________________
१५४
जीवन्धरचम्पूकाव्ये सा पुत्रमालोक्य पयःप्रवाहिघनस्तनी बाष्पनिरुद्ध नेत्रा । शुशोच तं चेतसि रुक्मिणीव प्रसूनवाणं चिरकालदृष्टम् ॥ ५२ ॥ पदाम्बुजाते प्रणतं कुमारमाशीर्भिगकीर्य तदा भुजाभ्याम् ।
आश्लिष्टवत्याः प्रबभूव तस्या आदेशवच्छोकपदे प्रमोदः ।। ५३ ।। तावद्यक्षाध्यक्षोऽपि, तयोः समक्षमागत्य, स्नानसुगन्धिलेपनप्रसूनमालिकामणिभूपणदुकूलवसनादिभिः सम्पूज्य, प्राज्यतमस्नेहेन कुमारप्रमुखान्देवीं च तैस्तैर्मधुरालापैः समाश्वास्य, बाभास्यमानेन विमानेन क्रमेण निजास्पदमाससाद।
अगण्यपुण्यं तनयं वरेण्यमुवाच मातानघशीलपूता। पितुः पदं ते किमु वत्सरा-ते भवेन्निपातेन रिपोः कृतेन ।। ५४ ॥ प्रसूगिरमिमां श्रुत्वा प्रसूतपृथुकौतुकः ।
एवमुत्तरमादत्त भावं तस्या विदन्नसौ ।। ५५ ॥ कुम्भीन्द्रशैलविगलद्वनदानधारा
सन्निर्भराणि चलखड्गसमावृतानि ।
द्विजालिदन्तपङ्क्तिर्यस्यास्ताम्, जटावल्लीभिरसंस्कृतकेशलताभिर्वेल्लितं वेष्टितं मस्तकं शिरो यस्यास्ताम्, देवीं विजयाम्, लुलोके ददर्श । शार्दूलविक्रीडितच्छन्दः ॥ ५१ ॥
सा पुत्रमिति-सा विजया, पुत्रं सुतम्, जीवन्धरमिति यावत् , आलोक्य दृष्ट्वा, पयःप्रवाहिनौ क्षीरप्रवाहिणौ धनस्तनौ पीनवक्षोजौ यस्याः सा, बाप्पैरश्रुभिनिरुद्ध व्याप्ते नेत्रे नयने यस्यास्तथाभूता, सती, चिरकालदृष्टं दीर्घकालावलोकितं तम् जीवन्धरम्, प्रसूनबाणं कामं प्रद्युम्नमिति यावत् , रुक्मिणीव श्रीकृष्ण - पट्टराज्ञीव, चेतसि मनसि, शुशोच शोचति स्म ॥ ५२ ॥
पदाम्वुजात इति तदा तस्मिन् काले, पदाम्बुजाते चरणकमले, प्रणतं विनतम्, कुमारं जीवन्धरम्, आशीभिराशंसावचनैः, आकीर्य व्याप्तं कृत्वा, भुजाभ्यां बाहुभ्याम्, आश्लिष्टवत्या आलिङ्गितवत्याः, तस्या विजयायाः, शोकपदे शोकस्थाने, आदेशवत् व्याकरणशास्त्रप्रसिद्धादेश इव, प्रमोदो हर्पः, प्रबभूव समजायत । यथा व्याकरणे 'अस्तेर्भूः' इत्यादिभिः सूत्रैरस्तिप्रभृतिषु स्थानेषु भूप्रभृतय आदेशा भवन्ति तद्वद्देव्याः शोकस्थाने हर्षादेशो बभूवेति भावः ॥ ५३॥
तावदिति-तावत् तावता कालेन, यक्षाध्यक्षोऽपि कुक्कुरचरः सुदर्शनयक्षोऽपि, तयोर्मातापुत्रयोः, समक्षं पुरस्तात् , आगत्य समेत्य, स्नानञ्च सुगन्धिलेपनञ्च प्रसूनमालिका च मणिभूषणानि च दुकूलवसनानि चेति स्नानसुगन्विलेपनप्रसूनमालिकामणिभूपणदुकूलवसनानि तान्यादौ येषां तैः अभिषेकसुगन्धितद्रव्यलेपनपुष्पमालारत्नालङ्कारक्षौमवस्त्रप्रभृतिभिः, सम्पूज्य समर्थ्य, प्राज्यतमस्नेहेन प्रकष्टतमप्रेम्णा, कुमारप्रमुखान् जीवन्धरप्रधानान् , देवीञ्च विजयामातरञ्च, तैः प्रसिद्धैः, मधुरालापैर्मधुराभाषणैः, समाश्वास्य सम्बोध्य, बाभास्यमानेनातिशयेन शोभमानेन, विमानेन व्योमयानेन, क्रमेण क्रमशः, निजास्पदं स्वस्थानम्, आससाद प्राप।
अगण्यपुण्यमिति-अनघेन निर्दोषेण शीलेन सदाचारेण पूता पवित्रा, माता विजया, अगण्यं पुण्यं यस्य तमपरिमितसुकृतम्, वरेण्यं श्रेष्टतमम्, तनयं पुत्रम्, उवाच जगाद, कृतेन विहितेन, रिपोः शत्रोः, निपातेन मृत्युना, वत्सरान्ते वर्षान्ते, किमु, ते तव, पितुर्जनकस्य, पदं स्थानं राज्यमिति यावत् , भवेत् स्यात् ॥ ५४॥
__ प्रसूगिरमिति-इमा पूर्वोक्ताम्, प्रसूगिरं जननीवाणीम् 'मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौं' इत्यमरः, श्रुत्वा समाकर्ण्य, प्रसूतं समुत्पन्नं पृथुकौतुकं विशालकौतूहलं यस्य सः, असौ जीवन्धरः, तस्या मातुः, भावमाशयम्, विदन् जानन् , एवमित्थम्, उत्तरं प्रतिवचनम्, आदत्त जग्राह ॥५५॥
कुम्भीन्द्रति-कुम्भीन्द्रा गजेन्द्रा एव शैलाः पर्वतास्तेभ्यो विगलन्त्यः पतन्त्यो या दानधारा मदसन्ततयस्ताभिः सन्निराणि निझरयुक्तानि, चलखड्गश्चञ्चलकृपाणैरेव चञ्चलमृगविशेषैः समावृतानि