SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः तदुत्पत्तिदिने जाता वयं सर्वे महात्मना । तेन सार्धं विशाम्पत्या पोपिताश्व निजालये ।। ४ ।। तदनु सकलविद्याः शीलयन्व्याधयूथं पशुगणविनिवृत्त्यै चापपाणिय॑जेष्ट । तदनु खचरकन्यां प्राप्य गन्र्धवदत्तां परिपदवरवीणाविद्यया कीर्तिमाप ॥४३।। ततश्च वासन्तिकेपु वासरेपु वनविहारान्निवर्तमानेपु पौरेपु, दुरन्तमददुरासदस्य काष्ठाङ्गारपदन्तावलस्य मदभङ्ग विधाय गुणमालां परिपालयन्नचिरेणैव तां परिणिन्ये । तमेनं कोपवशतः काष्ठाङ्गारः खलाग्नणीः। इत्योक्ते, 'तत्क्षणं हा दावपावकदग्धायां वनवल्लयाँ कुठारमर्पयन्ति भवन्तः' इति दम्भीलिनिहता भुजगीव मूर्होन्मीलितचेतना भुवि पेतुषी सा माता क्रमेण कथञ्चिलब्धसंज्ञा, व्यवसितः सोऽयं निजभूम्नैव रक्षितः ।। ४४ ॥ इति निरवशेपमुक्तापि, शोकरणरणिकाक्रान्तचित्ता प्रलापमेवमातेने । तदुत्पत्तिदिन इति-वयं सर्वे, तस्योपत्तेर्दिनं तदुत्पत्तिदिनं तस्मिन् , जाताः समुन्पन्नाः, तेन महात्मना महापुरुषेण, सार्धं समम्, विशांपन्या गन्धोत्कटेन, निजालये निजभवने, पोपिताश्च पालिताश्च ॥४२॥ तदन्विति--तदनु तदनन्तरम्, सकलविद्या निखिलविद्याः शालयन् समभ्यस्यन् , चापपाणिर्धनुहस्तः पशुगणस्य गवादिसमूहस्य विनिवृत्त्यै प्रत्यावर्तनाय, व्यावयूथं वनचरसमूहम्, व्यजेष्ट विजितवान् , 'विपराभ्यां जेः' इत्यान्मनेपदम्, तदनु तदनन्तरम्, गन्धर्वदत्तामेतन्नामधेयाम, खचरकन्यां विद्याधरपुत्रीम्, प्राप्य लब्ध्वा, परिपदि सभायाम, वरवीणाविद्यया श्रेष्टतमपरिवादिनीवादनकौशलेन, कीर्ति यशः, आप लेभे । मालिनीच्छन्दः ॥४३॥ ततश्चेति-ततश्च तदनन्तरञ्च, वासन्तिकेषु वसन्तसम्बन्धिपु, वासरेपु दिवसेषु, पौरेपु नागरिकपु, वनविहारात् काननपर्यटनात्, निवर्तमानेपु प्रत्यागच्छन्सु सन्सु, दुरन्तेन मद्देन दुरासदस्तस्य दुष्टदानदुष्प्राप्यस्य, काष्टाङ्गारपट्टदन्तावलस्य राजप्रमुखवारणस्य, मदभङ्गं गर्वनाशम्, विधाय कृत्वा, गुणमालामेतन्नाम्नी श्रेष्टिपुत्रीम्, परिपालयन् रक्षन्, अचिरेणैवाल्पेनैव कालेन, तां गुणमालाम्, परिणिन्ये परिणीतवान् । तमेनमिति–खलाग्रणी दुर्जनाग्रेसरः, काष्टाङ्गारस्तन्नामनृपः, कोपवशतः क्रोधावेशेन, एनं तम् जीवन्धरम्, हन्तुं मारयितुम् इत्य|क्त इति इति पूर्वोत्तप्रकारेण, अर्धोक्त सामिभाषिते, तन्क्षणं तत्कालम्, 'हा' इति खेदे, दावपावकेन वनाग्निना दग्धायां प्लुष्टायाम्, वनवल्लयां गहनलतायाम्, भवन्तो यूयम्, कुटारं परशुम्, अर्पयन्ति ददति, इतीत्थं निवेदयन्तीति शेषः, दम्भोलिनिहता वज्रताडिता, सुजगीच पन्नगीव, मूच्छा मोहातिरेकेणोन्मीलिता निरस्ता चेतना संज्ञा यस्यास्तथाभूता, भुवि पृथिव्याम्, पेतुर्षा पतिता, सा पूर्वदर्शिता, माता पुण्यजननी, क्रमेण क्रमशः कथञ्चित्केनापि प्रकारेण, लब्बसंज्ञा प्राप्तचैतन्या, सती । व्यवसित इति-व्यवसितः कृतोद्योगः, आसीदिति शेषः, किन्तु सोऽयं जीवन्धरः, निजभूम्नव स्वकीयमाहात्म्येनैव, रक्षितस्त्रातः ॥४४॥ इतीति-इत्येवम्, निरवशेष समग्रं यथा स्यात्तथा, उक्तापि कथितापि, शोकरणरणिका शोकोत्कण्ठा तयाऽऽक्रान्तं व्याप्तं चित्तं मनो यस्याः सा, एवं वक्ष्यमाणप्रकारेण, प्रलापं परिदेवनम्, आतेने विस्तारयामास ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy