________________
अष्टमो लम्भः
स्वप्नो निष्फलतां गतस्त्वयि सुत व्यर्थं वपुर्लक्षणं
सत्यार्थं न बभूव पुण्यवपुपस्तद्देवताया वचः ।
हा भर्तृव्यसनाम्बुधिर्हि सुतरो नैव त्वया पुत्रक
त्वं यद्येवमवेहि मामपि भवल्लोकं प्रति प्रस्थिताम् ॥४६॥
१५३
इत्यादिप्रलापवशेन शोकलहरीं देवोदन्तं चाम्भोदावलिमिव दम्भोलिममृतं च मुञ्चन्तीं पुण्यमातरं बहुधा समाश्वास्य, तन्मुखादुत्पन्नां देवोन्नतिं नभसो निपतितां रत्नवृष्टिमिव बहुमन्यमाना वयं, पुनः पुनस्तामाश्वास्यापृच्छच च श्रीमत्सन्निधिमुपागताः, इति । ”
जीवन्मृतां तां जननीं विदित्वा जीवन्धरोऽखिद्यत रक्तचित्तः । मातुर्गुरुस्नेहवशेन सोऽयं द्रष्टुं क्षणात्तामिह तत्वरे च ॥५०॥
तदनु कुरुकुमुदिनीकान्तस्तत्क्षणमेव सकलबन्धून्विशेपतो भार्यामापृच्छानुनीय च, अनुगमनकलितकुतुकनृपतनयनिचयं क्रमेण विसृज्य, सहचरमण्डलमण्डितो दण्डकारण्यमाजगाम । क्षामक्षामतनुं विवर्णवदनां निःश्वासधूमोत्करै
श्चिन्तादन्तुरितान्तरामविरलैर्वाष्पैर्मिलल्लोचनाम् । ताम्बूलादिविहीन विस्तृतमलप्रोतद्विजालिं जटा
वल्लीवेल्लितमस्तकां कुरुपतिर्देवीं लुलोके धुरि ॥ ५१ ॥
स्वप्न इति - हे सुत हे पुत्र, त्वयि भवति, स्वप्नो मुकुटबद्ध कङ्केलिदर्शनरूपः, निष्फलतां व्यर्थताम्, गतः प्राप्तः, वपुषो देहस्य, लक्षणं मकरिकादिचिह्नम्, व्यर्थं निष्प्रयोजनम्, पुण्यवपुषः पुण्याकारायाः, देवताया देव्याः, तच्छूमशानोक्तम्, वचोऽपि वचनमपि, सत्यार्थं तथ्यार्थम्, न बभूव नाजायत, हे सुत, त्वया भवता, विनेति शेषः, भर्तृव्यसनं पतिमरणमेवाम्बुधिः सागर इति भर्तृव्यसनाम्बुधिः, हि निश्चयेन, सुतरः सुखेन तरितुं शक्यः, नैव, हा खेदे, यद्येवम्, तर्हि त्वम्, मामपि विजयामपि भवल्लोकं प्रति स्वजन्मक्षेत्रं प्रति, प्रस्थितां प्रयाताम्, अवेहि जानीहि । अहमपि त्वामनुम्रिये इति भावः । शार्दूलविक्रीडितच्छन्दः ॥४६॥
इत्यादिप्रलापवशेनेति - इति प्रभृति विलापपरवशतया, शोकलहरीं दुःखपरम्पराम्, देवोदन्तं च भवद्वृत्तान्तञ्च दम्भोलिं वज्रम्, अमृतं पीयूषं च, अम्भोदावलिमिव मेघमालामिव, मुञ्चन्तीं त्यजन्तीं प्रकटयन्तीमिति यावत् पुण्यमातरं पुण्यजननीम्, बहुधा नानाप्रकारेण, समाश्वास्य सन्तोष्य, तस्या मुखं तस्मात्तन्मुखात्तद्वक्त्रात्, उत्पन्नां प्रकटाम्, देवोन्नति भवद्राजवंशताम्, नभसो गगनात्, निपतितां भ्रष्टाम्, रत्नवृष्टिमिव मणिवमिव, बहुमन्यमाना श्रेष्ठां जानानाः, वयम् पुनः पुनर्भूयोभूयः, तां मातरम्, आश्वास्य सन्तोष्य, आपृच्छ्य च पृष्ट्वा च श्रीमत्सन्निधिं भवन्निकटम्, उपागताः प्राप्ताः, इति ।
तथाभूतः, जीवन्धरो जीवकः, तां जननीं अखिद्यत खेदयुक्तो बभूव, सोऽयं जीवन्धरः, द्रष्टुमवलोकयितुम्, क्षणादल्पेनैव कालेन, इह
जीवन्मृतामिति – रक्तमनुरागपूर्ण चित्तं मनो यस्य मातरम्, जीवन्नपि स्मृतेति जीवन्मृता ताम्, विदित्वा ज्ञात्वा मातुर्जनन्याः, गुरुस्नेहवशेन प्रचुरप्रीतिवशेन, तां मातरम्, लोके, तत्वरे च त्वरायुक्तो जातश्च ॥ ५० ॥
तदन्विति — तदनु तदनन्तरम्, कुरुकुमुदिनीकान्तः कुरुवंशचन्द्रः, जीवन्धरः, तत्क्षणमेव तत्कालमेत्र, सकलबन्धून् निखिलेष्टजनान्, विशेषतः प्रमुखतया भार्यां वल्लभाञ्च, आपृच्छय आमन्त्र्य, अनुनीय च समाश्वास्य च, अनुगमने सहगमने कलितं धृतं कुतुकं येन तथाभूतो यो नृपतनयनिचयो राजपुत्रसमूहस्तम्, क्रमेण क्रमशः, विसृज्य प्रत्यावर्त्य, सहचरमण्डलमण्डितो मित्रसमूहसुशोभितः सन् दण्डकारण्यं दण्डकवनम्, आजगाम आयौ ।
क्षामक्षामतनुमिति---कुरुपतिर्जीवन्धरः धुरि पुरस्तात्, क्षामक्षामातिकृशा तनुः शरीरं यस्यास्ताम्, निःश्वासा दीर्घोणश्वासा एव धूमोत्करा धूमसमूहास्तैः, विवर्णं म्लानं वदनं चक्त्रं यस्यास्ताम्, चिन्तया शोकेन दन्तुरितं व्याप्तमन्तरं हृदयं यस्यास्ताम्, अविरलैर्निरन्तरायैः, बाधैरश्रुभिः, मिलती युक्ते लोचने नयने यस्यास्ताम्, ताम्बूलादिविहीना नागवल्लीदलादिभक्षणशून्या विस्तृतमलप्रोता विततमलयुक्ता च
२०