________________
अष्टमो लम्भः
तदनु निखिलमाश्रयं पुरोधाय पुरान्निर्याय पर्यायेणातिलङ्घितबहुदूराध्वानः पत्रिकुलनिश्वाननिरुद्धदिशावकाशामरण्यानीं प्रविश्याभ्रंलिहतरूपण्डमण्डितदण्डकारण्यभागपरिकल्पितपटसननिकटतटे घोटपटलं विधाय विश्रान्तिसुखमनुभवामः स्म । तत्र च । सौधावलीमतिशयालुभिरुन्नतैस्तैः
शुभैः पटाय गृहैः कलितं निवासम् ।
नूनं भवद्विरहकातरतत्पुरश्री
१४६
रस्माभिरागतवतीति वयं स्म विद्मः ॥ ३६ ॥
तदन्वत्यद्भुतसंनिवेशं दण्डकारण्यप्रदेशमवलोकितुकामा वयम्, तत्र तत्र विहृत्य, क्वचन विजृम्भितकुम्भीन्द्रकुम्भस्थलमुक्तमुक्ताकुलसिकतिलं वनविहरणश्रान्तनिमज्जत्पुलिन्दसुन्दरीवदनाभोजपरिष्कृतं गभीरमहाहृदम्, कुत्रचिद्वलीमुख करकम्पितमही रुहशाखानिपतितपर्णौघसमाघातकुपितसुप्तसमुत्थितशार्दूलधाव्य मानशवरजनसरभसारूढाभ्रंलिहानोकहचयम्, क्वचित्तरुमूलसुखसुप्रानि तमालस्तोमनिभानि भल्लूककुलानि, कचित्तपनकिरणसन्तप्रवशां पद्माकरसमीपमानीय निजकर निर्मूलितवालमृणालवलयं तदङ्गे निक्षिप्य पयोजरजः सुगन्धिशीतलजलशीकरनी करांस्तन्मुखे
येषां ते, श्रीमतो भवतो भविष्यद्वयमाणमवलोकनं यस्मात्तथाभूतं यत्पुण्यं तस्य पाका उदयास्तः, आश्वा सिताः सन्तोषिताः, देव्या गन्धर्वदत्तया दयया कृपया, दुतं शीघ्रं दत्तो हस्तो येभ्यस्ते तथाभूताः, वयं पद्मास्यादयः, हयपाणिवेपा अश्वविक्रेतृनेपथ्याः बभूविम आस्म । वसन्ततिलकावृत्तम् ॥ ३८ ॥
तदन्विति — तदनु तदनन्तरम्, निखिलं समग्रम्, अश्वानां समूहोऽश्वीयं तत् 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति समूहार्थे छप्रत्ययः । पुरोधाय पुरस्तात्कृत्वा, पुरान्नगरात, निर्याय निर्गत्य पर्यायेण क्रमशः, अतिलङ्घितः समतिक्रान्तो बहुदुरोऽध्वा यैस्ते, तथाभूता वयम्, पत्रिकुलस्य पक्षिसमूहस्य, निध्वानेन शब्देन निरुद्धो संरुद्धो दिशावकाशो काष्ठान्तरालं यस्यां ताम्, अरण्यानीं महावनीम्, प्रविश्य प्रवेशं कृत्वा, अभ्रंलि हैर्गंगनचुम्बिभिस्तरुपण्डैर्वृत्तसमूहैर्मण्डितः शोभितो यो दण्डकारण्यभागो दण्डकवनप्रदेशस्तस्मिन्परिकल्पितानि यानि पटसदनानि तेषां निकटतटेषु समीपप्रान्तेपु, घोटकपटलं हयसमूहम्, विधाय कृत्वा, विश्रान्तिसुखं विश्रामसानम्, अनुभवामः स्म - अन्वभूवम् । तत्र च दण्डक वने ।
सौधावलीमिति – सौधानां भवनानामावली पङ्क्तिस्ताम्, अतिशयालुभिरतिक्रामद्भिः, उन्नतैस्तुङ्गैः, शुभ्रैः शुक्लैः, तैः प्रसिद्धैः, पटायतगृ हैर्वस्त्र बिस्तृत निकेतनैः, कलितं निर्मितम्, निवासमावसथम्, नूनं निश्चयेन भवहिरहेण त्वदीयविप्रयोगेण कातरा भीता या तत्पुरश्रीस्तन्नगरलक्ष्मीः सा, अस्माभिः सह, आगतवती समागता, इतीत्थम्, वयं विद्मो जानीमः । वसन्ततिलकावृत्तम् | उत्प्रेक्षा ॥३६॥
"
तदन्विति—- तदनु तदनन्तरम्, अत्यद्भुतोऽत्याश्चर्यकरः सन्निवेशो रचना यस्य तम्, दण्डकारण्यप्रदेशं दण्डकवनाभोगम्, अवलोकितुकामा द्रष्टुमनसः, वयम्, तत्र तत्र स्थानेषु, विहृत्य विहारं कृत्वा, वचन कुत्रचित् विजृम्भितानि विदीर्णानि यानि कुम्भीन्द्रकुम्भस्थलानि गजेन्द्रगण्डस्थलानि तेभ्यो मुक्तानि पतितानि यानि मुक्ताकुलानि मौक्तिकसमूहास्तैः सिकतिलं सिकतायुक्तम्, वनविहरणेन काननविहारेण विश्रान्ता प्राप्तखेदाः अतएव निमज्जन्त्योऽवगाहमाना याः पुलिन्दसुन्दर्यः शबर्यस्तासां वदनाम्भोजैर्मुखकमलैः परिष्कृतं सहितम्, गभीरश्वासौ महाहदश्चेति तम् अगावजलाशयम्, कुत्रचित्क्वचित्, वलीमुखानां वानराणां करैर्हस्तैः कम्पिता वेपिता या महीरुहशाखा वृक्षलतास्ताभ्यो निपतिताः स्खलिता ये पणधाः पत्रनिचयास्तेषां समाघातेन प्रहारेण कुपिताः क्रुद्धा ये सुप्तसमुत्थिताः शयनानन्तरं कृतोत्थानाः शार्दूलाः सिंहास्तैधन्यमाना अनुगम्यमाना ये शबरजना वनचरजनास्तैः सरभसं सवेगं यथा स्यात्तथारूढः समधिष्ठितो योलिहानोकहचयस्तुङ्गपादपसमूहस्तम्, क्वचित्कुत्रचित् तरुमूलेषु वनस्पतितलेषु सुखसुप्तानि सुखेन कृतशयनानि, तमालस्तोमनिभानि तापिच्छसमूहसदृशानि भल्लुककुलानि ऋक्षनिकुरुम्बानि, क्वचित् कुत्रचित्, तपनस्य सूर्य॑स्य किरणैर्मयूखैः सन्तप्ता सम्प्राप्ततापा या वशा हस्तिनी ताम्, पद्माकरसमीपं कासारनिकटम्, आनीय प्रापय्य, निजकरेण स्वकीयशुण्डादण्डेन निर्मूलितं समुत्पादितं यद् बालमृणालवलयं कोमलविस
"