________________
जीवन्धरचम्पूकाव्ये
कोष्ठमानेष्यामीति प्रतिज्ञाय, प्रज्ञायेसरम्तत्परिणयोपायं मनसा चिन्तयन् क्रमेण यक्ष मन्त्रमेव तत्समर्थापनतन्त्रं निश्चिकाय ।
१६०
निर्याय तस्मादारामान्मर्यादातीत कौशलः । वार्धकं रूपमास्थाय विवेश पुर कौरवः ॥ ६ ॥ विरलदशनपङ्क्तिः कम्पमानाङ्गयष्टिः
प्रतिकलनिमिषेणास्पष्टदृष्टिः स वृद्धः ।
गलविकसितकासः श्लेष्मखण्डं वमन्सन्
ל
3
पलितविरलकेशी दण्डचारी चचार ||७||
तत्र रथ्यासु प्रविशन्तम् भुजगनिर्मुक्तनिर्मोकनिकाशचर्मविचित्रम्, पुरो हस्तावलम्बितदण्डेन पश्चादतिकुब्जतनुदण्डेन समौर्वीकं कार्मुकं तुलयन्तम्, शुक्तिकाभस्मधवलपलित केशपाशेन तिरोवेपथुकलितेन मस्तकेन पूर्वतनरूपस्मरणाधुनातनरूप निरीक्षणजनिताद्भुतवशेन मनुमाहात्म्यं शिरसा श्लाघमानमिव विराजमानम्, गलरन्ध्रनिरुद्धश्लेष्मखण्डान्यतिप्रयत्नेन कुकुहारावेण सहानवरतमुद्वमन्तम्, स्थाविरं रूपमाधानमपि शनैः शनैर्गच्छन्तम्, सुरमञ्जरीप्राप्तिदूतीभूतायां जरायामभीकमपि जराभीरुम्, इमं स्थविरमवलोक्य, पौरेपु केचिद्वैराग्यपरायणाः, इतरे विलसत्करुणाः, सम्बभूवुः ।
श्चेति तम्, आनेष्यामि प्रापयिष्यामि इतीन्थम्, प्रतिज्ञाय प्रतिज्ञां कृत्वा, प्रज्ञाग्रेसरो विद्वच्छ्रेष्टः, तस्याः सुरमञ्जर्याः, परिणयस्य विवाहस्योपायः साधनं तम्, मनसा चेतसा चिन्तयन् विचारयन् क्रमेण क्रमशः, यक्षमन्त्रमेव सुदर्शनप्रदत्तमन्त्रमेव, तत्समर्थापने तत्प्रापणे तन्त्रं साधनभूतम्, निश्चिकाय निरणपीत् 'विभाषा चे:' इति कुत्वम् ।
निर्यायेति — मर्यादा सीमानमतीतं मर्यादातीतं तथाभूतं कौशलं चातुर्यं यस्य सः, कौरवो जीवन्धरः, तस्मात्पूर्वोक्तात्, आरामादुपवनात्, निर्याय निर्गत्य, वार्धकं वृद्धसम्बन्धि, रूपं वेपम्, आस्थाय कृत्वा, पुरि नगरे, विवेश प्रविष्टः ॥ ६ ॥
विरलदशनपङ्क्तिरिति-- विरला सान्तरा दशनपङ्क्तिर्द्वन्तपङ्क्तिर्यस्य सः, कम्पमाना वेपमानाजयष्टिः शरीरलता यस्य सः, प्रतिकलनिमिषेण प्रतिक्षणपचमपातेन, अस्पष्टानुद्घाटितप्राया दृष्टिर्यस्य सः, गलाद्कण्ठाद्विकसितः प्रकटितः कासो 'खांसी' इति प्रसिद्धो यस्य सः, श्लेप्मखण्डं कफशकलम्, चमन् प्रकटयन्, पलिताः शुक्ला विरलाश्च सान्तराश्च केशाः कचा यस्य तथाभूतः स कृत्रिमः, वृद्धः स्थविरः, दण्डेन चरतीत्येवं शीलो दण्डचारी यष्टिचारी सन् चचार चलति स्म । मालिनीच्छन्दः ॥ ७ ॥
1
तत्र रथ्यास्विति-तत्र नगरे, रथ्यासु मार्गेषु प्रविशन्तं प्रवेशं कुर्वन्तम्, भुजगेन सर्पेण निर्मुक्तस्यक्तो योः निर्मोकः कञ्चुकस्तेन निकाशं सदृशं यच्च त्वक् तेन विचित्रितं विचित्रां दशां प्राप्तम्, पुरोऽग्रे, हस्तेन पाणिनावलम्बितो धृतो दण्डो येन पश्चात्पृष्टभागे, अतिकुब्जः कुटिलीभूतो यस्तनुदण्डः शरीरदण्डस्तेन, समौर्वीकं सप्रत्यञ्चम् कार्मुकं धनुः, तुलयन्तं सदृशीकुर्वन्तम्, सुक्तिकाभस्मेव मुक्तास्फोटभूतिरिव धवलो वलक्षः पलितकेशपाशो जराशुक्लकचसमूहो यस्मिंस्तेन, तिरोवेपथुना तिर्यक्कम्पनेन, कलितं सहितं तेन, मस्तकेन शिरसा, पूर्वतनरूपस्य वार्धक्यपूर्वकालोत्पन्नसौन्दर्यस्य स्मरणं ध्यानम् अधुनातनरूपस्य वर्तमानका लिंकसौन्दर्यस्य निरीक्षणं समवलोकनञ्च ताभ्यां जनितं समुत्पन्नं यद्भुतमाश्वर्यं तस्य वशेन निघ्नतया, मनुमाहात्म्यं देवप्रदत्तरूपपरिवर्तनमन्त्रप्रभावम्, शिरसा मूर्ध्ना, श्लाघमानमिव प्रशंसन्त मित्र, विराजमानं शोभमानम्, गलरन्ध्रे कण्ठविवरे निरुद्धानि प्रतिहतगतीनि यानि श्लेष्मखण्डानि कफशकलानि तानि, अतिप्रयत्नेन भूरिप्रयासेन, कुहकुहारावेण कासजन्याव्यक्तशब्द विशेषेण सह साकम्, अनवरतं निरन्तरम्, उद्वमन्तं प्रकटयन्तम्, स्थाविरं स्थविरस्येदं स्थाविरं वृद्धसम्बन्धि, रूपं वेषम्, आदधानमपि धृतवन्तमपि, शनैः शनैर्मन्दं मन्दम्, गच्छन्तं व्रजन्तम्, सुरमञ्जर्या एतन्नामवल्लभायाः प्राप्तौ दूतीभूतायां चेटी रूपायाम्, जरायां वृद्धावस्थायाम्, अभीकमपि निर्भयमपि पते कामुकमपि, जराभीरुं वार्धक्यभययुक्तम्, इममेतम्, स्थविरं