SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः १४५ भेरीरवः सकलदिक्पतिसौधशृङ्ग वातायनाररकुलानि विभिद्य तृर्णम् । अन्तः प्रविश्य बहुदृरकदध्वखेद विश्रान्तिमाप रणकेलिमुखप्रभूतः ।।२७॥ तदानीमुभयेपां सैनिकानां परस्परमेवं वीरवादा बभूवुः । अम्माकं त्रिजगत्प्रसिद्धयशसामेपा कृपाणीलता शत्रुस्त्रीनयनान्तकजलजलैः श्यामा निपीतैः पुरा । संप्रत्याहवसीम्नि युष्मदसूजा पानेन शोणीकृता वीरश्रीस्मितपाण्डुराचरिततश्चित्रा भविष्यत्यहो ।।२।। गोवृन्दसत्तान् भवतोऽस्मदीयभुजा वयस्या इव संयुगेन । नेष्यन्ति गामद्य निमेपमात्रान्न तिष्ठतास्मत्पुरतो हठेन ॥२६॥ पशून वा प्राणान् वा जहत झटिति क्षीवपुरुषाः स्वमून॑श्चापान वा नमयत नरेन्द्रस्य पुरतः। मुखे वा हस्ते वा कुरुत शरबृन्दं नरपतिं कृतान्तागारं वा शरणयत तूर्णं प्रतिभटाः ॥३०॥ अन्येऽप्येवमाहुः भेरीरव इति-रणकेलिमुखे समरक्रीडाप्रारम्भे प्रभूतः समुत्पन्नः, भेरीरवो दुन्दुभिनादः, तृर्ण शीघ्रम्, सकलदिक्पतीनां निखिलदिक्पालानां सौधशृङ्गवातायनानां भवनानगवाक्षाणामररकुलानि कपाटसमूहान् , विभिद्य विदीर्य, अन्तर्मध्ये, प्रविश्य प्रवेशं कृत्वा, बुन्सितोऽध्वा कदध्वा बहुदृरोऽतिविप्रकृष्टो यः कदध्वा कुमार्गस्तस्मिन् खेदः क्लेशस्तस्य विश्रान्ति प्रशमम्, आप लेभे । वसन्ततिलकावृत्तम् ॥२७॥ तदानीमिति तदानीं तस्मिन् काले, उभयेषां पक्षद्वयस्थानाम्, सैनिकानां सैन्यानाम्, परस्परं मिथः एवं वक्ष्यमाणप्रकाराः, वीरवादाः शूरभाषितानि, बभूवुरजायन्त । अस्माकमिति-विजगन्सु त्रिभुवनेषु प्रसिद्धं प्रख्यातं यशः कीर्तिपां तेपाम्, अस्माकं नः, एषा हस्ते धृता, कृपाणीलता खड्गवल्लरी, पुरा प्राक् , निपीतैर्गृहीतैः, शत्रुस्त्रीनयनान्तानां वैरिवनितानेत्रप्रान्तानां यानि कज्जलजलानि अञ्जनसलिलानि तैः, श्यामा कृष्णवर्णा, सम्प्रतीदानीम्, आहवसीम्नि रणाने, युष्मदसृजां त्वदीयरुधिराणाम्, पानेन धयनेन, शोणीकृता रक्तीकृता, चरमतोऽन्ते, वीरश्रिया वीरलक्ष्म्याः स्मितेन मन्दहसितेन पाण्डरा धवलवर्णा, च सती, चित्रा विविधवर्णा, भविष्यतीव्यहो आश्चर्यम् । शार्दूलविक्रीडितवृत्तम् ॥२८॥ गोवृन्दसत्तानिति-गोवृन्दे धेनुसमूहे सक्तान् कृतममत्वान् , भवतो युष्मान् , अस्मदीयभुजा मद्बाहवः, वयस्था इव सखाय इव, संयुगेन युद्धेन, निमेषमात्रादचिरेण, अद्य साम्प्रतम्, गां धेनुम् पक्षे पृथिवीं स्वर्ग वा, नेष्यन्ति प्रापयिष्यन्ति, अस्मत्पुरतो मदने, हटेन बलात् , न तिष्ठत न स्थिता भवत । श्लेषः ॥ २६ ॥ पशुन् वा प्राणान् वेति-हे प्रतिभटाः प्रतियोद्धारः, क्षीबपुरुषाः प्रमत्तमानवाः, यूयम्, झटिति शीघ्रम्. पशून् वा गा वा, प्राणान् वा जीवितानि वा, जहत त्यजत, नरेन्द्रस्य राज्ञः, पुरतोऽग्रे, स्वमूनः स्वशिरांसि, चापान् वा धनूंषि वा, नमयत प्रयत, मुखे वा वदने वा, हस्ते वा करे वा, शरवृन्दं तृणसमूहं पक्षे बाणसमूहम्, कुरुत विधत्त, तूर्णं क्षिप्रम्, नरपतिं राजानम्, कृतान्तागारं वा यमभवनं वा, शरणयत शरण्यबुद्धया स्वीकुरुत, पक्षे गृहं कुरुत 'शरणं गृहरक्षित्रोः' इत्यमरः। विकल्पालङ्कारः 'विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः' इति लक्षणात् । शिखरिणीच्छन्दः ॥३०॥ अन्येऽप्येवमाहुः-इतरेऽपि जना अनेन प्रकारेण कथयामासुः
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy