________________
१५०
जीवन्धरचम्पूकाव्ये संसिच्य शुण्डादण्डविधृतविशालपद्मपत्रमातपत्रीकुर्वन्तं वशावल्लभम् , कुत्रचित्सावज्ञं लोचनयुगलं क्षणमुन्मील्य पुनः सुपुप्सुं पञ्चवदनसञ्चयम् , सविस्मयमवलोकमानाः, वचन तापसजनसङ्कलप्रदेशे प्रविशमानाः, क्रमेण किञ्चित्तरुमूलमावसन्तीं पुण्यमातरं पश्यामः स्म ! यस्या मूर्तिमलिनवसनावेष्टिता क्षामभूता
चन्द्रस्यैका कृशतमकला ध्वान्तरुद्धव भाति | वक्त्रं शुष्यत्सरसिजनिभं शोकदीना च वाणी
चिन्तादीर्घश्वसितमनिशं मूनि बद्धा जटा च ॥ ४० ॥ तया मात्रा दृष्टमात्रेण कुत्रत्या इति पृष्टा एवमुत्तरं वक्तुमुपक्रम्य,
"कश्चिज्जीवकविख्यातो विपश्चिद्वन्दशेखरः।
अभाद्राजपुरे सोऽयमस्माकं जीवनौपधम् ।। ४१ ॥ अहं खलु राजश्रेष्ठिनः सुभद्रायां जातः पद्मास्यः, अयं सत्यन्धरमहाराजसचिवात्सागरदत्तायां जातः श्रीदत्तः, अयं पुनरचलात्तिलोत्तमायां जातो बुद्धिपेणः, एष किल विजयदत्तात्पृथ्वीमत्यां जातो देवदत्तः, इमौ पुनर्जीवन्धरानुजस्य नन्दाच्यस्यानुजौ नपुलविपुलौ, इत्यादिक्रमेण सर्वेषां नामधेयान्यभिधाय,
मण्डलम्, तदङ्ग तच्छरीरे, निक्षिप्य निधाय, पयोजरजोभिः कमलपरागैः सुगन्धिनः सुरभियुक्ता ये शीतल. जलशीकरनिकराः शिशिरसलिलकणकलापास्तान् , तन्मुखे तद्वक्त्रे, संसिच्य समुच्य, शुण्डादण्डेन करेण विटतं गृहीतं यद् विशालपद्मपत्रं दीर्घकमलपर्णम् तत् , आतपत्रीकुर्वन्तं छत्रीकुर्वन्तम्, वशावल्लभं हस्तिनापतिम्, कुत्रचित्क्वचित् , सावज्ञं सानादरम्, यथा स्यात्तथा, लोचनयुगलं नयनयुगम्, क्षणमल्यकालं यावत् , उन्माल्य समुद्घाट्य, पुनर्भूयः, सुषुप्सुं स्वपितुमिच्छुम्, पञ्चवदनसञ्चयं, पञ्चाननसमूहम्, सविस्मयं साश्चर्य यथा स्यात्तथा, अवलोकमानाः पश्यन्तः, कचन कुत्रचित् , तापसजनसंकुले तपस्विजनव्याप्ते, प्रदेशे स्थाने, प्रविशमानाः प्रविशन्तः, वयम्, क्रमेण क्रमशः, किञ्चित्तरमूलं किञ्चिद्वृक्षस्याधस्तात् , आवसन्ती कृतनिवासाम्, पुण्यमातरं पुण्यजननीम्, पश्यामः स्मः समवालोकयाम ।
___ यस्या इति-यस्याः पुण्यजनन्याः, मलिनवसनेन मलीमसवस्त्रेणावेष्टिता परिवृता, क्षामभूता कृशीभूता, मूर्तिः शरीरम्, ध्वान्तरुद्वा तिमिरावृता, चन्द्रस्य शशिनः, एकाऽद्वितीया, कृशतमकलेव क्षीणतमषोडशभाग इव, भाति शोभते । वक्त्रं वदनं शुष्यच्छुप्कीभवद् यत्सरसिज कमलं तेन निभं सदृशम्, वाणी च भारती च, शोकदीना खेदप्राप्तदैन्या, श्वसितं श्वासोच्छासः, चिन्तादीर्घमाधिविस्तृतम्, जटा च केशसमूहश्च, मुनि शिरसि, अनिशं निरन्तरम्, बद्धा संयता, अस्तीति शेपः । मन्दाक्रान्ताच्छन्दः ॥४०॥
तयेति-तया पूर्वोक्तया, मात्रा जनन्या, दृष्टमात्रेण, कुत्रभवाः कुत्रत्याः वत्याः, यूयमिति, पृष्टा अनुयुक्ताः, वयम्, एवमनेन प्रकारेण, उत्तरं प्रतिवचनम्, वक्तुं निगदितुम्, उपक्रम्य प्रारभ्य ।
कश्चिदिति राजपुरे एतन्नामनगरे, जीवकविख्यातो जीवन्धरनामप्रसिद्धः विपश्चिद्वृन्दशेखरो विद्वन्दशिरोमणिः, कश्चित् कोऽपि जनः,अभात् शुशुभे, सोऽयं जनः, अस्माकं सर्वेपाम्, जीवनौपचं सञ्जीवनौषधम्, आसीदिति शेपः ॥४१॥
अहं खल्विति-अहं खलु निश्चयेन, राजश्रेष्टिनो राजवणिक्पतेः, सुभद्रायां तन्नामपत्न्याम्, जातः समुत्पन्नः, पक्षास्य एतन्नामा, अयमेपः, सत्यन्धरमहाराजस्य सचिवो मन्त्री तस्मात् , सागरदत्तायामेतन्नामपन्न्याम्, जातः समुद्भूतः श्रीदत्त एतन्नामा, अयं पुनः, अचलात् एतन्नाम्नः, तिलोत्तमायामेतबामपन्याम्, जातः समुत्पन्नः, बुद्धिपेण एतन्नामा, एप किल, विजयदत्तात् एतन्नामधेयात्, पृथ्वीमत्यामेतबास्न्याम्, जातः समुत्पन्नः, देवदत्त एतन्नामा, इमो पुनः, जीवन्धरानुजस्य जीवकलघुभ्रातुः, अनुजौ कनिष्ठौ, नपुलविपुलावेतन्नामधेयौ, इत्यादिक्रमेण इतिप्रभृतिक्रमेण, सर्वेषां निखिलानाम्, नामधेयानि नामानि अभिधाय निगद्य।