________________
अष्टमो लम्भः
१५७
एपा विम्बाधरी कन्नोः सन्ततं शरवपिणः ।
नामभाक्त्वमितीवाङ्ग कन्तुक त्वामताडयत् ॥६३॥ वदनकमलोन्मीलत्स्वेदाम्बुशीकरकोरका
सुरभिलगलच्छासा नासाग्रचञ्चलमौक्तिका । स्फुरदुरुकुचा रामा वामालकाकुलितानना
___ सरसमतनोत्पाण्याघानं यतस्त्वयि तत्कृती ॥६४॥ एवं वदन्मुदा स्वामी तत्सौधाग्रवितर्दिकाम् ।
अलञ्चकार पण्यश्रीकूलपगुणाकरः ।।६।। तदानीं कोऽपि वैश्येशः सम्मुखमागत्य सम्मदपूरविस्तारितनयनः प्रसन्नवदनः कुशलप्रश्नकोरकितवचनः क्रमेण निजप्रस्तावं वितस्तार।
श्रीमन्सागरदत्त इत्यभिहितः सोऽहं ममेदं गृहं
__ पत्नी मे कमला सुता च विमला सूत्या किलपाभवत् । विक्रीयेत यदागमे मणिगणः पूर्वस्थितोऽभ्यन्तरं
तं तस्याः पतिमभ्यधुर्जननसल्लग्ने हि कार्तान्तिकाः ॥६६॥ वदने, हारे मौक्तिकलतायाम्, क्रीडति सति, हे कन्दुक हे गेन्दुक, भवान् , मृदुले कोमले, वल्गन्मणीभिः शुम्भद्रत्नश्चञ्चन् देदीप्यमानो यः कङ्कणः करवलयस्तस्य शब्देन ध्वनिना शोभिनि शोभमाने, निजस्पर्शन स्वामर्शनारुणश्रियं रक्तलक्ष्मी पुष्णातीति निजस्पर्शारुणश्रीपुट तस्मिन् , मृदुले कोमले, हस्ताब्जे च पाणिपद्मे च, चिक्रीड क्रीडाञ्चकार । शार्दूलविक्रीडितच्छन्दः ॥ ६२॥
एपेति-हे कन्दुक हे गेन्दुक, त्वम्, सन्ततं निरन्तरम्, शरवर्पिणा बाणवर्षिणः, कन्तोः कामस्य, नामभाक् नामधेययुक्तः, असीति शेषः, इतीव हेतोः, एपा बिम्बाधरी विम्बोष्टी, त्वां भवन्तम्, अताडयत् हस्तेनापीडयत् । उत्प्रेक्षा ॥ ६३ ॥
वदनकमलोन्मीलदिति-चढ़नकमले मुखारविन्द उन्मालन्तः प्रकटीभवन्तः स्वेदाम्बुशीकरा एव स्वेदसलिलपृपता एव कोरकाः कुड्मला यस्याः सा, सुरभिल : सुगन्धिगलन् निःसरन् श्वासो यस्याः सा, नासाग्रे घ्राणाग्रभागे चञ्चलं चपलं मौक्तिकं मुक्ताफलं यस्याः सा, स्फुरन्तौ शोभमानावुल्कुची पीनपोजी यस्याः सा, वामालकैः कुटिलकेशैराकुलितं समाकीर्णमाननं मुखं यस्याः सा, एवम्भूता रामा ललना, हे कन्तुक, यतः कारणात् , त्वयि भवति, सरसं स्नेहपुरस्सरम्, पाण्याघातं हस्तप्रहारम्, अतनोत् चकार, तत् तस्मात्कारणात् , त्वम् कृती सुकृतवान् , असीति शेषः। हरिणीच्छन्दः॥६४ ॥
एवमिति–एवमनेन प्रकारेण, वदन् कथयन् , पुण्यश्रियाः सुकृतलचस्याः कूलङ्कपास्तटोद्घर्पिणो ये गुणाः सौन्दर्यादयस्तेपामाकरः खनिः, स्वामी जीवन्धरः, स चासौ सौधश्चेति तत्सौधस्तद्भवनं तस्याग्रवितर्दिकां पुरःस्थितवेदिकाम्, अलञ्चकार भूपयामास । तत्रोपविष्ट इति यावत् ॥६५॥
_तदानीमिति तदानीं तस्मिन् काले, कोऽपि कश्चन, वैश्येशो वणिग्वरः, सम्मुखं पुरस्तात्, आगत्य समेत्य, सम्मदपूरेण हपसमूहेन विस्तारिते नयने यस्य सः, प्रसन्नं प्रफुल्लं वदनं वक्त्रं यस्य सः, कुशलप्रश्नेन क्षेमानुयोगेन कोरकितं व्याप्तं वचनं यस्य तथाभूतः सन् , क्रमेण क्रमशः, निजप्रस्ताव स्वकीयनिवेदनम्, वितस्तार विततान ।
श्रीमन्निति-हे श्रीमन् हे लचीमन् , सोऽहं भवत्पुरो वर्तमानः, सागरदत्त इत्यभिहितः सागरदत्तनाम्ना प्रसिद्धः, इदमेतत् , मम गृहं निकेतनम्, कमला एतन्नामवती, मे मम, पत्नी वल्लभा, विमला एतन्नामधेया च, सुता पुत्री, वर्तत इति शेषः, एपा किल विमला, सूत्या युवतिः, अभवत् अजायत । हि निश्चयेन, जननसल्लग्ने जन्मशुभवेलायाम्, कार्तान्तिका दैवज्ञाः, यदागमे यदागमने अभ्यन्तरं मध्ये, पूर्वस्थितः पूर्वविद्यमानः, मणिगणो रत्नसमूहः, विक्रीयेत विक्रीतो भवेत् , तं तस्या विमलायाः, पतिं वल्लभम्, अभ्यधुः कथयामासुः । शार्दूलविक्रीडितच्छन्दः ॥६६॥