________________
१४८
जीवन्धरचम्पूकाव्ये पुरतोरणमतीत्य चलितः, चिरतरविलोकने कुतूहलसंमिलितपौरजननिरन्तरे रथ्यान्तरे स्तम्बेरमकदम्बकं कादम्बिनीति मत्वा समागताभिरिव सौदामिनीभिः कनकवेत्रलताभिर्वितीर्णावकाशे विगाहमानः, पटुपटहकाहलीडिण्डिमझझरझल्लरीमुरजशङ्खप्रमुखवाद्यरवविहितोपहूतिभिः काभिश्चित्सामिकृतमण्डनकलाभिः करकमलसंरुद्धनीविवन्धनकनकचेलाभिरबलाभिः काभिश्चित्सरभसका ञ्चीपददत्तमुक्ताहारवल्लरीभिः कङ्कणपदसमर्पिततुलाकोटिर्वधूटीभिरत्युन्नतहाङ्गणवातायनदत्तदृष्टिभिर्निनिमेपं विलोक्यमानः क्रमेण राजभवनमाससाद । कुशलानुयोगमथ कौरवः सखीन्
बहुधा विधाय मुदितान्तरः परम् । समशेत सोऽयमयथापुरोदिता
दुपचारकौशलवशाद्विशेषतः ॥३७।। कदाचिदेकान्ते भृशमपूर्वसम्मानसमाहितसंशयडोलायमानमनस्सरोजेन कुरुराजेन चोदिततन्निदानानां सहचराणां तिलकायमानः पद्मवदनः प्रत्युत्तरशैलीमेवमुपादत्त । स्वामिस्त्वदीयविरहानलदग्धदेहाः
____ श्रीमद्भविष्यदवलोकनपुण्यपाकैः । आश्वासिताश्च दयया द्रुतदत्तहस्ता
देव्या बभूविम वयं हयपाणिवेषाः ॥ ३८ ॥ बलं सैन्यम्, पुरतोऽग्रे, विधाय कृत्वा, पुरतोरणं नगरबाह्यद्वारम्, अतीत्य समुलक्य, चलितो गतः, चिरतरं सुदीर्घकालेन भाव्यं विलोकनं दर्शनं यस्य तस्मिन्, कुतूहलेन कौतुकेन सम्मिलिताः संगता ये पौरजना नागरिकनरास्तैर्निरन्तरे व्याप्ते, रथ्यान्तरे मार्गमध्ये, स्तम्बरमकदम्बकं गजमूहम्, कादम्बिनीति मेघमालेति मत्वा, बुद्ध्वा, समागताभिः प्राप्ताभिः, सौदामिनीभिरिव शम्पाभिरिव, कनकवेत्रलताभिः सौवर्णवेत्रवल्लरीभिः, विस्तीर्णो विस्तारितोऽवकाशो यस्य तस्मिन् तथाभूते सति, विगाहमानः प्रविशन् , पटुपटहश्च काही च डिण्डिमश्च झझरश्च झल्लरी च मुरजश्च शङ्खश्चेति पटुपटहादयः ते प्रमुखा येषु तथा भूतानि यानि वाद्यानि तेषां रवेण शब्देन विहिता कृतोपहूतिरामन्त्रणं यासां ताभिः, काभिश्चित्काभिश्चन, सामिकृतार्धकृता मण्डनकला भूषणधारणकला यासां ताभिः, करकमलेर्हस्तारविन्दैः संरुद्धानि गृहीतानि नाविबन्धनकनकचेलानि ग्रन्थिबन्धनसुवर्णवस्त्राणि याभिस्ताभिः, काभिश्चित्कतिपयाभिः सरभसं सवेगं यथा स्यात्तथा काञ्चीपदे मेखलास्थाने दत्ता अर्पिता मुक्ताहारवल्लो मौक्तिकहारलता याभिस्ताभिः, कङ्कणपदे हस्ताभरणस्थाने समर्पिताः प्रदत्तास्तुलाकोटयो नूपुरा यासां ताभिः, अत्युन्नतानां तुङ्गतमानां हाङ्गणानां भवनाजिराणां वातायनेषु गवाक्षेपु दत्ता समर्पिता दृष्टिनयनं याभिस्ताभिः, वधूटीभिश्चिरण्टीभिः, युवतिभिरिति यावत्, निर्निमेषं पच्मस्पन्दरहितं यथा स्यात्तथा, विलोक्यमानो दृश्यमानः, सन् , क्रमेण क्रमशः, राजभवनं नरेन्द्रनिकेतनम्, आससाद प्राप ।
कुशलानुयोगमिति-अथानन्तरम्, बहुधा नानाप्रकारेण, सखीन् मित्राणि, कुशलानुयोगं क्षेमप्रश्नम्, विधाय कृत्वा, परमत्यन्तम्, मुदितान्तरः प्रहृष्टमानसः, सोऽयं प्रसिद्धः, कौरवो जीवन्धरः, अयथापुरोदितादभूतपूर्वात्, उपचारकौशलवशात् शिष्टाचारचातुर्यवशात्, विशेषतः सातिशयम, समशेत संशयञ्चकार । मजुभापिणीच्छन्दः ॥३७॥
कदाचिदेकान्त इति-कदाचिजातुचित्, एकान्ते रहसि, भृशमत्यन्तम्, अपूर्वसम्मानेन विशिष्टादरेण समाहितः समुत्पादितो यः संशयः संदेहस्तेन डोलायमानं चञ्चलं मनस्सरोजं चित्तारविन्दं यस्य तेन, कुरुराजेन जीवन्धरण, चोदितं पृष्टं तन्निदानं तत्कारणं येषां तेषाम्, सहचराणां सखीनाम्, तिलकायमानो विशेषकायमानः प्रधान इति यावत्, पद्मवदनः पद्मास्यः, एवमनेन प्रकारेण, प्रत्युत्तरशैली प्रतिवचनपरम्पराम्, उपादत्त जग्राह ।
स्वामिन्निति-हे स्वामिन् हे नाथ ! त्वदीयविरहानलेन तावकवियोगपावकेन दग्धो देहो विग्रहो