________________
जीवन्धचम्पूकाव्ये
हा हा हात हा हतास्मि किमिदं दुःश्राव्यमत्याहितं हा पुत्र गतोऽसि हा हतविधे क्रूरोऽसि मत्पुत्रके । हा नाथ त्वमुदारपुण्यचरितो यस्मादिमां दुर्दशा
मज्ञात्वा सुरलोकसौख्यलहरीं विन्दंश्चिरं मोदसे ||४५|| हा पुत्र, हा कुरुवंशमित्र, सुलक्षणगात्र, हा पयोजविशालनेत्र, एतावन्तं कालं तब मुखचन्द्रदर्शनमपि दुर्लभमभून्मम मन्दभाग्यायाः । अपि च । पत्युर्वियोगमधिकं ववह्निकल्पं
१५२
वासं च काननतले स्वपुरं विसृज्य । यस्योदयादनुभवाम्यथ जीवितं च
सोऽयं यदीदृशकथः कथमद्य वर्ते ॥४६॥ सत्यन्धरस्तव पिता खलशेखरेण
व्यापादितो युधि कृतन्नवरेण येन । तेनैव पुत्र गमितस्त्रिदिवं यदि त्वं
हा हन्त सैप कुरुवंशलताकुठारः ॥४७॥ पत्युर्वियोगो विपिने निवासो राज्यं च नष्टं तनयस्य शोकः । तदद्य दौर्भाग्यहुताशनो मे विनिर्दहेदेव करालवह्निम् ||४८ ||
हाहेति - हा हा हा बत हा इति दुःखसूचकान्यव्ययानि, हतास्मि नष्टास्मि, इदमेतत् किं किन्नाम, दुश्राव्यमश्रवणीयम्, अत्याहितमापतितम् हा पुत्र हा सुत, क्व कुत्र गतोऽसि यातोऽसि, हा हतविधे दुर्दैव, मत्पुत्रके मत्सुते, क्रूरो नृशंसोऽसि, हा नाथ हा स्वामिन् त्वं भवान्, उदारमुत्कृष्टं पुण्यचरितं सुकृतप्रभावो यस्य तथाभूतोऽसि यस्मात् कारणात्, इमां मदनुभूयमानाम्, दुर्दशां दुष्टावस्थाम्, अज्ञात्वा अविदित्वा सुरलोकस्य स्वर्गस्य सौख्यलहरी सातपरम्पराम् विन्दन् लभमानः, चिरं दीर्घकालेन, मोदसे हृप्यसि । शार्दूलविक्रीडितच्छन्दः ||१५||
हा पुत्रेति — हा पुत्र हा सुत, हा कुरुवंशमित्र हा कुरुकुलसूर्य, सुलक्षणं गात्रं यस्य तत्सम्बुद्धौ सुलक्षणमात्र हे सुचिह्नशरीर, हा पयोजे इव कमले इव विशाले दीर्घे नेत्रे यस्य तत्सम्बुद्धौ हे पयोजविशालनेत्र, एतावन्तमियत्परिमाणम्, कालं समयं यावत्, मन्दमल्पं भाग्यं सुकृतं यस्यास्तस्याः क्षीणपुण्याया इति यावत्, तव भवतः, मुखचन्द्रदर्शनं वदनविधुविलोकनमपि दुर्लभं दुष्प्राप्यम् अभूत् जातम् । अपि च किञ्च ।
पत्युरिति- -यस्य पुत्रस्य तव उदद्याज्जन्मनः, दववह्निकल्पं दावानलतुल्यम् अधिकं प्रभूतम्, पत्युर्वल्लभस्य, वियोगं विरहम्, स्वपुरं स्वनगरम्, विसृज्य त्यक्त्वा, काननतलेऽरण्यभूमौ वासञ्च निवासञ्च, अथ, जीवितं च जीवनञ्च, अनुभवामि दधामि, सोऽयं सुतः, यदि चेत्, ईदृशी कथा यस्य स ईग्वृत्तान्तः, अस्ति, तर्हि, अद्येदानीम् कथं केन प्रकारेण वर्ते जीवामि ॥ ४६ ॥
सत्यन्धर इति - कृतघ्नवरेण कृतघ्नशिरोमणिना, खलशेखरेण दुर्जनश्रेष्टेन येन काष्टाङ्गारेण, युधि समरे, तव भवतः, पिता सत्यन्धर एतन्नामधेयः, व्यापादितो मारितः तेनैव काष्टाङ्गारेणैव, हे पुत्र हे वत्स, यदि चेवम्, त्रिदिवं स्वर्गम्, गमितः प्रापितः, तर्हि, हा हन्त, सैयः काष्टाङ्गारः 'सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपे सन्धिः, कुरुवंशलतायां कुरुगोत्रवल्लय कुठारः परशुरिति कुरुवंशलताकुठारः, जात इति शेषः । वसन्ततिलकावृत्तम् ॥४७॥
पत्युरिति-- यद्यस्मात्कारणात्, पत्युर्वल्लभस्य, वियोगो विरहः, विपिने वने, निवासोऽधिष्ठानम्, राज्यं साम्राज्यम्, नष्टं हतम्, तनयस्य पुत्रस्य, शोकश्च मृत्युश्च प्राप्त इति शेषः, तत्तस्मात्कारणात्, अद्येदानीम्, मे मम, दौर्भाग्यमेव दुर्दैवमेव हुताशनो वह्निरिति दौर्भाग्यहुताशनः, करालवह्निं भयङ्करानलम्, विनिर्दहेदेव भस्मसात्कुर्यादेव । करालवह्नेरपि भयङ्करो मम दौर्भाग्यानल इति भावः ||४८ ||