________________
अष्टमो लम्भः
शब्देकार्णवमन्नमेतमखिलं लोकं समीक्ष्य क्षणाद्
देवा व्योम्नि समिद्विलोकनकलाबद्धाद्रा मेदुराः । युद्धारम्भ निरस्ततन्द्रकुरुराड्वाणासनादुद्भता
न्नाराचान्निविडप्रभान्नभसि ते सान्ध्याम्बुदात्मेनिरे ||३४||
पद्मास्यमुख्यकरकोमलरक्तकान्ति
कल्लोलपल्लवितकार्मुकवल्लरीभ्यः ।
नामाङ्किता प्रचलिता च शिलीमुखालि
१४७
र्जीवन्धरस्य पदपद्मसमीपमाप ||३५||
द्विरेफः शरवारोऽयं तस्य पादाम्बुजान्तिके । भ्रमंश्चकार तद्युक्तं मित्रसान्निध्यसूचनम् ||३६||
तद्नु नामाङ्किततदीयवाणगणवीक्षणेन समुन्नतध्वजचिह्नसन्दर्शनेन च एते वयस्या इति निश्चित्य, नरपतिना साकं तदभ्याशमागतः संमदविकसितरोमकूपकोर किततनुलतः कुरुपतिः, सबहुमानं तानेकैकशः सम्भाव्य, निजानुज्ञया रथारूढैः सहचरनिकरैः पुरस्कृतः पार्श्वगतस्यन्दनकन्दलितस्थितिना महीपतिना सम्भाषमाणः, सिन्धुरगन्धर्वशताङ्गपद्गशवलं बलं पुरतो विधाय शब्दात्मता शब्दैकरूपता ताम्, अन्वभूत् अनुभवति स्म, भुवनत्रयं शब्दकमयमभूदिति भावः । पृथिवीच्छन्दः ॥३३॥
शब्दै कार्णवमग्नमिति - क्षणादल्पेनेव कालेन, एतम्, अखिलं सम्पूर्णम्, लोकं भुवनम्, शब्दैकार्णवमग्नं शब्दैकसागर निमग्नम्, समीच्य दृष्ट्वा समिद्विलोकन कलायां युद्धदर्शन लायां होत आदर ः सम्मानं यैस्तथाभूताः, अतएव, व्योम्नि गगने, मेदुरा मिलिताः, ते प्रसिद्धाः, देवा अमराः, युद्धारम्भे समरप्रारम्भे निस्तन्द्रो निरालस्यो यः कुरुराड् जीवन्धरस्तस्य वाणासनानुपः उद्भुतान् निष्क्रान्तान्, निविडा सान्द्रा प्रभा दीप्तिर्येषां तान् नाराचान् बाणान्, नभसि वियति, सन्ध्यायां भवाः सान्ध्यास्ते च तेऽम्बुदाचेति सान्ध्याम्बुदास्तान् सन्ध्यामेघान् मेनिरे मन्यन्ते स्म । भ्रान्तिमान् । शार्दूलविक्रीडित
च्छन्दः ॥३४॥
पद्मास्येति--पद्मास्यो जीवन्वरसखा मुख्यः प्रधानो येषां तेषां कराणां हस्तानां कोमलरक्तकान्तिकल्लोलैर्मृडुलारुणडीप्तितरङ्गैः पल्लविताः किसलयिता याः कार्मुकवल्लयों धनुर्लतास्ताभ्यः, नामाङ्किता नामधेयचिह्निता, प्रचलिता च प्रयाता च, शिलीमुखालिर्वाणपक्तिः पक्षे भ्रमरश्रेणिश्च, जीवनवरस्य सात्यन्धरेः पदपद्मसमीपं चरणकमलपार्श्वम्, आप प्राप्नोत् । रूपकालङ्कारः । वसन्ततिलकावृत्तम् ॥३५॥
द्विरेफ इति — तस्य जीवकस्य, पादाम्बुजान्तिकं चरणकमलसमीपे भ्रमन् संचरन्, अयं शरवारो वाणसमूहः, यत्, मित्रसांनिध्यसूचनं सूर्यसामीप्यनिवेदनं पचे वयस्यसामीप्यनिवेदनम्, चकार विदधे तद् युक्तमुचितम् । श्लेषानुप्राणितो रूपकालङ्कारः ॥३६॥
तदनु नामाङ्कितेति - तदनु तदनन्तरम्, नामाङ्किता नामचिह्निता ये तदीयवाणगणास्तत्सम्बन्धि शरसमूहास्तेषां वीक्षणेन दर्शनेन, समुन्नतानां ध्वजानां चिह्नस्य लिङ्गस्य संदर्शनेन च समवलोकनेन च, एते वयस्या इमे सखायः, इतीत्थम्, निश्चित्य निश्चयं कृत्वा, नरपतिना नरेन्द्रेण, साकं सार्धम्, तदभ्याशं तन्निकटम्, आगतः समायातः, संमदेन हर्षेण विकसिताः प्रकटिता ये रोमकूपा लोमसमूहास्तैः कोरकिता कुड्मलिता तनुलता शरीरवल्ली यस्य तथाभूतः कुरुपतिर्जीवन्धरः, सबहुमानं सन्मानसहितं यथा स्यात्तथा, तान् पद्मास्यादीन्, एकैकशः प्रत्येकं सम्भाव्य समाहत्य निजानुज्ञया स्वकीयादेशेन, रथारूढैः स्यन्दनाधिष्ठितैः, सहचरनिकरैर्मित्रसमूहैः, पुरस्कृतोऽग्रेकृतः पार्श्वगते समीपस्थिते स्यन्दने रथे कन्दलिता सम्भूता स्थितिः सद्भूतिर्यस्य तेन महीपतिना राज्ञा, सह, सम्भापमाणो वार्तालापं कुर्वाणः, सिन्धुराश्च गजाश्च, गन्धर्वाश्च हयाश्च शताङ्गाश्च रथाश्च पद्गाश्च पतयश्चेति सिन्धुरगन्धर्वशताङ्गपदगं तेन शबलं चित्रितम्,