्रच्छ।
इति गिरं समवेत्य कथञ्चन स्थविर एवमुवाच शनैः शनैः ।
सुरुचिराधरि पृष्ठत आगतः पुरत एष गमिष्यति मानिनि ॥१२॥ इति वचनं निशम्य, विशालतरहासविशदवदनान पार्श्ववर्तिजनानवलोक्य, द्विजातिवृद्धः 'किमिति मामकीनवार्धक्यजनितविपरीततां हसन्ति भवत्यः, क्रमेण भवतीनामायेपा भविष्यति' इत्यवादीत् ।
पुनः पप्रच्छ मोदेन व गन्तव्यं त्वयेति सा ।
यत्र कन्यापरिप्राप्तिस्तत्रेत्ययमभापत ॥१३।। वयसा वपुषा च वृद्ध एषो मनसा नेति गिरापि मेदुरा । स्वयमभ्यवहृत्य सा कुमारी पुनरागत्य बभाण सादरम् ।।१४॥
रुद्धोऽपि वारितगमनोऽपि, गेहान्तरं भवनमध्यम्, आविवेश प्रविष्टः, इति एवं प्रकारम्, आलीवचनं सखीवचः, निशम्य श्रुत्वा, कुतुकेन कुतूहलेन, नुन्ना प्रेरिता, इयं सुरमञ्जरी, तं वृद्धद्विजम्, द्रष्टुमवलोकयितुम्, आगादाजगाम ॥१०॥
द्विजातिवृद्धमिति-अथागमनानन्तरम्, पुरतोऽग्रे, निषण्णं समासीनम्, बुभुक्षा सञ्जाता यस्य तं क्षुधायुक्तम्, द्विजातिवृद्धं विप्रस्थविरतरम्, वीच्य दृष्ट्वा, सरोरुहाक्षी कमलनयना, सुरमञ्जरी, प्रचुरादरेण महाविनयेन, तगोजनाय तं भोजयितुम्, सखीसमाज वयस्यावृन्दम्, समादिदेश समाज्ञातवती ॥११॥
तदनु यथाविधीति-तदनु तदनन्तरम्, यथाविधि विध्यनुसारेण, सहर्ष सानन्दम्, भुक्तवन्तं कृतभोजनम्, सखीजनैः सहचरीसमूहैः, अन्तिकं निकटम्, आनीतं प्रापितम्, एनं तं पूर्वोत्तवृद्धम्, अग्रासनं श्रेष्धासनम, अधिरोप्याधिष्टाप्य, भवान, कुतः कस्मात्स्थानात , आगतः समायातः, पुनर्भयः, कुन कस्मिन स्थाने, गमिष्यसि बजिप्यसि, इत्येवं प्रकारेण, मजुलवचनचातुर्या मनोहरवचोवैदग्ध्या जिता पराभूता पिकस्वरमाधुरी कोकिलालापमधुरिमा यया तथाभूता, सुरमञ्जरी, सकौतुकं कुतूहलसहितं यथा स्यात्तथा, पप्रच्छ पृच्छति स्म।
इति गिरमिति-स्थविरो वृद्धरूपधरो जीवन्धरः, इति पूर्वोक्तप्रकाराम, गिरं सुरमञ्जरीभारतीम्, कथञ्चन केनापि प्रकारेण, समवेत्य निश्चिन्य, शनैः शनैर्मन्द मन्दम्, एवं वक्ष्यमाणप्रकारेण, उवाच जगाद । हे सुरुचिराधरि ! हे शोभनदशनच्छदे ! हे मानिनि हे मानवति, एष जनः, पृष्टतः पश्चात्प्रदेशात् , आगतः सम्प्राप्तः, पुरतोऽग्रे च गमिष्यति बजिप्यति ॥१२॥
इति वचनमिति-इति पूर्वोक्तं, वचनं वाणीम्, निशम्य समाकर्ण्य, विशालतरहासेन सुविस्तृतहसितेन विशदानि धवलानि वदनानि वक्त्राणि येषां तथाभूतान् , पार्श्ववर्तिजनान् निकटस्थजनान् , अवलोक्य दृष्ट्वा, द्विजातिवृद्धो विप्रातिस्थविरः, 'भवत्यो यूयम्, मामकीनेन मदीयेन वार्धक्येन स्थविरत्वेन जनिता समुत्पन्ना या विपरीतता विपर्यस्तबुद्धिता ताम्, इतोत्थम्, किं केन कारणेन, हसन्ति हसथ', क्रमेण क्रमशः, भवतीनामपि युष्माकमपि, एषा विपरीतता, भविष्यति, इत्येवम्, अवादीत् जगाद ।
पुनः पप्रच्छेति-सा सुरमअरी, त्वया भवता, क्व कुत्र, गन्तव्यं यातव्यम्, इतीत्थम्, मोदेन हर्षेण, पुनर्भूयः, पप्रच्छ अनुयुङ्क्ते स्म, अयं वृद्धः, यत्र यस्मिन् स्थाने, कन्यापरिप्राप्तिः पर्तिवरालाभः, भवेदिति शेषः, तत्र तस्मिन् स्थाने, गन्तव्यम्, इतीत्यम्, अभाषत जगाद ॥१३॥
वयसा वपुषेति-एष जनः, वयसा दशया, वपुषा च शरीरेण च, वृद्धो जीर्णः, अस्ति, मनसा