________________
१४४
जीवन्धचम्पूकाव्ये
इत्याक्रोशं समाकर्ण्य भूपतिर्बलमादिशत् । स्वामी शुररुद्धोऽपि प्रस्थितः परवीरहा ।। २६ ॥
तदनु रयविजितविहगपतितुरगगग विविधगतिविदलितवसुधातल निर्गलद्बलिकापालिकाविशेपशोषितना कम हीसिन्धून्सुदूरमूर्ध्व प्रसारितशुण्डादण्ड सत्वरपूत्कारशी करपरम्पराभिर्गण्डतलयुगलवि - गलद्दानधाराभिश्च संपूर्य सार्थकनामधेयधरैः सिन्धुरैर्मन्थरगमनं पयोनिधि फेनकूटायमान पटपरिष्कृतपताकादण्डमण्डितरथकड्यासङ्घटितं श्रुतमेचककञ्चुक सम्पत्तिभिः पत्तिभिः सङ्कुलं बलं पुरोधाय प्रतिष्ठमानाः कुरुविन्दकुण्डलरुचिवीचीकवचितभुजविराजिततया बहिरपि साक्षात्प्रसृतमिव प्रतापं विभ्राणाः, एते ह्यनतान् मण्डलीकान्निराकरिष्यन्तीति भयेन सेवार्थमागताभ्यामिव शीतोष्णरश्मिभ्यामङ्गदाभ्यां सङ्गताः, तुङ्गतममुक्ताहारमनोरम विशालवक्षःस्थलतया नक्षत्रमालालङ्कृतशारदाम्बरं तुलयन्तः, ते जीवन्धरनन्दाढ्य पुरःसर सुमित्रप्रमुख राजपुत्राः क्रमेण रणाङ्गणमवतेरुः ।
समूहेन, सहस्र ं रश्मयो ग्रस्य तस्य सूर्यस्य, गोमण्डलं किरणसमूहम्, तव च भवतश्च, गोमण्डलं धेनुसमूहम्, 'गोः स्वर्गे वृषभे रश्मौ वज्रळे शीतकरे पुमान् । अजु 'नीने दिग्वाणभूवागादिषु योपिति' इति विश्वः, निरुध्य वशीकृत्य प्रचुराहहासैः प्रभूतसशब्दहसितैः, लोकस्थितिं जनमर्यादां जनवसतिं वा, अरिधीरतां च शिथिलयति श्लथा करोति । वसन्ततिलकावृत्तम् ॥ २५॥
शत्रुधैर्यञ्च,
इत्याक्रोशमिति - इति पूर्वोक्तम्, आक्रोशं रोदनध्वनिम्, समाकर्ण्य श्रुत्वा भूपतिर्नृपः, बलं सैन्यम्, आदिशदाज्ञापयामास । पर वीराञ् शत्रुयोढन् हन्तीति परवीरहा, स्वामी जीवन्धरः, श्वसुर - vaisपजायाजनकनिषिद्धोऽपि प्रस्थितः प्रयातः ॥ २६ ॥
तदन्विति तदनु तदनन्तरम् रयेण वेगेन विजितः पराभूतो विहगपतिर्गरुडो येन तथाभूतो यस्तुरगगणो घोटकसमूहस्तस्य विविधगतिभिरनेकप्रकारगमनैर्विदलितं खण्डितं यद् वसुधातलं पृथिवीतलं तस्मान्निर्गलन्ती निष्पतन्ती या धूलिकापालिका रजःश्र णिस्तस्या विशेषेण शोषिता निर्जलीकृता नाकमहीसिन्धवः स्वर्गव सुधास्रवन्त्यो यैस्तान्, सुदूरं विप्रकृष्टतरं यथा स्यात्तथा ऊर्ध्वप्रसारित उपरिविस्तारितो यः शुण्डाद्ण्डस्तस्य सत्वराः सरया याः फुकारशी करपरम्पराः फूत्काराम्बुकणपङ्क्तयस्ताभिः, गण्डतलयुगलाकपोलतलद्दन्द्वाद् विगलन्त्यो या दानधारा मदस्रोतांसि ताभिः, सम्पूर्य सम्पूर्णाः कृत्वा सार्थकमन्वितार्थं यन्नामधेयं नाम तस्य धरास्तैः सिन्धूनंदी रान्ति ददति स्वजलपूरेणेति सिन्धुरा हस्तिन इति सिन्धुरशब्दार्थः, सिन्धुरैर्हस्तिभिः, मन्थरं मन्दं गमनं यस्याः सा मन्थरगमना, पयोनिधेः सागरस्य फेनकूटायमानेन डिण्डीरपिण्डवदाचरता पटेन वस्त्रेण परिष्कृताः सहिता ये पताकादण्डा ध्वजदण्डास्तैर्मण्डिता शोभिता, मन्थरगमना पयोनिधिफेनकूटायमानपटपरिष्कृतपताकादण्डमण्डिताच या रथकड्या स्यन्दनसमूहस्तया संघटितं सहितम्, धृता गृहीता मेचकाः श्यामाः कञ्चुकसंपत्तयो वर्मसंपदो यैस्तैः पत्तिभिः पदातिभिः संकुलं व्याप्तम्, बलं सैन्यम्, पुरोधाय पुरस्तात्कृत्वा, प्रतिष्ठमानाः प्रयान्तः कुरुविन्दकुण्डलानां पद्मरागमणिनिर्मितकर्णाभरणानां रुचिवीचीभिः कान्तिपरम्पराभिः कवचितभुजैर्व्याप्त बाहुभिर्विराजिततया शोभिततया, बहिर पि बाह्यमपि, प्रसृतमिव विस्तृतमित्र, प्रतापं तेजः, बिभ्राणा दधानाः, एते जीवन्धरादयः, हि निश्चयेन, अनतान् अनम्रान्, मण्डलीकान् मण्डलाकारानू, पक्षे मण्डलेश्वरान् निराकरिष्यन्ति पराभविष्यन्ति, इति भयेन भीत्या, सेवार्थं पायें, आगताभ्यां प्राप्ताभ्याम्, शीतोष्णरश्मिभ्यामिव सूर्याचन्द्रमोभ्यामिव, अङ्गदाभ्यां केयूराभ्याम्, संगताः सहिताः तुङ्गतमेन समुन्नततमेन मुक्ताहारेण मनोरमं मनोहरं विशालवतः स्थलं विस्तृतोरःस्थलं येषां तेषां भावस्तत्ता तया, नक्षत्रमालया तारापङ्क्तयालङ्कृतं शोभितं यच्छारदाम्बरं शरद्गगनं तत्, तुलयन्त उपमिमानाः, ते पूर्वोक्ताः, जीवन्धरनन्दाढ्यौ वैजयेयनन्दाढ्यौ पुरस्सरौ पुरोगामिनी येषां तथाभूता ये सुमित्रप्रमुखराजपुत्राः सुमित्रादिनरेन्द्रनन्दनास्ते क्रमेण क्रमशः, रणाङ्गणं नभोऽजिरम्, अत्रतेरुरवतरन्ति स्म ।