________________
नवमो लम्भः
ततो लताङ्गीमनुनीय रामां हित्वा स मित्रैः समगच्छतायम् । शशीव पाकारिदिशावधूटीं नक्षत्रवृन्दैः कमनीयरूपः ||१|| वरचिह्नमेनमवलोक्य बान्धवा मणिभूपणाञ्चिततनुं कुरूद्वहम् । बहुमेनिरे मधुमिवाङ्कुरस्फुरस्फुटचूतपल्लवकुलं वनप्रियाः ॥२॥ तत्र कोऽपि सहसात्रवीदिदं बुद्धिविदितो विद्रूपकः । सप्रहासमतिविस्तृतेक्षणं फुल्लगण्डयुगलं कुरूद्रहम् ॥३॥
अन्यैरुपेक्षितां कन्यां पाणौकृत्य प्रमोदतः । सखे निर्लज्जयात्मानं कृतार्थमिव मन्यसे ||४॥ भवाञ्छलाघ्यस्तदामित्र व्यूढा चेत्सुरमञ्जरी । विद्वेषगम्भी नवतारुण्यमञ्जरी ॥५॥ इति तद्वचनभङ्गीं निशम्य मन्दस्मितकोर कितवदनः कुरुपञ्चवदनः, 'श्व
एव तामत्रत्य काम
ततो लताङ्गीमिति—ततस्तदनन्तरम्, कमनीयं मनोहरं रूपं सौन्दर्य यस्य तथाभूतः, सोऽयं जीवन्धरः, पाकारिदिशावधूटीं प्राचीप्रियाम्, हित्वा त्यक्त्वा, नक्षत्रवृन्दैरुडुसमूहैः, शशीव चन्द्र इव, लताङ्गीं कृशाङ्गीम्, रामां विमलाभिधानां प्रियाम्, अनुनीय प्रेम्णा सन्तोप्य, हिन्वा त्यक्त्वा, मित्रैर्वयस्यैः, समगच्छत संगतो बभूव ॥ १ ॥
वरचिह्नमिति - - बान्धवाः सखायः, वरचिह्नं वरचिह्नोपेतम्, मणिभूषणै रत्नालंकारैरञ्चिता शोभिता तनुः शरीरं यस्य तम्, कुरूद्वहं जीवन्धरम्, अवलोक्य दृष्ट्वा, अङ्कुरेषु नवप्ररोहेषु स्फुरं यथा स्यात्तथा स्फुटाः प्रकटा ये चूतपल्लवा आम्रकिसलयास्तैः कुलं व्याप्तम् मधुं वसन्तम्, वनप्रिया इव कोकिला इव, बहुमेनिरे श्रेष्ठं मन्यन्ते स्म । मञ्जुभाषिणीवृत्तम् ॥ २ ॥
तत्रेति तत्र मित्रेषु, बुद्धिषेण इति विदितो बुद्धिषेणविदितो बुद्धिषेणनामा, कोऽपि कश्चिदपि, विदूषकः प्रहसनशीलः, सप्रहासं सव्यङ्ग्यम्, अतिविस्तृते दीर्घतरे ईक्षणे यस्मिन् कर्मणि यथा स्यात्तथा, फुल्लं हर्षेण विकसितं गण्डयुगलं कपोलयुग्मं यस्य तम्, कुरूद्वहं जीवकम्, इदं वच्यमाणम्, सहसा झटिति, अब्रवीज्जगाद | छन्दः पूर्ववत् ॥ ३ ॥
अन्यैरिति — हे सखे हे मित्र, अन्यैरितरैः, उपेक्षितामनङ्गीकृताम्, कन्यां पतिंवराम्, प्रमोदतो हर्षेण, पाणौकृत्य स्वीकृत्य निर्लज्जं निस्त्रपम्, आत्मानं स्वम्, कृतार्थमिव कृतकृत्यमिव मन्यसे वेन्सि ||४|| भवानिति - नरविद्वेषेण मनुष्यमात्रद्वेषेण गम्भीरी प्रगल्भा, नवतारुण्यमञ्जरी प्रत्यग्रयौवनमञ्जरी, सुरमञ्जरी एतदभिधाना वणिक्पुत्री, व्यूढा परिणीता, चेद्यदि, तदा तर्हि भवान् त्वम्, श्लाध्यः प्रशंसार्हः, भवेदिति शेषः ॥ ५ ॥
१
इति तद्वचनभङ्गीमिति -- इति पूर्वोक्ताम्, तस्य बुद्धिषेणस्य वचनभङ्गों वाणीपरम्पराम्, निशम्य
श्रुत्वा मन्दस्मितेन मन्दहास्येन कोरकितं कुड्मलितं वदनं वक्त्रं यस्य सः, कुरुपञ्चवदनः कुरुवंशसिंहः,
जीवन्धर इति यावत् श्व एव भविष्यति दिवस एव, तां सुरमञ्जरीम्, अत्र भवोऽत्रत्यः स चासौ कामकोष्ट
१. त्वया या प्रतिपादिता ब० ।