SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये इह खलु भवति प्रविष्टमात्रे पूर्व कदाप्यविक्रीतं बहलरत्नजालं विक्रीतम् । अतो भवतैव प्रपञ्चातिशायिगुणगुम्भितेन पञ्चशरवञ्चनचञ्चुरूपेण काञ्चनसच्छायकान्तिकोमलेन मदीयनन्दिनीकन्दलितभाग्यकृतावतारेण तस्याः परिणययोग्येन भवितव्यम् । इति तन्निबन्धेन, कौरवः कथं कथंचिदनुमेने। शुभ मुहूर्ते विमला कुमारी जीवन्धरः सागरदत्तदत्ताम् । सौदामिनीसंनिभगात्रवल्ली जग्राह पाणौ सति हव्यवाहे ॥६७।। मृर्ता चमत्कृतिमिव स्फुटदिव्यरूपां जायामिवाम्बुजशरस्य चकोरनेत्रीम् । उन्मीलदुज्ज्वलघनस्तनशोभिताङ्गी रागादिमामनुबभूव कुरुप्रवीरः ॥६८।। इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये विमलालम्भो नाम सप्तमो लम्भः । इह खल्विति--खलु निश्चयेन, इह भवने, भवति त्वयि, प्रविष्टमात्रे समागत एव, पूर्व प्राक् , कदापि जात्वपि, अविक्रीतं न विक्रीतम्, बहलरत्नजालं प्रभूतमणिमण्डलम्, विक्रीतं ऋतृभिहीतम्, अतोऽ स्मात्कारणात्, प्रपञ्चातिशायिभिविस्तारातिशायि भिगुणगुम्भितो युक्तस्तेन, पञ्चशरस्य कामस्य वञ्चनचुञ्चु प्रतारणपटु रूपं सौन्दर्य यस्य तेन, काञ्चनसच्छाया सुवर्णसदृशी या कान्तिर्दीप्तिस्तया कोमलेन मृदुलेन, मदीयनन्दिन्या मत्पुत्र्याः कन्दलितभाग्येन वृद्धिंगतपुण्यातिशयेन कृतो विहितोऽवतारः समागमो यस्य तेन, भवतैव त्वयैव, तस्या विमलायाः, परिणययोग्येन विवाहाण, भवितव्यम्, इतीत्थम्, तन्निबन्धेन सागरदत्ताग्रहेण, कौरवो जीवन्धरः, कथञ्चित् केन केनापि प्रकारेण, अनुमेने स्वीकृति ददौ । शुभे मुहूर्त इति-जीवन्धरः स्वामी, शुभ मुहूर्ते मङ्गलमयवेलायाम, हव्यवाहे वह्नो, सति विद्यमाने, सौदामिनीसन्निभा विद्युत्सदृशी गात्रवल्ली शरीरलता यस्यास्ताम्, सागरदत्तेन तत्पित्रा दत्ता समर्पिता ताम्, विमलामेतदभिधानाम् , कुमारी कन्याम्, पाणौ हस्ते, जग्राह गृह्णाति स्म । उदवोढेति यावत् ॥६७॥ __ मूर्तामिति-मूर्ती सशरीराम, चमत्कृतिमिव चमत्कारमिव, स्फुटं प्रकटं दिव्यरूपमलौकिकसौन्दर्य यस्यास्ताम्, अम्बुजशरस्य कन्दर्पस्य, जायामिव प्रियामिव, चकोरनेत्री जीवंजीवलोचनाम्, उन्मीलझ्यामुत्तिष्टद्भयामुज्ज्वलाभ्यां निर्मलाभ्यां घनस्तनाभ्यां कठोरकुचाभ्याम् शोभितं समलड्कृतमङ्गशरीरं यस्यास्ताम्, इमां विमलाम्, कुरुप्रवीरो जीवन्धरः, रागान्मदनोद्रेकात्, अनुबभूव समन्वभूत् । वसन्ततिलकावृत्तम् ॥६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' जीवन्धरचम्पूठ्याख्याधरे विमलालम्भो नामाष्टमो लम्भः १. गुम्फितेन ब०। २ पाणावुपहव्यवाहम् ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy